सामग्री पर जाएँ
सर्वकोश
भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)

भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)

Bhojanakutuhala of Raghunatha Navahasta

रघुनाथ नवहस्त (सम्पादक: सूरनाड कुंजन पिल्लै) द्वारा

DevanagariSanskritpublished358 पृष्ठ

पृष्ठ 226, कुल 358 में से

संदर्भ में पढ़ें
पृष्ठ 226

प्रथमपरिच्छेदः । १५
क्षारोष्णकटुकं जन्तुकफघ्नं ज्वरशातनम् ।
शीतिकाज्वरहृत् पथ्यं हस्तिकर्ण्यां तु भोजनम् ॥
अर्कपत्रे भृशं रूक्षं कमिघ्नं पित्तकृत्परम् ।
गुल्मशूलविषश्वासपाण्डुकुष्ठकफानिलान् ॥
हन्यात् परमचक्षुष्यं लघु दीपनपाचनम् ।
एरण्डपत्रं वातघ्नं क्रिमिघ्नं पित्तकृत् परम् ॥
पत्रेषु क्षीरवृक्षाणां तृष्णादाहास्रपित्तनुत् ।
वोष्ठुशोथश्वाससोमरोगघ्नं पाटलाशनम् ॥
सर्वग्रन्थिविनाशाय केतकीपत्रभोजनम् ।
मनोहरं रुचिकरं चक्षुष्यं भोजनं लघु ॥
यात्रार्थिनामभिहितं वृष्यं क्लमहरं परम् ।
नलिने कुमुदे रक्तोत्पले वाथोत्पले दले ॥
भोजनं निन्दितं शीतं रूक्षं दौर्भाग्यमग्निनुत् ।
इति पत्राणि ।
भोजनादौ ब्रह्मादीन् स्मरेत् ।
तदुक्तं —
अन्नं ब्रह्मा रसो विष्णुर्भोक्ता देवो महेश्वरः ।
इति सञ्चिन्त्य भुञ्जानं दृष्टिदोषो न विद्यते ॥
अञ्जनागर्भसम्भूतं कुमारं ब्रह्मचारिणम् ।
दृष्टिदोषविनाशाय हनुमन्तं स्मराम्यहम् ॥
इति हनुमत्स्मरणमपि कुर्यात् ।
१ J1. पाण्डुशोफ ।