भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)
Bhojanakutuhala of Raghunatha Navahasta
रघुनाथ नवहस्त (सम्पादक: सूरनाड कुंजन पिल्लै) द्वारा
पृष्ठ 228, कुल 358 में से
संदर्भ में पढ़ेंप्रथमपरिच्छेदः । ११७
स्वभावतश्च गुरु यत् तथा संस्कारतो गुरु ।
मात्रागुरुंस्तु मुद्गादिर्माषादिः पच्यते गुरुः ॥
संस्कारगुरु पिष्टान्नं प्रोक्तमित्युपलक्षणम् ।
आहारं षड्विधं चोष्यं पेयं लेह्यं तथैव च ॥
भोज्यं भक्ष्यं तथा चर्व्यं गुरु विद्याद् यथोत्तरम् ।
चोष्यं इक्षुदाडिमादि, पेयं क्षीरादि, लेह्यं रसालादि, भोज्यं पोलि-
कादि, भक्ष्यं लड्डुकादि, चर्व्यं चिपिटादि ।
गुरूणामर्धसौहित्यं लघूनां तृप्तिरिष्यते ।
माषपिष्टान्नादिभिरर्धसौहित्यं कर्तव्यम् । मुद्गादिभिः स्वाभाविक्या
मात्रया तृप्तिः कर्तव्येत्यर्थः ।
द्रवो द्रवोत्तरश्चापि न मात्रागुरुरिष्यते ।
द्रवः पेयादिः, द्रवोत्तरस्तक्राद्यधिकौदनादिः, मात्रातोऽधिकोऽपि
चेन्न मात्रागुरुर्मन्तव्य इत्यर्थः ।
द्रवाढ्यमपि शुष्कं तु सम्यगेवोपपद्यते ।
विशुष्कमन्नमभ्यस्यं न पाकं साधु गच्छति ।
पिण्डीकृतमसंक्लिन्नं विदाहमुपगच्छति ॥
शुष्कं विरुद्धं विष्टम्भि वह्निव्यापदमावहेत् ।
पुनर्दानं पृथक् पानं सामिषं पयसा निशि ॥
दन्तच्छेदनमुष्णं च सप्त सक्तुषु वर्जयेत् ।
सक्तूनामाशु जीर्येत मृदुत्वादेव लेहिका ॥
आलस्यगौरवाटोपशब्दांश्च कुरुतेऽधिकम् ।
हीनमात्रं तनोः कार्श्यं करोति च बलक्षयम् ॥
अप्राप्तकाले भुञ्जानो ह्यसमर्थतनुर्नरः ।
तांस्तान् व्याधीनवाप्नोति मरणं चाधिगच्छति ॥
१. Bh. omits चोष्यं ... ... पिबेद्भूरि on l. 6 p. 218.
1081