भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)
Bhojanakutuhala of Raghunatha Navahasta
रघुनाथ नवहस्त (सम्पादक: सूरनाड कुंजन पिल्लै) द्वारा
पृष्ठ 225, कुल 358 में से
संदर्भ में पढ़ें॥ ११० ॥ भोजनकुतूहलं
ग्रंथा
आहारनिर्हारविहारयोगाः
सदैव सद्भिर्विजने विधेयाः ।
अथ भोजनभाजनानि ।
दोषहृद् दृष्टिकृत् पथ्यं हेमं भोजनभाजनम् ।
रौप्यं भवति चक्षुष्यं पित्तहृत् कफवातहृत् ॥
कांस्यं बुद्धिप्रदं रुच्यं रक्तपित्तप्रसादनम् ।
पैत्तलं वातकृद्रूक्षमुष्णं कृमिकफप्रणुत् ॥
आयसे काचपात्रे च भोजनं सिद्धिकारकम् ।
शोथपाण्डुहरं बल्यं कामलापहमुत्तमम् ॥
शैलजे मृन्मये पात्रे भोजनं श्रीनिवारणम् ।
दारूद्भवे विशेषेण रुचिदं श्लेष्मकारि च ॥
पात्रं पत्रमयं रुच्यं दीपनं विषपापनुत् ।
जलपात्रं तु ताम्रस्य तदभावे मृदो हितम् ॥
पवित्रं शीतलं पात्र घटितं स्फटिकेन यत् ।
काचेन रचितं तद्वत् तथा वैडूर्यसम्भवम् ॥
अथ पत्राणि ।
रम्भापत्रेऽशनं हृद्यं रुच्यं वृष्यं बलाग्निदम् ।
विषममानिलाग्नेषु हितं पाण्डौ न शस्यते ॥
पालाशपत्रे च मरुच्छ्लेष्मगुल्मोदरप्रणुत् ।
कफवातं पीनसमं रुच्यं श्रेष्ठं च बृंहणम् ॥
. १, J1. दृष्टिदं पथ्यं