सामग्री पर जाएँ
सर्वकोश
भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)

भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)

Bhojanakutuhala of Raghunatha Navahasta

रघुनाथ नवहस्त (सम्पादक: सूरनाड कुंजन पिल्लै) द्वारा

DevanagariSanskritpublished358 पृष्ठ

पृष्ठ 231, कुल 358 में से

संदर्भ में पढ़ें
पृष्ठ 231

२५० भोजनकुतूहल
पर्णमूले भवेद् व्याधिः पर्णाग्रे पापसम्भवः ।
चूर्णपर्णे हरेदायुः शिरा बुद्धिविनाशिनी ॥
आद्यं विक्षेपनं पीतं द्वितीयं भेदि दुर्जरम् ।
तृतीयादि तु. पातव्यं सुधातुल्यं रसायनम् ॥
विद्याकामोऽनिशं रात्रौ ताम्बूलं नैव भक्षयेत् ।
तथा —
• . ताम्बूलं नातिसेवेत न विरक्तो बुभुक्षितः ॥
क्षतासृक्पित्ती क्षीराशी क्षीणो रुक्पविरोग्यपि ।
विषमूर्च्छोपवासातों मेही पाण्ड्वामयी धयी ॥
भूतापस्मारकुष्ठातिसारी कुच्छी च हृद्रवी ।
विना चूर्णं विना पर्णं पूगं खादति यो नरः ॥
दशजन्मदरिद्रस्तु मरणे न हरिं स्मरेत् ।
क्रमुकं पञ्चनिष्पं स्यात् ताम्बूलस्याश्च पलद्वयम् ॥
गुञ्जाह्वयं चूर्णमानं ताम्बूलक्रम उत्तमः ।
तथा—
फलपत्रे समे रागो विरागस्तु फलाधिके ॥
चूर्णाधिक्ये तु दौर्गन्ध्यं पत्राधिक्ये सुगन्धिता ।
रात्रौ च पर्णबहुलं ताम्बूलं भक्षयेन्नरः ॥
जातीलवङ्गकर्पूरतककोलकटुकैस्सह ।
रुचिवैद्यद्यसौगन्ध्यमिच्छन् वक्त्रेण धारयेत् ॥
ताम्बूलमिति शेषः । ताम्बूलातियोगे —
/// पाण्डुत्वं तनुदौर्बल्यमक्षिरोगं बलक्षयम् ।
करोति चोष्णरोगांश्च ताम्बूलमतिसेवनात् ॥
इति ताम्बूलविधिः ।
१. J_1. हरिस्मृतिः ।
२. J_1. omits पत्राधिक्ये ... ... रुचिवैद्यद्यसौगन्ध्यं ।
३. J^1. omits ताम्बूलमिति शेषः ।