भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)
Bhojanakutuhala of Raghunatha Navahasta
रघुनाथ नवहस्त (सम्पादक: सूरनाड कुंजन पिल्लै) द्वारा
पृष्ठ 227, कुल 358 में से
संदर्भ में पढ़ें३१६ भोजनकुतूहले
अथ भोजनविधिः ।
भोजनाग्रे सदा पथ्यं लवणार्द्रकभोजनम् ।
अग्निसन्दीपनं रुच्यं जिह्वाकण्ठविशोधनम् ॥
लवणं सैन्धवम् ।
घृतपूर्वं समश्नीयात् कठिनं प्राक् ततो मृदु ।
अन्ते पुनर्द्रवांशी च बलारोग्ये न मुञ्चति ॥
तथा —
अश्नीयात्तन्मना भूत्वा पूर्वं तु मधुरं रसम् ।
मध्येऽम्ललवणौ पश्चात् कटुतिक्तकषायकान् ॥
फलान्यादौ समश्नीयाद् दाडिमादीनि बुद्धिमान् ।
विना मोचाफलं तद्वद् वर्जनीया च कर्कटी ॥
मृणालबिसशालूककन्देक्षुप्रभृतीन्यपि ।
पूर्वमेव हि भोज्यानि न तु भुक्त्वा कदाचन ॥
अन्नेन कुक्षेर्द्वावंशौ पानेनैकं प्रपूरयेत् ।
आश्रयं पवनादीनां चतुर्थमवशेषयेत् ॥
सौमनसं बलं पुष्टिमुत्साहं रसनासुखम् ।
स्वादु सञ्जनयत्यन्नमस्वादु च विपर्ययम् ॥
अत्युष्णान्नं बलं हन्ति शीतं शुष्कं च दुर्जरम् ।
अतिस्निग्धं ग्लानिकरं युक्तिमुक्तं हि भोजनम् ॥
अतिद्रुताशिताहारो गुणान् दोषान् विन्दति ।
भोज्यं शीतमहृद्यं च स्याद्विलम्बितमश्नतः ॥
नित्यं सर्वरसाभ्यासः स्वस्वाधिक्यमृतावृत्तौ ।
मन्दानलो नरो द्रव्यं मात्रागुरु विवर्जयेत् ॥
१. J₁. T₁. Bh. शुष्कं च ।
२. P₂. अतिमुक्तम् ।