भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)
Bhojanakutuhala of Raghunatha Navahasta
रघुनाथ नवहस्त (सम्पादक: सूरनाड कुंजन पिल्लै) द्वारा
पृष्ठ 233, कुल 358 में से
संदर्भ में पढ़ेंस्नानं विधाय विधिवत् कृतदेवकार्यः
सन्तर्पितातिथिजनः सुजनैः सुकार्यैः ।
रहसि भोजनकृतश्च स्यात्
सायं यथा भवति भुक्तिकरोऽभिलाषः ॥
नित्याचारपवित्रनिर्मलतनुर्धौतप्रसन्नाम्बरो
हृद्यो भोजनवेश्मनि स्थिरतरे मृद्वासने संविशन् ।
पुत्रैस्सखिभिस्ततः परिजनैराप्तैर्वृतः सद्गृह्यैः
सङ्ख्यैश्च नियोगिभिः सुचरितैस्तन्त्रोपयुक्तैर्नृपः ॥
आजातु स्थापनीयं कनकभयमथो रौप्यमग्रे सुपात्रं
स्फारं तस्योपरिष्टात् कनकविरचिताः पत्रिका मण्डलिन्यः ।
भक्तं सोष्णं सबाष्पं शशिकरधवलं कुन्दिकाकुद्मकाभं
मध्ये स्थाप्यं ससूप्यं सुरसुरभि घृतं दक्षिणे स्वर्णपात्रे ॥
भृष्टं तैलादिपक्वं बहुविधरचनाकल्पितं तत्प्रकारै-
रन्योन्यं साभिमानैस्तदपि च सहितं जाङ्गळानूपमांसैः ।
दद्यात् तत्रैव पार्श्वे सुरभि रुचिकरं दक्षिणे वामभागे
लेह्यं चोष्यं च पेयं भवति सुविहितो भक्ष्यवर्गः पुरस्तात् ॥
तथा घृतं च सूप्यं चाप्येकीकुर्याद् यथा पिबेत् ।
घृतेन संप्लुतं ह्यन्नं पाचनं सुखकारि च ॥
वीरायणो निशि निमिः पुनरस्तकाले
मध्यन्दिने च धिषणश्चरकः प्रभाते ।
भुक्तिं जगाद नृपतेर्मम चैष सर्ग-
स्तस्याः स एव समयः क्षुधितो यदैव ॥
यः क्षुधालौल्यभावेन कुर्यादाकण्ठभोजनम् ।
सुप्तव्यालानिव व्याधीन् सोऽनर्थाय प्रबोधयेत् ॥
यः काकवद् दिवाकामः स नक्तं भोक्तुमर्हति ।
स भोक्ता वासरे यः स्यात् रात्रौरेताश्चकोरवत् ॥