भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)
Bhojanakutuhala of Raghunatha Navahasta
रघुनाथ नवहस्त (सम्पादक: सूरनाड कुंजन पिल्लै) द्वारा
४ भोजनकुतूहल
तथा
रक्तशालिर्वरस्तेषु बल्यो वर्ण्यस्त्रिदोषजित् ।
चक्षुष्यो मूत्रलः स्वर्यः शुक्रलस्तद्द्वज्वरापहः ॥
राजनिघण्टौ—
। वपुःप्रदञ्श्वासकासदाहनुद --
मुण्डशालिस्त्रिदोषघ्नो मधुराम्लो बलप्रदः ॥
रुचिकृद्दीपनः पथ्यो मुखजाड्यरुजापहः ।
निःशूको मुण्डशालिः ।
राजनिघण्टौ—
महाशालिः स्वादुर्मधुरशिशिरः पित्तशमनो
ज्वरं जीर्णं दाहं जठररुजमहाय शमयेत् ।
शिशूनां यूनां वा यदतिजरसां वा हितकरः
सदा सेव्यस्सर्वैरनलबलवीर्याणि कुरुते ॥
स्थूलशालिः ।
राजनिघण्टौ —
सूक्ष्मशालिस्तु मधुरो लघुः पित्तास्रदाहनुत् ।
दीपनः पाचनश्चैव किञ्चिद्वातविकारजित् ॥
सूक्ष्मशालिः ।
राजनिघण्टौ—
सुगन्धशालिर्मधुरोऽतिवृष्यः पित्तभ्रमास्रारुचिदाहशान्तिदः ।
स्तन्यश्च गर्भस्थिरताल्पवातदः पुष्टिप्रदश्चाल्पकफश्च बल्यः ॥
गन्धशालिः ।
१. Bh. शालिष्वलस्तेषु
२. Bh. omits the word राजनिघण्टौ
३. Bh. omits the word राजनिघण्टौ
४. Bh. माशु शमयेत्
प्रथमपरिच्छेदः ।
राजनिघण्टौ—
तिरियो मधुरः स्निग्धः शीतलो दाहपित्तजित् ।१
त्रिदोषशमनो रुच्यः पथ्यः सर्वामयापहः ॥
“मासैर्जन्यस्त्रिभिस्स्यातं स भवति तिरियः” इति तलक्षणम् ।
तिरियशालिः ।
राजनिघण्टौ—
षष्टिवासरजस्सोऽयं ज्ञेयो मासद्वयोद्भवः ।
गौरो नीलषाष्टिकोऽयं द्विधा स्यादाद्यो रुच्यः शीतलो दोषहारी ।
बल्यः पथ्यो दीपनो वीर्यवृद्धिं दत्ते चास्मात् किञ्चिदूनो द्वितीयः ॥
षाष्टिका , मालवे प्रसिद्धाः ।
राजनिघण्टौ—
व्रीहिर्गौरो मधुररसकः पित्तहारी कषायः
स्निग्धो वृष्यः कृमिकफहरस्तापरक्तापहश्च ।
पुष्टिं दत्ते श्रमशमनकृद् वीर्यवृद्धिं विधत्ते
रुच्योऽत्यन्तं जनयति च मुदं वातकृन्मेचकोऽन्यः ॥
गौरशालिः, हरिद्र इति प्रसिद्धः ।
वाग्भटस्तु—
रक्तो महान् सकलमस्तूर्णकः शकुनाहृतः ।
सारामुखो दीर्घशूको रोद्धशूकः सुगन्धकः ॥
पौण्ड्रकः पुण्डरीकश्च प्रमोदो गौरशालिकः ।
लाङ्गलो लोहवालाख्यः कर्दमोऽशीतभीरुकः ॥
१. Bh. omits the word राजनिघण्टौ
२. T1. has सर्वगदापहः and also the variant reading:-
सर्वाक्षतापहः, which variant T2. also gives.
३. Bh. प्रदत्ते
४. Bh. रुच्योत्पत्तिं जनयति
भोजनकुतूहलम्
पतङ्गास्तपनीयाश्च ये चान्ये शालयश्शुभाः ।
स्वादुपाकरसास्स्निग्धा वृष्या बद्धालपवर्चसः ॥
कषायानुरसाः पथ्या लघवो मूत्रला हिमाः ।
शूकजेषु वरस्तत्र रक्तस्तृष्णात्रिदोषहा ॥
महांस्तस्यानुकलमस्तं चाप्यनु ततः परे ।
यवका हायनाः पांशुवाष्पनैषधकादयः ।-
स्वादूष्णा गुरवः स्निग्धाः पाकेऽम्लाः श्लेष्मपित्तलाः ॥
सृष्टमूत्रपुरीषाश्च पूर्वं पूर्वे च निन्दिताः ॥
स्निग्धो ग्राही लघुः स्वादुस्त्रिदोषघ्नः स्थिरो हिमः ।
षष्टिको व्रीहिषु श्रेष्ठो गौरश्चासितगौरतः ॥
ततः क्रमान्महाव्रीहिकृष्णव्रीहिजतूमुखाः ।
कुक्कुटाण्डकलावास्यपारावतकसूकराः ॥
वरकोड्डाकौद्दालचीनशारददुद्देराः ।
गन्धनाः कुरुविन्दाश्च गुणैरल्पान्तरास्स्मृताः ॥
स्वादुरम्लविपाकोऽन्यो व्रीहिः पित्तकरो गुरुः ।
बहुमूत्रपुरीषोष्मा त्रिदोषश्चैव पाटलः ॥ इति ।
रक्तो लोहितः । महान् महातण्डुलः कलमः , अन्तर्वेद्यां कल-
बीति प्रसिद्धः । तूर्णकश्शीघ्रपाकी , आश्वयुज इति काश्मीरे प्रसिद्धः ।
शकुनाहृतः गरुडापरनामा । उक्तं च—
द्वीपान्तरात्समानीतो गरुडेन महात्मना ।
शकुनाहृतशालिः स्यात् गरुडापरनामकः ॥ इति ।
सारासुखः कृष्णशुक्लाकारतण्डुलः । दीर्घशूकः अत्यायतशूकः ।
रोध्रशूको रक्तशूकः । सुगन्धकः गन्धशालिः । पौण्ड्रकः पाण्डुरशालिः ।
पुण्डरीकः श्वेतोत्पलकः । प्रमोदकः प्रह्लादकः , कमोद इति प्रसिद्धः ।
गौरशालिकः हरिद्रः । जाङ्गलः सीरकृष्टभूमिजः । लोहवालः अति-
कठिनतण्डुलः । कर्दमः पङ्कजः । शीतभीरुकः शीतमात्रनिष्पन्नः ।
१. Bh. रक्ततृष्णा
२. P1, P2, J1. दुर्दुराः
३. P1, P2. आश्वयुजम् इति
प्रथमपरिच्छेदः ।
पतङ्गः उष्णानिषन्नः । तपनीयोऽल्पशीतजन्यः । त्रिदोषहेति रक्तविशे-
षणम् । तदीषद्विगुणो महान् । तदनु कंलमः । नैषधकादय इति आदि
शब्देन चम्पकपत्रिकासाङ्ग्रहः) 'यवका' इत्यारभ्य 'निन्दिता' इत्यन्त
एको ग्रन्थः । शेषं स्पष्टम् । सुषेणः-
रुच्याः पाचनदीपना बलकरा वृष्यास्त्रिदोषापहा-
श्शुक्रश्लेष्मविवर्धना रुचिकराः सन्दीपनास्तर्पणाः ।
पथ्यास्सर्वगदे हिताः श्रमहराः क्षुत्तृट्श्रमध्वंसिनः
श्रेष्ठा व्रीहिषु पाष्टिकाः कलमका रक्ता महाशालयः ॥ इति ।
नीवाराणां व्रीहिवर्गे पाठमाह प्रयोगपारिजातः । वाग्भटस्तु
तृणधान्यवर्गे । तत्र पूर्वस्यावयवसाम्यमुत्तरस्य गुण साम्यं पाठहेतुः ।
गुणाश्च-
कषायमधुरो रूक्षो नीवारः कफपित्तहृत् ।
ग्राही लघुर्बलहरो मुनीनां देहधारकः ॥
देवसाळी ।
अथ गोधूमाः ।
वाग्भटः -
वृष्यश्शीतो गुरुः स्निग्धो जीवनो वातपित्तहा ।
सन्धानकारी मधुरो गोधूमः स्थैर्यकृत्सरः ॥
राजनिघण्टौ -
गोधूमः स्निग्धमधुरो वातघ्नः पित्तदाहकृत् ।
गुरुः श्लेष्मप्रदो बल्यो रुचिरो वीर्यवर्धनः ॥ इति ।
स्निग्धोऽन्यो लघुगोधूमो गुरुर्वृष्यः कफापहः ।
आमदोषकरो बल्यो मधुरो वीर्यपुष्टिदः ॥
सोनेगहूं
१. T2 omits पत ... ... ष्णमः
२. I₁ omits this verse.
भोजनकुतूहले
वाग्भटः -
पथ्या नान्दीमुखी शीता कषाया मधुरा लघुः ।
दीर्घसूक्ष्मो गोधूमो नान्दीमुखी ।
कांटेगहूं ।
भावप्रकाशे -
गोधूमस्सुमनोऽपि स्यात् त्रिविधस्स च कीर्तितः ।
महागोधूम इत्याख्यः पश्चाद्देशात्समागतः ॥
मधूली तु ततः किञ्चिदल्पा सा मध्यदेशजा ।
निःशूको दीर्घगोधूमः कश्चिन्नान्दीमुखाभिधः ॥
यत्तु 'कफशुक्रमदो बल्यः' इति ग्रन्थान्तरे कफकारित्वमुक्तं तन्नवीन-
विषयं ज्ञेयम् ।
अथ यवाः ।
रूक्षश्शीतो गुरुः स्वादुस्सरो विड्वातकृद्यवः ।
वृष्यस्स्थैर्यकरो मूत्रमेदःपित्तकफान् जयेत् ॥
पीनसश्वासकासोरुस्तम्भकण्ठत्वगामयान् ॥
निघण्टौ -
यवः कषायो मधुरस्तुशीतलः प्रमेहजित् पित्तकफापहारकः ।
अशूकमुण्डस्तु यवो बलप्रदो वृष्यश्च नॄणां बहुवीर्यपुष्टिदः ॥
'न्यूना यवादद्यनुयवः' इति वाग्भटः ।
जब ।
निघण्टौ -
शीतः कषायो मधुरश्च रूक्षो मेहः कृमिश्लेष्मविषापहश्च ।
पुष्टिं च वीर्यं च बलं च दत्ते पित्तापहो वेणुयवः प्रशस्तः ॥
वंशबीजः ।
[..] कषायमधुरा
अथ यावनाळगुणाः ।
निघण्टौ -
धवलो यावनाळस्तु गौळ्यो बल्यस्त्रिदोषजित् ।
वृष्यो रुचिप्रदोऽशीतः पथ्यो गुल्मव्रणापहः ॥
लैटोरा ।
तुवरो यावनाळस्तु कषायोष्णो विशोषकृत् ।
सङ्ग्राही वातशमनो विदाही शौककारकः² ॥
³रक्तस्य ।
शारदो यावनाळस्तु श्लेष्मलः ⁴पित्तलो गुरुः ।
शिशिरो मधुरो वृष्यो दोषघ्नो बलपुष्टिदः ॥
⁵शौळ ।
यावनाळो महान् बल्यो दुर्जरो वातपित्तकृत् ।
⁶रुच्यस्सन्तर्पणो बालप्रियो मक्कासमुद्भवः ॥
मक्का ।
वाग्भटस्तु -
निस्सारो वातलो रूक्षो जूर्णस्त्वाध्मानकृत्सरः⁷ ।
इति साधारण्येनाह ।
१. P₁, P₂, T₁, T₂. Bh. omit this
२. P₁· P₂. Bh. J₁. शोषकारकः ।
३. J₁ रक्तयावनाळः ।
४. J₁. पिच्छलो
५. J₁. कारशाळू ।
६. J₁. Omits 'रुच्य ... ... महासमुद्भवः' ।
७. J₁ The Revisor adds in the margin after सरः इति
वरको वारयत्यग्निं वातव्याधिविवर्धनम्
धातूनां शोषणं ग्राहि रूक्षः सारविवर्जितः ॥ वरे
महत्प्रियङ्गु गुरु रूषणं स्यात्समीरकारी मधुरः कषायः सङ्गुर
भोजनकुतूह[लम्]
¹ हेद्दाला मधुरा वृष्या वाजिनां पुष्टिकारकाः ।
वातप्रकोपना बल्याः पिच्छला नाग्निदीपनाः ॥
सजगुरे
इति शूकधान्यप्रकरणम् ।
अथ शिम्बीधान्यम् ।
वाग्भटः —
मुद्गाढकीमसूरादि शिम्बीधान्यं विबन्धकृत् ।
कषायं स्वादु सङ्ग्राहि कटुपाकं हिमं लघु ॥
मेदश्लेष्मास्रपित्तेषु हितं लेपोपसेकयोः ।
निघण्टौ —
धान्यानां कञ्चुकं शिम्बी बीजगुप्तिश्च सा भवेत् ।
तद्गुप्तानि तु धान्यानि शिम्बीधान्यानि चक्षते ॥
मुद्गास्तत्र वरास्वादुकषायाः कटुपाकिनः ।
ग्राहिणोऽल्पबला रूक्षा रोचना लघवो हिमाः ॥
मेहास्रपित्तश्लेष्मघ्ना बल्या दृष्टिप्रसाधनाः ।
² तत्र निघण्टौ —
कृष्णमुद्गस्त्रिदोषघ्नो मधुरो वातनाशनः ॥
लघुश्च दीपनः पथ्यो बलवीर्याङ्गपुष्टिदः ।
हरिन्मुद्गः कषायश्च मधुरः कफपित्तनुत् ॥
१. P₁. हूराला
२. J₁. The Revisor adds in the margin —
दृष्टिप्रसादना मुद्गाः स्निग्धा मारुतघातकाः ।
हरिताः सृष्टविण्मूत्रप्रधाना मध्यजातिषु ॥
प्रथमपरिच्छेदः
॥ तथा लघुदीपनः ।
तद्वच्च धूसरो मुद्गो रसवीर्यादिषु स्मृतः ॥
कषायमधुरो रूक्ष्यः पित्तवातविबन्धकृत् ।
इति मुद्गगुणाः ।
अथ माषगुणाः ।
निघण्टौ
माषः स्निग्धो बहुमलकरः शोषणः श्लेष्मकारी
वीर्येणोष्णो झटिति कुरुते रक्तपित्तप्रकोपम् ।
हन्याद्वातं गुरु बलकरो रोचनो भक्ष्यमाणः
स्वादुर्नित्यं श्रमसुखवतां सेवनीयो नराणाम् ॥
सुखवतां अरोगिणाम् ।
राजमाषो नीलमाषो नृपमाषो नृपोचितः ।
कफपित्तहरो रुच्यो वातकृद्बलदायकः ॥
अरण्यमाषा गुणतः प्रदिष्टा रूक्षाः कषाया अविदाहिनश्च ।
इति माषाः ।
अथ राजमाषगुणाः ।
राजमाषो गुरुर्भूरिमलकृद्रूक्षोऽतिवातलः ।
कषायानुरसः स्वादुरवृष्यः श्लेष्मपित्तजित्
निघण्टौ
कषायमधुरः शीतलः कफपित्तहृत्
श्रमहरो रुच्यः पवनाध्मानकारकः
थोरचवळे ।
१. J1. पीतो वातविबन्ध
२. J1. Reads नीलमाषगुणाः । before अरण्यमाषा etc.
अथ लङ्कागुणाः ।
निघण्टौ —
लङ्का रूक्षा हिमा मौल्या .पित्तविद्रावकद् गुरुः ।
उक्त —
त्रिपुटो मधुरस्तिक्तस्तुवरो रूक्षको भृशम् ।
कफपित्तहरो रुच्यो ग्राहकृच्छीतलस्तथा ॥
कीलखञ्जत्वपङ्गुत्वकारी वातातिकोपनः ॥
लंक ।
इति लङ्कागुणाः ।
अथ तुवरीगुणाः ।
निघण्टौ —
आढकी तु कषाया स्यान्मधुरा कफपित्तजित् ।
ईषद्रातकरा रुच्या विदुला गुरु ग्राहिला ॥
इति । पारिजाते —
आढकी कफपित्तघ्नी ग्राहिणी रक्तशीतला ।
कषायमधुरा गुर्वी ज्वरातीसारनाशिनी ॥
प्रमेहघ्नी घृते सिद्धा त्रिदोषशमनी लघुः ।
सा च श्वेता दोषदा लोहिता बहुप्या वरा पित्ततापोपहन्त्री ।
या श्यामा चेद्दीपनी पित्तदाहध्वंसा वल्यं चाढकीषट्प्रकारम् ॥
इति तुवरीगुणाः ।
- Bh. स्वीन्ना
- P₂. खिल्लखञ्ज ; Bh. कलायवत्त्व
- P₁, P₂, T₁, T₂. Bh. omit पारिजाते —
- Bh. घृतस्निग्धा
- The revisor adds in the margin after this:
प्रथमपरिच्छेदः
अथ कुलित्थाः
कषायास्स्वादुरूपोष्णाः कुलित्था रक्तपित्तलाः ।
ग्राहिणो लघवस्तीक्ष्णा विपाकेऽम्ला विदाहिनः ॥
पीनसश्वासकासार्शोहिध्मानांहकफानिलान् ।
घ्नन्ति शुक्राश्मरीं शुक्रं र्दृष्टिं शोफं तथोदरम् ॥
कुलवेले ।
ऐते शुक्लाश्च कृष्णाश्च लोहिताश्चित्ररूपिणः ।
एते समगुणास्सर्वे वेदिता गुणवेदिभिः ॥
आनाहमे दोगुरुकीलहिकाश्वासापहश्शोणितपित्तकृच्च ।
कफस्य हन्ता नयनामयघ्नो विशेषतो वन्यकुलित्थ उक्तः ॥
रौजकुलत्थी ।
इति कुलित्थगुणाः ।
अथ निष्पावाः ।
निष्पावो वातपित्तासृक्स्तन्यमूत्रकरो गुरुः ।
सरो विदाही दृक्शुक्रकफशोफविषापहः ॥
[निघ]ण्टौ —
मधुरः श्वेतनिष्पावो माध्वीका मधुशर्करा ।
पल्लङ्कषा स्थूलशिम्बी दृग्धा मधुसितासिता ॥
१. J1. कासार्शोहिध्मानाह
२. T1 P1, P2. Bh. शुक्राश्मरी शुक्रं
३. All mss. read रक्तिदोषं तथोदरम् । The text has be r-
mended according to Astāngasangraha, from which the
quotation is taken.
४. J1. एते शुक्लकृष्णलोहितचित्रभेदेन चतुर्विधास्समगुणाः । सुषेणः —
भोजनकुतूहले
मधुशर्करा सुरुच्या (च) मधुराल्पकषायका .
शिशिरा वातला बल्या चाध्मानगुरुपुष्टिदा ॥ ^१श्वेतवेल्लः ।
सोऽन्यश्च कटुनिष्पावः पचूरश्च नदीभवः ।
नदीनिष्पावकस्तिक्तः कटुकोऽस्रमदो गुरुः ॥
वातलः कफदो रूक्षः कषायो विषदोषनुत् ॥ ^२नदीजः ।
इति बल्यगुणाः ।
अथ मकुष्ठाः ।
^३पारिजाते —
मकुष्ठकः कषायस्स्थान्मधुरो रक्तपित्तजित् ॥
ज्वरदाहकरः पथ्यो रुचिकृत्सर्वदोषनुत् ।
‘मकुष्ठाः कृमिकारिणः’ इति वाग्भटः !
मठ ।
अथ तिलाः ।
उष्णस्त्वल्^४पो हिमस्पर्शः केश्यो बल्यस्तिलो गुरुः ।
अल्पमूत्रः कटुः पाके मेधाग्निकफपित्तकृत् ॥
स्वादुः कषायतिक्तश्च हृद्यश्शोफव्रणापहः ।
शुक्लस्तिलः श्लेष्मपित्तबलवर्णकरो गुरुः ।
कृष्णस्तिलः प्रमेहार्शश्शोफघ्नो दन्तदार्ढ्यकृत् ॥
१. P1. P2. T1. T2. Bh. omit श्वेतवेल्लः ।
२. P1. P2. T1. T2. Bh. omit नदीजः ।
३. P1. P2. T1. T2. Bh. omit पारिजाते —
४. P1. P2. स्तन्व्यो ।
J1. adds after this : तिलाः ।
प्रथमपरिच्छेदः । १७
निघण्टौ —
स्निग्धो वर्णबलाग्निवृद्धिजननः स्तन्योऽनिलघ्नो गुरुः
सोष्णः पित्तकरोऽल्पमूत्रकरणः केश्योऽतिपथ्यो व्रणे ।
ग्राही स्यान्मधुरः कषायसहितस्तिक्तो विपाके कटुः
कृष्णः पथ्यतमः सितोऽल्पगुणदः क्षीणास्ततोऽन्ये तिलाः ॥
इति । अन्ये जर्तिलाद्याः । 'जर्तिलस्तु वनोद्भवः ।'
पललं मधुरं रुच्यं पित्तास्रबलपुष्टिदम् ।
पेललं तिलपिष्टकम् ।
पिना ।
पिण्याकः कटुको गौल्पः कफवातप्रकोपकृत् ।
पिण्याकस्तिलकल्कः ।
पेण्डि ।
इति तिलाः ।
अथातसी ।
निघण्टौ —
अतसी मेद्गन्धा स्यात् मधुरा बलकारिका ।
कफवातकरी चैषत्पित्तहृत्पृष्ठशूलनुत् ॥
जैवस ।
१. T 2. कृष्णश्रेष्ठतमः । J 1. omits the first three lines in
this verse.
२. T 1. J 1. omit पललं तिलपिष्टकम् ।
३. J 1. omits पिण्याकस्तिलकल्कः ।
४ T 2. मन्दगन्धा; J 1. reads this verse after the next.
५. All mss. other than J 1. omit this word.
१० भोजनकुतूहले
तथां
स्निग्धोमा स्वादुतिक्तोष्णा कफपित्तकरी गुरुः ।
दृक्शुक्रहृत्कटुः पाके तद्बद्बीजं१ कुसुम्भजम् ॥
कुसुंभे ।
३इत्यतसीकुसुम्भगुणाः
अथ सर्षपाः ।
निघण्टौ —
आसुरी कटुतिक्तोष्णा वातप्लीहार्तिशूलनुत् ।
दाहपित्तप्रदा हन्ति कफपित्त४कृमिव्रणान् ॥
मोहरी ।
राजसर्षपकस्तिक्तः कटूष्णो वातशूलनुत् ।
पित्तदाहप्रदो गुल्मकण्डूकुष्ठव्रणापहः ॥
कृष्णशिरस ।
निघण्टौ —
सिद्धार्थः कटुतिक्तोष्णो वातरक्तग्रंहापहः ।
त्वग्दोषशमनो रुच्यो विषभूतग्रहापहः ॥
श्वेतसर्षप ।
इति सर्षपाः ।
१. T2. तदुद्बीजं Bh. तद्बीजं च ।
२. All mss. other than J1. omit this word.
३. Bh. इति जवसफडईगुणाः ।
४. •T2. गुल्मकृमि
५. P2. Gives also the Tamil equivalent Katuku.
६. P1. omits the word कृष्णशिरस; P2. कृष्णसर्षप.
७. Bh. ग्रहापहः ।
प्रथमपरिच्छेदः ।
अथ मसूराः ।
निघण्टौ —
मसूरो मधुरश्शीतः सङ्ग्राही कफपित्तजित् ।
वातामयकरश्चैव मूत्रकृच्छ्रहरो लघुः ॥
इति मसूराः ।¹
इति शिम्बीधान्यप्रकरणम् ॥
अथ तृणधान्यम् ।
वाग्भटः —
कङ्गुकोद्रवनीवारश्यामाकादि हिमं लघु ।
तृणधान्यं पवनकृल्लेखनं कफपित्तहृत् ॥
निघण्टौ —
स्त्रियां कङ्गुप्रियंगू द्वे कृष्णा रक्ता सिता तथा ।
पीता चतुर्विधा कङ्गुस्तासां पीता वरा स्मृता ॥
कङ्गुस्तु भग्नसन्धानवातकृद् बृंहणी गुरुः ।
रूक्षा श्लेष्महरातीव वाजिनां गुणकृद् भृशम् ॥
चीनाकः कङ्गुभेदोऽस्ति स ज्ञेयः कङ्गुवद् गुणैः ॥
³राळे ।
निघण्टौ —
श्यामाको मधुरः स्निग्धः कषायो लघुशीतलः ।
वातकृत्कफपित्तघ्नः सङ्ग्राही विषदोषनुत् ॥
⁴साँवे ।
१. P1. P2. Bh. मसूरगुणाः ।
२. Bh. त्रिधा कङ्गु ।
३. P2. Gives also the Tamil equivalent Tenai.
४. P2. Gives also the Tamil equivalent Sāmai.
२० केवरकुई ले
निघण्टौ
कोद्रवो मधुरस्तिक्तो व्रणानां पथ्यकारकः ।
कफपित्तहरो रूक्षो मोहकृच्छीतलो गुरुः॥
हारक ।
निघण्टौ --
वरको मधुरो रूक्षः कषायो वातपित्तकृत ।
वरयी ।
वारिजो गिल्लाच्छिन्नो बहुदलकणिशश्च गुच्छकणिशश्च
तिक्तो मधुरकषायः शीतः पित्तास्रनाशनो बल्यः ॥
नाचणे ।
निघण्टौ--
कुरी तु तृणधान्यं स्यान्मधुरं तद्गलप्रदम् ।
हरितं चाथ पक्वं वा वाजिनां पुष्टिदायकम् ॥
१, अन्तर्वेद्यां प्रसिद्धौ ।
इति तृणधान्यप्रकरणम् ॥
१. P₂. Gives also the tamil equivalent Kevaraku.
[1. The revisor adds the following in the margin
मलीनको रक्तमु ो नर्तको नर्तमुद्गकः ।
नीवारस्थण्डिलाम्ब्वद्रीवनव्रीहिर्मुनिप्रियः ॥
नर्तकश्चक्रसस्यं स्यान्निश्शुको भूधरः खरः ।
नर्तकः व्रीहिसबलो ह्यर्णवो दोषहल्लघुः ॥
नर्तकः पित्तहा शीतो वनव्रीहिफलप्रदः ॥
नीवार, वनव्रीहि नाचणे गणा..
प्रथमपरिच्छेदः ।
[अथ धान्यसामान्यगुणप्रकरणम् ।]
वाग्भटः —
माषोऽत्र सर्वेष्ववरो यवकश्शूकजेषु च १।
अत्र शिम्बीधान्ये । सुषेणः —
धान्यं वापितमुत्तमं तदखिलं छिन्नोद्भवं मध्यमं
ज्ञेयं यद्यदवापितं तदधमं निस्सारदोषप्रदम् ।
दग्धायां भुवि चोप्यतेऽपि विपिने ये वापिताः शालयो
ये च छिन्नभवा भवन्ति खलु ते विण्मूत्रबन्धप्रदाः ॥
क्षारोदकसमुत्पन्नं धान्यं सर्वरुजावहम् ।
स्वादु शुभ्रोदके जातं धान्यं सर्वरुजापहम् ॥
सुस्निग्धमृत्तिकोद्भूतं धान्यमोजोबलप्रदम् ।
बलपुष्टिप्रभावघ्नं बालुकामृत्तिकोद्भवम् ॥
नवं धान्यमभिष्यन्दि लघु संवत्सरोषितम् ।
द्वयब्दोषितं लघुतरं त्रिवर्षमबलं भवेत् ॥
चणका यवगोधूमास्तिला माषा नवा हिताः ।
३नैवा इति शेषः ।
पुराणा विरसा रूक्षा अहिता दुर्जरा बलाः ।
१. J1. The revisor adds on this subject in the margin
of the previous folio : अत्र —
सर्वं धान्यं नवं निन्द्यं नवमुद्गो वरो हितः ।
संवत्सरोषितो व्रीहिर्लघुः पथ्यतमो मतः ॥
केचिदाचक्षते धान्यं पथ्यं श्रेष्ठं त्रिवाषिकम् ।
षण्मासानन्तरं पथ्यं शिम्बीधान्यं प्रचक्षते ॥
तत्र माषोऽवरः प्रोक्तः शूकजेषु यवो मतः ।
व्रीहिधान्येषु सर्वेषु शालिः श्रेष्ठतमो मतः ॥
शिम्बीधान्येषु सर्वेषु प्रवरो मुद्ग उच्यते ॥
२. T2. omits 'स्वादु...पहम्'
३. T1 Bh. J1 omit नवा इति शेषः ।
२२ भोजनकुतूहले
वाग्भटः—
नवं धान्यमभिष्यन्दि सैक्यं केदारजं च यत् ।
अभिष्यन्दीत्यन्वयः ।
लघु वर्षोषितं दग्धभूमिजं स्थलसम्भवम् ।
शीघ्रजन्म तथा सूप्यं निस्तुषं युक्तिभर्जितम् ॥ इति ॥
अथ भृष्टधान्यगुणाः ।
ये केचिद् व्रीहयो भृष्टास्ते लाजा इति संज्ञिताः
उपलक्षणमेतत् ।
येषां स्युस्तण्डुलास्तानि धान्यानि सतुषाणि तु ।
भृष्टानि स्फुटितान्याहुर्लाजा इति मनीषिणः ॥
इति अभिधानात् ।
लाजाः स्युश्छर्द्यतीसारमेहमेदःकफच्छिदः ।
कासपित्तोपशमना दीपना लघवो हिताः ॥
तथा—
लाजास्स्युर्मधुराश्शीता लघवो दीपनाश्च ते ।
स्वल्पमूत्रा अल्परूक्षा बल्याः पित्तकफच्छिदः ॥
छर्द्यतीसारदाहास्त्रमेहमेदस्तृषापहाः ॥
निघण्टौ—
लाजाश्च यवधानाश्च तर्पणाः पित्तनाशनाः ।
गोधूमयावनाळोत्थाः किञ्चिदुष्णाश्च दीपनाः ॥
इति लाजाः ।
प्रथमपरिच्छेदः ।
निघण्टौ-
यवास्तु निस्तुषा भृष्टाः स्मृता धाना इति स्त्रियाम् ।
धानास्तु दुर्जरा रूक्षास्तृट्प्रदा गुरवश्च ताः ॥
तथा मेदःकफच्छर्दिनाशिन्यस्सम्प्रकीर्तिताः ॥
इति धानाः ।
अथ सक्तवः ।
धान्यानि भ्राष्ट्रभृष्टानि यन्त्रपिष्टानि सक्तवः ।
तत्र-
यवजास्सक्तवश्शीता दीपना लघवस्सराः ।
कफपित्तहरा रूक्षा लेखनाश्च प्रकीर्तिताः ॥
ते पीता बलदा वृष्या बृंहणा भेदनास्तथा ।
तर्पणा मधुरा रुच्याः परिणामे बलावहाः ॥
कफपित्तशमक्षुत्तृड्व्रणनेत्रामयापहाः ।
प्रशस्ता घर्मदाहाध्वव्यायामार्तशरीरिणाम् ।
यवसक्तु ।
निस्तुषैश्चणकैर्भृष्टैस्तुर्यांशैश्च यवैः कृताः ।
सक्तवश्शर्करासर्पिर्युक्ताः ग्रीष्मेऽतिपूजिताः ॥
चणकयवसक्तु
सक्तवश्शालिसम्भूता वह्निदा लघवो हिमाः ।
मधुरा ग्राहिणो रुच्याः पथ्याश्च बलशुक्रदाः ॥
शालिसक्तु ।
अन्यांस्तत्तद्द्रव्यगुणान् लघून् किञ्चिद्विशेषतः ।
यावनाळादिसम्भूतान् विजानीयाद्विचक्षणः ॥
१. P1 'बलभूफदाः'
भोजनकुतूहले
सक्तवो लघवः क्षुत्तृट्श्रमनेत्रामयव्रणान् ।
घ्नन्ति सन्तर्पणाः पानात् सद्य एव बलप्रदाः ॥
नोदकान्तरितान्न द्विर्न निशायां न केवलान् ।
न भुक्त्वा न द्विजैश्छिन्नन् सक्तूनद्यान्न वा बहून् ॥
इति सक्तुप्रकरणम् ।'
शालयस्सतुषा आर्द्रा भृष्टा अस्फुटिताश्च ताः ।
कुट्टिताश्चिपिटास्सम्यक् ते स्मृताः पृथुका इति ॥
पृथुका गुरवो वातनाशनाः श्लेष्मला अपि ।
सक्षीरा बृंहणा वृष्या बल्या भिन्नमला हि ते ॥ पोहे ।
अर्धपक्वैश्शमीधान्यैस्तृणभृष्टैश्च होलकः ।
होलकोऽल्पानिलो मेदःकफदोषश्रमापहः ॥
भवेद्यो होलको यस्य स च तत्तद्गुणो भवेत् । उळा ।
मञ्जरी त्वर्धपक्वा या यवगोधूमयोर्भवेत् ॥
तृणानलेन संसृष्टा बुधैरुम्बीति सा स्मृता ।
उम्बी कफप्रदा बल्या लघ्वी पित्तानिलापहा ॥ वोंवी ।
अर्धस्विन्नास्तु गोधूमा अन्येऽपि चणकादयः ।
कुल्माषा इति कथ्यन्ते शब्दशास्त्रेषु पण्डितैः ॥
J₁. The revisor adds the following in the margin-
पाचितं शुक्लशिम्बीरपिष्टाभ्यां पित्तकोपनम्
कुर्याच्छिरोभ्रमं कार्श्यं प्रशस्तं देहिनां हितम् ॥
अंबीलपाण्याची ॥
Bh. धर्मस्विन्नास्तु.
An exact line-by-line transcription of the page into Markdown:
प्रथमपरिच्छेदः । २५
कुल्माषा गुरवो रूक्षा वातला भिन्नवर्चसः !
यवपिष्टमुष्णोदकसिक्तमीषत्स्विन्नम¹पूपीकृतं कुल्माष इति केचित् ⁝
घुगर्या
दग्धबी²जास्समधुरा दुर्जरा वीर्यपुष्टिदाः ।
तथा—
सुभृष्टश्चणको रुच्यो वातघ्नो रक्तदोषकृत् ।
वीर्येणोष्णो लघुश्चैव स्वेदशैत्यापहारकः ॥
³फुटाणे
स्विन्नास्तु दग्धबीजास्स्युर्मधुरा वीर्यपुष्टिदाः ।
त एव लवणोपेताः किञ्चिदल्पगुणा मताः ।
मिठाणे ।
तैलेऽथ वापि च घृते जरणादियुक्ते
तप्ते जलार्द्रचणकाः ⁴सुभृतास्सुयुक्त्या ।
वाताल्पदाः शिखिकरास्⁵सबला न रूक्षा
हृद्या भवन्ति सुखदा अपि बालकाना