भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)
Bhojanakutuhala of Raghunatha Navahasta
रघुनाथ नवहस्त (सम्पादक: सूरनाड कुंजन पिल्लै) द्वारा
पृष्ठ 19, कुल 358 में से
संदर्भ में पढ़ेंभोजनकुतूहलम्
पतङ्गास्तपनीयाश्च ये चान्ये शालयश्शुभाः ।
स्वादुपाकरसास्स्निग्धा वृष्या बद्धालपवर्चसः ॥
कषायानुरसाः पथ्या लघवो मूत्रला हिमाः ।
शूकजेषु वरस्तत्र रक्तस्तृष्णात्रिदोषहा ॥
महांस्तस्यानुकलमस्तं चाप्यनु ततः परे ।
यवका हायनाः पांशुवाष्पनैषधकादयः ।-
स्वादूष्णा गुरवः स्निग्धाः पाकेऽम्लाः श्लेष्मपित्तलाः ॥
सृष्टमूत्रपुरीषाश्च पूर्वं पूर्वे च निन्दिताः ॥
स्निग्धो ग्राही लघुः स्वादुस्त्रिदोषघ्नः स्थिरो हिमः ।
षष्टिको व्रीहिषु श्रेष्ठो गौरश्चासितगौरतः ॥
ततः क्रमान्महाव्रीहिकृष्णव्रीहिजतूमुखाः ।
कुक्कुटाण्डकलावास्यपारावतकसूकराः ॥
वरकोड्डाकौद्दालचीनशारददुद्देराः ।
गन्धनाः कुरुविन्दाश्च गुणैरल्पान्तरास्स्मृताः ॥
स्वादुरम्लविपाकोऽन्यो व्रीहिः पित्तकरो गुरुः ।
बहुमूत्रपुरीषोष्मा त्रिदोषश्चैव पाटलः ॥ इति ।
रक्तो लोहितः । महान् महातण्डुलः कलमः , अन्तर्वेद्यां कल-
बीति प्रसिद्धः । तूर्णकश्शीघ्रपाकी , आश्वयुज इति काश्मीरे प्रसिद्धः ।
शकुनाहृतः गरुडापरनामा । उक्तं च—
द्वीपान्तरात्समानीतो गरुडेन महात्मना ।
शकुनाहृतशालिः स्यात् गरुडापरनामकः ॥ इति ।
सारासुखः कृष्णशुक्लाकारतण्डुलः । दीर्घशूकः अत्यायतशूकः ।
रोध्रशूको रक्तशूकः । सुगन्धकः गन्धशालिः । पौण्ड्रकः पाण्डुरशालिः ।
पुण्डरीकः श्वेतोत्पलकः । प्रमोदकः प्रह्लादकः , कमोद इति प्रसिद्धः ।
गौरशालिकः हरिद्रः । जाङ्गलः सीरकृष्टभूमिजः । लोहवालः अति-
कठिनतण्डुलः । कर्दमः पङ्कजः । शीतभीरुकः शीतमात्रनिष्पन्नः ।
१. Bh. रक्ततृष्णा
२. P1, P2, J1. दुर्दुराः
३. P1, P2. आश्वयुजम् इति