सामग्री पर जाएँ
सर्वकोश
भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)

भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)

Bhojanakutuhala of Raghunatha Navahasta

रघुनाथ नवहस्त (सम्पादक: सूरनाड कुंजन पिल्लै) द्वारा

DevanagariSanskritpublished358 पृष्ठ

पृष्ठ 18, कुल 358 में से

संदर्भ में पढ़ें
पृष्ठ 18

प्रथमपरिच्छेदः ।
राजनिघण्टौ—
तिरियो मधुरः स्निग्धः शीतलो दाहपित्तजित् ।१
त्रिदोषशमनो रुच्यः पथ्यः सर्वामयापहः ॥
“मासैर्जन्यस्त्रिभिस्स्यातं स भवति तिरियः” इति तलक्षणम् ।
तिरियशालिः ।
राजनिघण्टौ—
षष्टिवासरजस्सोऽयं ज्ञेयो मासद्वयोद्भवः ।
गौरो नीलषाष्टिकोऽयं द्विधा स्यादाद्यो रुच्यः शीतलो दोषहारी ।
बल्यः पथ्यो दीपनो वीर्यवृद्धिं दत्ते चास्मात् किञ्चिदूनो द्वितीयः ॥
षाष्टिका , मालवे प्रसिद्धाः ।
राजनिघण्टौ—
व्रीहिर्गौरो मधुररसकः पित्तहारी कषायः
स्निग्धो वृष्यः कृमिकफहरस्तापरक्तापहश्च ।
पुष्टिं दत्ते श्रमशमनकृद् वीर्यवृद्धिं विधत्ते
रुच्योऽत्यन्तं जनयति च मुदं वातकृन्मेचकोऽन्यः ॥
गौरशालिः, हरिद्र इति प्रसिद्धः ।
वाग्भटस्तु—
रक्तो महान् सकलमस्तूर्णकः शकुनाहृतः ।
सारामुखो दीर्घशूको रोद्धशूकः सुगन्धकः ॥
पौण्ड्रकः पुण्डरीकश्च प्रमोदो गौरशालिकः ।
लाङ्गलो लोहवालाख्यः कर्दमोऽशीतभीरुकः ॥
१. Bh. omits the word राजनिघण्टौ
२. T1. has सर्वगदापहः and also the variant reading:-
सर्वाक्षतापहः, which variant T2. also gives.
३. Bh. प्रदत्ते
४. Bh. रुच्योत्पत्तिं जनयति