सामग्री पर जाएँ
सर्वकोश
भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)

भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)

Bhojanakutuhala of Raghunatha Navahasta

रघुनाथ नवहस्त (सम्पादक: सूरनाड कुंजन पिल्लै) द्वारा

DevanagariSanskritpublished358 पृष्ठ

पृष्ठ 34, कुल 358 में से

संदर्भ में पढ़ें
पृष्ठ 34

प्रथमपरिच्छेदः ।
निघण्टौ-
यवास्तु निस्तुषा भृष्टाः स्मृता धाना इति स्त्रियाम् ।
धानास्तु दुर्जरा रूक्षास्तृट्प्रदा गुरवश्च ताः ॥
तथा मेदःकफच्छर्दिनाशिन्यस्सम्प्रकीर्तिताः ॥
इति धानाः ।
अथ सक्तवः ।
धान्यानि भ्राष्ट्रभृष्टानि यन्त्रपिष्टानि सक्तवः ।
तत्र-
यवजास्सक्तवश्शीता दीपना लघवस्सराः ।
कफपित्तहरा रूक्षा लेखनाश्च प्रकीर्तिताः ॥
ते पीता बलदा वृष्या बृंहणा भेदनास्तथा ।
तर्पणा मधुरा रुच्याः परिणामे बलावहाः ॥
कफपित्तशमक्षुत्तृड्व्रणनेत्रामयापहाः ।
प्रशस्ता घर्मदाहाध्वव्यायामार्तशरीरिणाम् ।
यवसक्तु ।
निस्तुषैश्चणकैर्भृष्टैस्तुर्यांशैश्च यवैः कृताः ।
सक्तवश्शर्करासर्पिर्युक्ताः ग्रीष्मेऽतिपूजिताः ॥
चणकयवसक्तु
सक्तवश्शालिसम्भूता वह्निदा लघवो हिमाः ।
मधुरा ग्राहिणो रुच्याः पथ्याश्च बलशुक्रदाः ॥
शालिसक्तु ।
अन्यांस्तत्तद्द्रव्यगुणान् लघून् किञ्चिद्विशेषतः ।
यावनाळादिसम्भूतान् विजानीयाद्विचक्षणः ॥
१. P1 'बलभूफदाः'