सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)

Bhojanakutuhala of Raghunatha Navahasta

रघुनाथ नवहस्त (सम्पादक: सूरनाड कुंजन पिल्लै) द्वारा

DevanagariSanskritpublished358 पृष्ठ

प्रथमपरिच्छेदः । १४३
•सरः स्वादुगुरुर्वृष्यो वातवह्निप्रणाशनः ।
सोऽम्लो बस्तिप्रथमनः पित्तश्लेष्मविवर्धनः ॥
'इति सरः ।
अथ मस्तु—
स्रोतश्शुद्धिं विधत्ते प्रकटंयति रुचिं दीपयत्याशु वह्निं
कृत्वा शुद्धिं मलानां जरयति च हठाद् भुक्तमन्नं विचित्रम् ।
उष्णं चाम्लं कषायं लघु सुरभिरसं शूलविष्टम्भहारि
श्रेष्ठं मस्तु प्रशस्तं कफपवनरुजादुष्टमूत्रग्रहेषु ॥
इति मस्तु ।
अथ तक्रम् । तस्य चातुर्विध्यमाह सुषेणः —
घोलं मथितमुदस्वित् तक्रं चैतच्चतुर्विधं कथितम् ॥ इति ॥
तल्लक्षणं तु —
ससरं निर्जलं घोलं मथितं सरवर्जितम् ।
पादोदकमुदस्वित्तत् तक्रमर्धजलं भवेत् ॥
सरवन्निर्जलं मथितं घोलं असरवन्निर्जलं मथितं तन्मथितसंज्ञ-
कमित्यर्थः । अथ तद्गुणाः —
घोलं मारुतपित्तहारि मथितं श्वासापहं श्लेष्महृत्
पित्तश्लेष्मविनाश्युदस्विदधिकं तक्रं त्रिदोषापहम् ।
मन्दाग्नावरुचौ तथैव नितरामन्येषु रोगेष्वपि
श्रेष्ठं तक्रमिदं वदन्ति मुनयस्तेनोत्तमं प्राणिनाम् ॥
यथा सुराणाममृतं प्रधानं
तथा नराणां भुवि तक्रमाहुः ।
अम्लेन वातं मधुरेण पित्तं
कफं कषायेण निहन्ति सद्यः ॥
गव्यं तु दीपनं तक्रं मेध्यमर्शस्त्रिदोषजित् ।
माहिषं श्लेष्मलं तक्रं सान्द्रं शोफकरं गुरु ॥

• १४४ • भोजनकुतूहले
हन्ति गुल्ममतीसारप्लीहार्शो ग्रहणीगदान् ।
*सुस्निग्धं छागलं तक्रं लघु दोषत्रयापहम् ॥
गुल्मार्शो ग्रहणीशोफपाण्ड्वामयविनाशनम् ।
तक्रं त्वजाविप्रभवं न सेव्यमनिष्टगन्धं त्रिषु चाप्यपथ्यम् ।
अन्यतक्राणामपेयतया ग्रन्थगौरवभयाच्च नेह गुणा निरूपिता अन्यतो
ज्ञेयाः ।
स्वादु वृष्यं रुचिकरं श्लेष्मलं पित्तनाशनम् ।
अम्लं तक्रं पवनजिन् पित्तश्लेष्मप्रकोपनम् ॥
तक्रं तल्लवणोपेतं दीपनं ग्रहणीगदे ।
तक्रं लवणहीनं यत् ग्रहण्यार्शोविकारकृत् ॥
वातेऽम्लं सैन्धवोपेतं स्वादु पित्ते सशर्करम् ।
कफे पित्ते तथा तक्रं व्योषक्षारसमान्वितम् ॥
स्थौल्यं करोति हरतेऽनिलमेतदेव
यच्चोष्णतामुपगतं तु कदाचिदेव ॥
एवकारोऽप्यर्थे ।
सहनवनीतं घोलं मथितं कथयन्ति बहुगुणं सुधियः ।
चिरमथितं मथितं पुनरुत्पत्तिकरं नरस्य दोषाणाम् ॥
नैव तक्रं क्षते दद्यान्नोष्णकाले न दुर्बले ।
न मूर्च्छाभ्रमदाहेषु न रोगे रक्तपित्तके ॥
तक्रमामं कफं हन्ति कोष्ठे कण्ठे करोति च ।
पीनसश्वासकासादौ पक्वमेव प्रयुज्यते ॥
कैलासे यदि तक्रमस्ति गिरिशः किं नीलकण्ठो भवे-
द्वैकुण्ठे यदि कृष्णतामनुभवेदद्यापि किं केशवः ।

  • १. P1, P2, T1, omit this line.

प्रथमपरिच्छेदः । १४५
इन्द्रो दुर्भगतां क्षयं द्विजपतिर्लम्बोदरत्वं गणाः
कुष्ठित्वं च कुबेरको दहनतामग्निश्च किं विन्दति । r
शशिकुन्दसमप्रभशङ्कनिभं युवतीकरनिर्मलनिर्मथितम् ।
परिपक्वकपित्थसुगन्धरसं पिब भो नृप तक्रमनन्तगुणम् ॥
आमातिसारे च विषूचिकायां वातज्वरे पाण्डुषु कामिलायाम् ।
प्रमेहगुल्मोदरवातशूले नित्यं पिबेत्तक्रमरोचके च ॥
अपि च ,
शीतकालेऽग्निमान्द्ये च कफे पाण्ड्वामयेषु च ।
मार्गोपरोधे कुष्ठादिव्याधौ तक्रं प्रशस्यते ॥
वातोदरी पिबेत्तक्रं पिप्पलीलवणान्वितम् ।
शर्करामरिचोपेतं स्वादु पित्तोदरी पिबेत् ॥
तक्रं देयं न क्षते नोष्णकाले
नो दौर्बल्ये नो तृषामूर्च्छिते च ।
नैव भ्रान्तौ नैव पित्तास्रदोषे
नो दद्यात्तत् सूतिकायां विशेषात् ॥
भोजस्तु तक्रस्य दश भेदान् गुणभेदानाह --
करमथितमथितोदश्वित्तक्रदण्डाहतगौडिकानि ।
कालसेयकखाडवकमिलितातिमिलितानि दश भवन्ति ॥ इति ।
तल्लक्षणानि तु —
सस्नेहं करमथितं निःस्नेहं मथितमजलमुभयं तत् ।
पादाम्बूदश्वित् स्यात् तक्रं त्वेषांशसलिलं स्यात् ॥
दण्डाहतं त्रिपादोदकयुक्तं गौडिकं समांशजलम् ।
गौडादस्मात् क्रमशः पादं पादं प्रवर्धितैः सलिलैः ॥
कथितानि कालसेयकखाडवकमिलितातिमिलितानि ।
१. P1; P2; T1. कथितमसलिलम् ।
२. P1; P2; T1. तु सार्धसलिलं ।

अथ क्रमेण तद्गुणाः —
करमथितं गुरु हृद्यं बल्यं वृष्यं कफानिलघ्नं च ।
मेध्यं दीपनमग्नेः पाण्डुत्वच्छित् प्रमेहकृच्छ्रहरम् ॥
हिमकुन्दशशिप्रभशङ्कनिभं परिपक्व कपित्थसुगन्धिरसम्
तदिदं भुवि सर्वरुजापहरं युवतीकरनिर्मथितं मथितम् ॥
उदश्विदभिघातघ्नं गुल्मपाण्ड्वनिलापहम् ।
ग्रहणीयक्ष्महृद्रोगप्रमेहार्शोहरं लघु ॥ ३ ॥
तक्रं लघु कषायाम्लं दीपनं कफवातजित् ।
शोफोदराशग्रहणीदोषमूत्रग्रहारुचीः ॥
किलासकुष्ठहृद्रोगशोफोरुस्तम्भकामिळाः ।
हन्यादिति शेषः ॥ ४ ॥
दण्डाहतं प्रमेहघ्नं रुच्यं दीपनपाचनम् ॥
गौडिकं वृष्यमोजस्यं विषघ्नं दीपनं परम् ।
आमदोषहरं मेहग्रहोदरकफापहम् ॥
कालसेयं प्रतिश्यायगरशोषमदापहम् ।
ग्रहण्यार्शोविकारघ्नं दीपनीयं रुचिप्रदम् ।
खाडवं कफगुल्मार्शोहरं च व्रणहृच्छु ॥
मिलितं रुचिकृद् ग्राहि पक्वातीसारनाशनम् ।
चक्षुष्यं शोषदुर्नामकूष्ठनाडीव्रणापहम् ॥
सर्वदोषहरं पथ्यं मिलितं त्वतिपूर्वकम् ।
भगन्दरोदरग्रन्थिगुल्मार्शोमुखरोगजित् ॥
सुषेणः —
तक्रस्योपरि यत्तोयमुदश्विदिति कीर्तितम् ।
दध्नस्तूपरि यत्तोयं तन्मस्तु परिकीर्तितम् ॥ इति ।

प्रथमपरिच्छेदः । १४७
अथ किलाटादीनां लक्षणानि गुणाश्चोच्यन्ते -
बल्याः किलाटपीयूषकूर्चिकामोर(णा ? टा)दयः ॥
शुक्रनिद्राकफकरा विष्टम्भिगुरुदोषलाः ।
पीयूषो नवदुग्धं स्यात् सप्ताहान्मोर(णं ? टं)मक्लिनम् ॥
दधिकूर्चिका च दध्ना पक्वं (?)तक्रण तक्रकूर्चिका
पिण्डस्तयोः किलाटो दधिमण्डो मस्त्वजातदधि मण्डम् ॥
दध्युत्तरो दधिसरो दध्यग्रः खट्वरो दधिस्नेहः । इति ।
अत्र आदिशब्दात् तक्रपिण्डकसङ्ग्रहः । घनवस्त्रनिबन्धनेन स्वयं स्रुतो
द्रवभागः तक्रपिण्डकः । दोषलाः आमसञ्चयकारिणः । न तु
वातादीनां, कफस्य पृथगभिधानात् । तन्त्रान्तरे वातघ्नत्वाभिधानाच्च ॥
इति तक्रप्रकरणम् ।
शीतं वर्णबलावहं सुमधुरं वृष्यं च पित्तापहं
वातघ्नं कफकारकं रुचिकरं सर्वाङ्गशूलापहम् ।
कासघ्नं श्रमनाशनं स्वरकरं कान्तिप्रदं पुष्टिदं
चक्षुष्यं नवनीतमुद्धृतनवं गोस्सर्वदोषापहम् ॥
उद्धृतनवं नवोद्धृतमित्यर्थः ।
क्षीरोद्भवं तु संग्राहि रक्तपित्ताक्षिरोगनुत् ॥
इति गव्यस्य ।
माहिषं नवनीतं तु कषायमधुरं रसे ।
शीतं वृष्यं च बल्यं च ग्राहि पित्तघ्नमुत्तमम् ॥
इति माहिषस्य ।

१४८ भोजनकुतूहले
लघ्वजाजं तु मधुरं कषायं च त्रिदोषनुत् ।
चक्षुष्यं दीपनं बल्यं नवनीतं हितं सदा ॥
कूहीचें ।
नवनीतं नवोद्भूतं छागजं क्षयकासजित् ।
बल्यं नेत्रामयघ्नं च कफघ्नं दीपनं परम् ॥
सेलीचें ।
आविकं नवनीतं तु रसे पाके हितं लघु ।
योनिशूले कफे वाते दुर्नामसु हितं सदा ॥
एडकीचें ।
भेडकं नवनीतं तु द्विषद्गन्धं सुशीतलम् ।
मेधाहृद् गुरु पुष्ट्यं च स्थौल्यं मेध्यं च दीपनम् ॥
मेढीचें ।
हस्तिनीनवनीतं तु कषायं शीतलं लघु ।
तिक्तं विष्टम्भि जन्तुघ्नं हन्ति पित्तकफक्रिमीन् ॥
हस्तिणीचें ।
अश्वायास्तु नवनीतं स्यात् कषायं कफवातजित् ।
चक्षुष्यं कटुकं चोष्णमीषद्वातापहारकम् ॥
घोडीचें ।
गर्दभीनवनीतं तु कषायं कफवातनुत् ।
बल्यं दीपनदं पाके लघूष्णं मूत्रदोषनुत् ॥
गर्दभीचें ।
नवनीतं तु नारीणां रुच्यं पाके लघु स्मृतम् ।
चक्षुष्यं सर्वदोषघ्नं दीपनं विषनाशनम् ॥
नारीचें
गव्यं वा माहिषं वापि नवनीतं नवोद्धृतम् ।
शस्यते बालवृद्धानां बलकृद् धातुवर्धनम् ॥
नवनीतं तु सद्यस्कं स्वादु ग्राहि हिमं लघु ।
मेध्यं किञ्चित् कषायाम्लमीषत्तक्रांशसंक्रमात् ॥

प्रथमपरिच्छेदः । १४९
सक्षारं कटुकाम्लत्वात् छर्द्यर्शःकुष्ठकारकम् ।
श्लेष्मलं गुरु मेदस्यं नवनीतं चिरन्तनम् ॥
एकाहाप्युषितं प्रोक्तमुत्तरोत्तरमाविलम् ।
अहृद्यं सर्वरोगाढ्यं दधिजं तद्; घृतं तथा ॥
दधिजं नवनीतम् ।
इति नवनीतप्रकरणम् ।
अथ घृतम् ।
धीकान्तिस्मृतिदायकं बलकरं मेधाप्रदं पुष्टिकृद्
वातश्लेष्महरं श्रमोपशमनं पित्तापहं शुद्धिकृत ।
वह्नेर्वृद्धिकरं विपाकमधुरं वृष्यं वपुःस्थैर्यदं
गव्यं हव्यतमं घृतं बहुगुणं सद्यः समावर्तितम् ॥ गव्यस्य ।
सर्पिर्माहिषमुत्तमं धृतिकरं सौख्यप्रदं कान्तिकृद्
वातश्लेष्मनिबर्हणं बलहरं वर्णप्रदानक्षमम् ।
दुर्नामग्रहणीविकारशमनं मन्दानलोद्दीपनं
चक्षुष्यं नवगव्यतः परमिदं हृद्यं मनोहारि च ॥
माहिषस्यैते गुणाः ।
आजमाज्यं च चक्षुष्यं दीपनं बलवर्धनम् ।
कासश्वासकफातङ्कराजयक्ष्मसु शस्यते ॥
ततः किञ्चिन्न्यूनगुणं लध्वजाज्यमुदीरितम् ॥ शेळीचें ।
पाके लघ्वाविकं सर्पिर्न च पित्तप्रकोपनम् ।
योनिदोषे कफे वाते शोफे कम्पे च तद्धितम् ॥ एडकीचें ।
भेदकं घृतमतीव गौरवाद्ध्वर्यमेव सुकुमारदेहिनाम् ॥
बुद्धिपाटवकरं बलावहं द्विष्टगन्धि कुरुते नृणां वपुः ॥ मेढीचें । •
१. J1. omits this line
२. J1. दुष्टगन्धि ।

भोजनकुतूहले
नेहन्तिं हस्तिनीसर्पिः कफपित्तविषक्रिमीन् ।
कषायं लघु विष्टम्भि तिक्तं चामिकरं परम् ॥
स्तिनीचें ।
अश्वीसर्पिस्तु कटुकं मधुरं च कषायकम् ।
ईषच्च दीपनं मूर्च्छाहारि वाताल्पदं गुरु ॥
घोडीचें ।
घृतं गार्दभिकं बल्यं दीपनं मूत्रदोषनुत् ।
पाके लघूष्णं वीर्ये च कषायं कफनाशनम् ॥
खरीचें ।
औष्ट्रीघृतं वीर्यकटु· श्लेष्मक्रिमिविषापहम् ।
दीपनं कफवातघ्नं कुष्ठगुल्मोदरापहम् ॥
उष्ट्रीचें ।
चक्षुष्यमग्निदं स्त्रीणां सर्पिः स्यादमृतोपमम्
वृद्धि करोति देहाग्नेर्लघु पाके विषापहम् ॥
स्त्रीघृतगुणाः ।
आयुर्वृद्धिं वपुरपि दृढं सौकुमार्यं करोति
व्यायामस्त्रीनिधुवनकृतश्रान्तिविच्छेदनं च ।
पथ्यं बाल्ये वयसि तरुणे वार्धके चापि पथ्यं
नान्यत् किञ्चिद् भवति पुरुषे सर्पिषः स्थौल्यकारि ॥
यद्वेदागमवेदिभिर्निगदितं साक्षादिहायुर्नृणां
यद्वैद्यैस्तु रसायनाय कथितं सद्यो जरानाशनम् ।
यत्सारस्वतकं च कान्तिमतिमत् प्रोक्तं धियः सिद्धये
तत्पूर्वार्जितपुण्यसञ्चायवता लभ्यं घृतं नूतनम् ॥
वर्षादूर्ध्वं भवेदाज्यं पुराणं तत् त्रिदोषनुत् ।
पुराणं तिमिरश्वासपीनसज्वरकासनुत् ॥
मूर्च्छाकुष्ठविषोन्मादग्रहापस्मारनाशनम् ।
उग्रगन्धि पुराणं स्याद् दशवर्षस्थितं घृतम् ॥
लाक्षारसानिभं शीतं तद्धि सर्वग्रहापहम् ।

प्रथमपरिच्छेदः । १५१
निरामयानां नवयौवनानां कृत्वा गत्रां यच्छत धौतमद्भिः ।
दाहापहं पित्तविनाशनं च सहस्रवीर्यं तु सहस्रधौतम् ॥
गव्ये क्षीरघृते शस्ते निन्दिते चाविसंभवे ।
अथ दुग्धोद्धृतघृतगुणाः —
घृतं दुग्ध[ोत्थं] ग्राहि शीतलं नेत्ररोगनुत् ॥
निहन्ति पित्तदाहास्रमदमूर्च्छाभ्रमानिलान् ॥
अथ ह्यस्तनदधिजघृतगुणाः—
हविर्ह्यस्तनदुग्धीयं तत्स्याद्धैयङ्गवीनकम् ।
हैयङ्गवीनं चक्षुष्यं दीपनं रुचिकृत्परम् ॥
बलकृद् बृंहणं वृष्य विशेषात् कफनाशनम् ।
योजयेन्नवमेवाज्यं भोजने तर्पणे श्रमे ॥
बलक्षये पाण्डुरोगे कामलानेत्ररोगयोः ।
राजयक्ष्मणि बाले च वृद्धे श्लेष्मकृते गदे ॥
रोगे सामे विषूच्यां च विबन्धे च मदात्यये ।
ज्वरे च दहने मन्दे न सर्पिर्बहुमन्यते ॥
इति घृतप्रकरणम् ॥
अथ तैलप्रकरणम्
तद्गुणानाह वाग्भटः —
तैलं स्वयोनिवत्तत्र मुख्यं तीक्ष्णं व्यवायि च ।
त्वग्दोषकृदचक्षुष्यं सूक्ष्मोष्णं कफकृन्न च ॥
कृशानां बृंहणायालं स्थूलानां कर्शनाय च ।
बहुविट्कं कृमिघ्नं च संस्कारात् सर्वदोषजित् ॥
अन्यत्रापि —
तिलतैलमलङ्करोति केशान् मधुरं तिक्तकषायमुष्णतीक्ष्णम् ।
बलकृत् कफवातजन्तुखर्जुव्रणकण्डूतिहरं च कान्तिदायि ॥
इति तिलतैलगुणाः
१. J1. अथ दुग्धोत्थ ।
२. J1. Bh. बद्धविट्कं ।
३. T3. adds. गुरुत्वं तिलभवं त्वग्दोषं कुरुतेतीति त्वग्दोषकृत् ।

१५३ भोज
कुसुम्भतैलं कमिहारि तेजोबलावहं यक्ष्ममलापहं च ।
त्रिदोषकृत् पुंस्त्वबलक्षयं च करोति कण्डूं च करोति दृष्टेः ॥
इति कौसुम्भतैलगुणाः ॥
मधुरं त्वतसीतैलं पिच्छलं चानिलापहम् ।
मदगन्धि कषायं च कफकासापहारकम् ॥
येसेलगुणाः ।
एरण्डतैलं कृमिदोषनाशनं वातामयघ्नं सकलाङ्गशूलनुत् ।
कुष्ठापहं स्वादु रसायनोत्तमं पित्तप्रकोपं कुरुतेऽतिदीपनम् ॥
पिच्छलं कटु तिक्तोष्णं रक्तैरण्डोद्भवं त्वति ॥
ऐरण्डतैलगुणाः ।
करञ्जतैलं नयनार्तिहारि वातामयध्वंसनमुष्णतीक्ष्णम् ।
कुष्ठार्तिकण्डूतिविचर्चिकापहं लेपेन नानाविधचर्मदोषनुत् ॥
कैरंजतैल ।
सार्षपं कटु तिक्तोष्णं कफवातविकारनुत् ।
क्रिमिकुष्ठहरं रक्तपित्तदोषकरं परम् ॥
सिरसेल ।
तीक्ष्णोष्णं तुवरीतैलं लघु ग्राहि कफास्रजित् ।
१. J1. शेयेळ ।
२. J2. has रक्तेरंडेल । Bh has the additional verses :—
आमवातगजेन्द्राणां शारीरवनचारिणाम् ।
एक एवाप्रणीर्हन्ता एरण्डस्नेहकेसरी ॥
अधोभागिकमेरण्डमन्येषां तिलवत् स्मृतम् ।
सर्वधान्यसमावार्तिविल्लीफलकानि च ॥
तिलवंगैङ्गुतो लेपः स्रजुकण्डूविनाशनः ।
before एरण्डतैलगुणाः ।
३. J1. नयनार्तिनाशनं
४. J1. करंजेल ।

प्रथमपरिच्छेदः । १५३
वह्निकृद्विषहृत् कण्ठकुष्ठकोष्ठक्रिमिप्रणुत् ।
मेदोदाहापहं चापि व्रणशोथहरं परम् ॥
यावनालव्रीहियवगोधूमादिसमुद्भवम् ।
त्रिदोषघ्नं कण्डुकुष्ठहारि चक्षुष्यमुत्तमम् ।
इति धान्यतैलगुणाः ।
तथैव चेङ्गुदीतैलं मधुरं पित्तनाशनम् ।
शीतलं कान्तिदं बल्यं श्लेष्मलं केशवर्धनम् ॥
हिंगणेल
निम्बतैलं तु नात्युष्णं क्रिमिकुष्ठकफापहम् ।
निम्बतैल
१आक्षं स्वादु हिमं केश्यं गुरु पित्तानिलार्तिनुत् ॥
व्याहडेल ।
शिग्रुतैलं कटूष्णं च वातजित् कफनाशनम् ।
त्वग्दोषव्रणकण्डूतिशोफहारि च पिच्छलम् ॥
२शेवंगेल ।
कटु ज्योतिष्मतीतैलं तिक्तोष्णं वातनाशनम् ।
पित्तसन्तापनं मेधाप्रज्ञाबुद्धिविवर्धनम् ॥
ज्योतिष्मतीतैलम् ।
शीतं हारीतकीतैलं कषायमधुरं कटु ।
सर्वव्याधिहरं पथ्यं नानात्वग्दोषनाशनम् ॥
हिरडेल ।
तीक्ष्णं तु राजिकातैलं ज्ञेयं वातादिदोषकृत् ।
शिशिरं कटु कण्डूघ्नं केश्यं त्वग्दोषनाशनम् ॥
मोहरेल ।
१. J₁. अक्षं ।
२. J₁. सेयगेल । Bh. शेगवेल ।

सरं कौशाम्रजं तैलं क्रिमिकुष्ठव्रणापहम् ।
तिक्ताम्लमधुरं बल्यं पथ्यं रोचनपाचनम् ॥
आंबाडेल ।
कर्पूरतैलं रददार्थ्यकारि वातामयघ्नं कटु पित्तकारि ।
कापुरेल ।
त्रपुसोर्वारुकचारुकूष्माण्डप्रभृतबीजतैलं यत् ।
तन्मधुरं गुरु शिशिरं केश्यं कफपित्तनाशि कान्तिकरम् ॥
बीजतैल ।
बिल्वमज्जाभवं तैलंमुग्धवातहरं परम् ।
बेलेल ।
नारिकेरोद्भवं तैलं बृंहणं बलवर्धनम् ।
केश्यं पित्तानिलहरं मधुरं रसपाकयोः ॥
खोबरेल ।
तैलं सर्जरसोद्भूतं विस्फोटव्रणनाशनम् ।
कुष्ठपामाक्रिमिहरं वातश्लेष्मामयापहम् ॥
राळतैलम् ।
तैलं तु खसबीजानां बल्यं वृष्यं गुरु स्मृतम् ।
वातहृत् कफहृच्छीतं स्वादु पाकरसं च तत् ॥
खसखसेल ।
सहकारभवं तैलं कषायं स्वादु तिक्तकम् ।
मुखरोगहरं रूक्षं सुगन्धि श्लेष्मवातजित् ॥
आम्रतैलम् ।
प्रियालतैलं मधुरं गुरु श्लेष्मविवर्धनम् ।
हितमिच्छन्ति नात्यौष्ण्यात् संयोगे वातपित्तयोः ॥
चारेल ।

  1. J1. चंडेल Bb. बेळतैल.

प्रथमपरिच्छेदः । १५५
कषायं स्वादु कापित्थं तैलमाखुविषापहम्
कषायं स्वादु माधूकं तैलं पित्तकफप्रणुत् ।
.तिलतैलं वरं तेषु कौसुम्भं त्ववरं परम् ।
तैलप्रयोगादजरा निर्विकारा जितक्लमाः ।
आसन्नतिबला युद्धे दैत्याधिपतयः पुरा ॥
राजनिघण्टौ—
तैलं न सेवयेद् धीमान् यस्य कस्य च यद् भवेत् ।
विषसाम्यगुणत्वाच्च योगयोग्यं न वर्जयेत् ॥
उक्तं च ।
विषस्य तैलस्य न किञ्चिदन्तरं मृतस्य सुप्तस्य तथा न किञ्चित् ।
ऋणस्य दासस्य न किञ्चिदन्तरं मूर्खस्य काष्ठस्य च नैव किञ्चित् ॥
इति तैलप्रकरणम् ॥
अथेक्षुप्रकरणम् ।
निघण्टौ—
सितेक्षुः कठिनो रुच्यो गुरुश्च कफमूत्रकृत् ।
दीपनः कफदाहघ्नो विपाके कोष्णदः स्मृतः ॥
काट्याऊंस ।
१. J₁. omits राजनिघण्टौ... ... ...नैव किञ्चित् ।
२. J₁. तैलगुणाः ।
३. J₁. अथ इक्षुगुणाः। Bh. इक्षुवर्गाः omits the portion सितेक्षुः
to... ...रसदालीति नामान्तरम् on page ... ...and simply reads to
जात्यादिगुणभेदः सुषेणे द्रष्टव्यः ।

१५४ भोजनकुतूहले
षेणः—
स्निग्धश्च सन्तर्पणबृंहणश्च संजीवनः स्वादुरसभ्रमघ्नः ।
वृष्यश्च पित्तास्रसमीरहारी ह्यन्तर्विदाही कफकृत्सितेक्षुः ॥
तद्वच्च कृष्णोऽपि भवेद् गुणैश्च दाहापहस्तर्पणकृच्च वृष्यः ।
क्षारश्च किञ्चिन्मधुरो रमेन शोषापहर्ता व्रणशोफकर्ता ॥
• तद्वत् काष्ठेक्षुवत् ।
निघण्टौ तु—
कृष्णस्तु रूक्षो मधुरश्च पाके स्वादुः सुहृद्यः कटुको रसाढ्यः
त्रिदोषहारी समवीर्यदश्च स वीर्यदायी बहुवीर्यदायी² ॥
काळांऊस ।
पुण्ड्रोऽतिमधुरः शीतः कफकृत् पित्तनाशनः ।
दाहश्रमहरो वृष्यो रसे सन्तर्पणः परः ॥
पुंड्राऊस ।
सुषेणस्तु —
पुण्ड्रकस्तु रसालः स्यात् रसेक्षुस्सुकुमारकः ।
कर्बुरो मिश्रवर्णश्च नेपाळश्चेति सप्तधा ॥
इति वाग्भटः । तत्र पौण्ड्रकः —
शैत्यप्रसादमाधुर्यैः वरस्तमनु वांशिकः ।
शातपर्वकनेपाळकान्ताराद्यास्ततः क्रमात् ॥
सक्षाराः सकषायाश्च सोष्णाः किञ्चिद्विदाहिनः ।
इति ।
लोहितेक्षुश्च मधुरः पाके स्यात् पिच्छलो मृदुः ।
पित्तदाहहरो वृष्यस्तेजोबलविवर्धनः ॥
तांबडाऊस ।
१. J₁. adds सक्षारास्सकषायाश्च सोष्णाः किञ्चिद्विदाहिनः ।
२. P₁. P₂. T₂. समवीर्यदश्च वीर्यसाम्यकर्ता स्वस्थानां वीर्यदायी क्षीणानां
बहुवीर्यदायी समवीर्याणां वीर्यवृद्धिकर्ता ।
३. T₁. T₂. P₂. Bh. मधुः ।

प्रथमपरिच्छेदः ।
करङ्गालिर्मधुरः शीतलो रुचिकृन्मृदुः
पित्तदाहहरो वृष्यस्तेजोबलविवर्धनः ॥
रसालः । रसादालीति नामान्तरम् ।
मूलादूर्ध्वं तु मधुरा मध्येऽतिमधुरास्तथा ।
इक्षवस्तेऽग्रभागे तु तथा लवणनीरसाः ॥
अभुक्ते पित्तहन्तारो भुक्ते पित्तप्रकोपनाः ।
भुक्तिमध्ये गुरुतमा इतीक्षूणां गुणास्त्रयः ॥
अथ दन्तनिष्पीडितेक्षुगुणाः ।
वृष्यो रक्तास्रपित्तश्रमशमनपटुः शीतलः श्लेष्मदोऽल्प-
स्निग्धो हृद्यश्च रुच्यो रचयति च मुदं मूत्रशुद्धिं विधत्ते ।
कान्तिं देहस्य दत्ते बलमतिकुरुते बृंहणस्तृप्तिदायी
दन्तैर्निष्पीड्य काण्डे मृदुरतिरसतो मोहनश्चेक्षुदण्डः ॥
तथा —
पीयूपोपमितं त्रिदोषशमनं स्याद्दन्तनिष्पीडितं
तद्वद्द्वेवृहयन्त्रजं तदपरं विष्टम्भि गुर्वस्रिकृत् ।
किञ्चित्कालधृतं च वातजननं जाड्यप्रतिश्यायदं
प्रोक्तं पर्युषितं कफानिलकरं पानीयभिक्षूद्भवम् ॥
तदपरं महायन्त्रजम् । अस्रिकृत् विदाहि । उक्तं च —
गुरुर्विदाही विष्टम्भी यान्त्रिकः परिकीर्तितः ।
इति । वाग्भटः —
जन्तुजग्धातिपीडनान्मलसङ्करात् ।
किञ्चित्कालं विधृत्या च विकृतिं याति यान्त्रिकः ।
गुरुर्विदाही विष्टम्भी तेनासौ परिकीर्तितः ॥
इति ।
१ Bh omits तदपरं …… परिकीर्तित इति ।

१५८ भोजनकुतूहले
अथ तापितरसगुणाः ।
इक्षुरसः परितप्तः स्निग्धः स्यात्कफविनाशनोऽतिगुरुः ।
अतिपाकेन विदाहं तनुते पित्तास्रदोषदाहांश्च ॥
ताबिला रस ।
इक्षोरग्रभवं काण्डं प्रतप्तं दृढवह्निना ।
रसस्तदुद्भवः कुर्यादतिसारं बलक्षयम् ॥
तप्तकाण्डगुणाः ।
मधुरो लवणः क्षारः स्निग्धोष्णश्च रुचिप्रदः ।
वृष्यो वातकफघ्नश्च यावनालेक्षुजो रसः ॥
जोंधळ्याच्या उंसा चा रस ।
मध्यपर्वदलनाच्च तत्क्षणात्पीयते यदि च यान्त्रिको रसः
वातपित्तशमनस्तदा भवेत्तर्पणश्च मलमूत्रशोधनः ॥
मध्यकाण्ड्यां चा रस ।
इतीक्षुप्रकरणम् ॥
१. T2. has a large addition in this context:— अथैक्षुरस-
विकाराः । ते पञ्च । तत्र वाग्भटः —
इक्षो रसस्य समलत्र्यंशाधार्ङ्घ्रिमलामलाः ।
विकाराः फाणितगुडमत्स्यण्डीखण्डशर्कराः ॥
समलं फाणितं राब इति लोके ॥ १ ॥
त्र्यंशमलः पादोनमलः गुडः ॥ २ ॥
अर्धमला मत्स्यण्डी रायपुरी ॥ ३ ॥
पादमलः खण्डः खडेसाखर ॥ ४ ॥
अमला शर्करा । सिता सितोपलेत्यादयस्तत्पर्यायाः । चीनी खडे साकर ॥ ५ ॥
तत्र फणितगुडानाह —
फाणितं गुर्वभिष्यन्दि चयकृन्मूत्रशोधनम् ।
अवृष्यं बृंहणं क्षारं वीर्योष्णं सर्वदोषकृत् ॥
चयकृदविशेषेणाह दोषत्रयस्य । सर्वदोषकृत् त्रिदोषप्रकोपकृत् ।

६: । १५५
गुडः समधुरः क्षारो गुरुरुष्णः कफवातनुत्।
अहितः पित्तरक्ते च जीर्णश्चैव रसायनः ॥
अपि च —
पित्तघ्नः पवनार्तिजिद्रुचिकरॊ हृद्यस्त्रिदोषपहः
संयोगेन विशेषतो ज्वरहरः सन्तापशान्तिप्रदः ।
विण्मूत्रामयशोधनोऽग्निजननः पाण्डुप्रमेहान्तकः
स्निग्धः स्वादुतरो लघुः श्रमहरः पथ्यः पुराणो गुडः ॥
इति नवपुराणगुडाः ॥
अन्यत्र —
अभिष्यन्त्यतिमाधुर्यं फाणितं बृंहणं गुरु ।
शुक्रकृत् कफहृच्चैव पिच्छलं न विशेषतः ॥
ऐक्षो मधुकपुष्पोत्थः फाणितो वातपित्तकृत् ।
कफघ्नो मधुरः पाके विपाके वस्तिदूषणः ॥
इति फाणितम् ।
अथ गुडः । स चतुर्धा धौताधौतपुराणनवभेदेन । तत्र वाग्भटः धौतगुडगुणानाह —
नातिश्लेष्मकरो धौतः सृष्टमूत्रशकृद् गुडः ।
सृष्टमूत्रशकृत् मलानुलोमनः । अधौतगुडः —
प्रभूतकृमिमज्जासृङ्मेदोमांसकफप्रदः ।
पुराणगुडगुणः —
हृद्यः पुराणः पथ्यश्चेति । पथ्यः खस्य हितः ।
नवगुडगुणः —
नवः श्लेष्माग्निसादकृत् । अग्निसादोऽग्निमान्द्यम् । अन्यत्र गुडस्य भेदाः
गुणाश्चोच्यन्ते ।
१. T₂. adds after this on this subject :---
केयदेवः —
संवत्सरोषितगुडः पुराण इति कथ्यते ।
वर्षत्रयोषितः सोऽपि प्रपुराणः प्रकीर्तितः ॥
प्रपुराणो वरस्तस्मात् सर्वदोषहरो लघुः ॥
तस्मात्पुराणात् ।
अरिष्टाद्येषु सर्वेषु प्रपुराणं प्रयोजयेत् ।
चतुर्वर्षपरस्तस्मात् निर्वीर्यो निष्फलो गुडः ॥
कासश्वासादिकान् सर्वान् जनयेत् स विशेषतः ।
इति नवपुराणगुडाः ॥

स्याद्यावनालरसपाकभवो गुडोऽयं
क्षारः कषायमधुरः कफवातहारी ।
पित्तप्रदः सततमेष निषेव्यमाणः
कण्ठर्तिकृज्जननोऽस्रविदाहदायी ॥
जोंधळ्याचा गुड ।
अथ शर्करा —
२. शुद्धस्फटिकसङ्काशा निर्मला सितशर्करा ।
शर्करा ज्वरपित्तासृङ्मूर्च्छाच्छर्दिविषापहा ॥
श्वासङ्गमर्दहृल्लासवैत्यशूलहरामिकैत् ।
तत्र — ४
स्निग्धा पुण्ड्रकशर्करा हितकरी क्षीणे क्षयेऽरोचके
चक्षुष्या बलवृंहणी सुमधुरा रूक्षा च वंशोद्भवा ५।
वृष्या तृप्तिबलप्रदा भ्रमहरा श्यामेक्षुजा शीतला
स्निग्धा शान्तिकरी रसाळजनिता रक्तेक्षुजा पित्तजित् ॥
६पंचेक्षुशर्करा ।

T1. The revisor adds this section in the margin trans-
[

प्रथमपरिच्छेदः । १५१
[१]दिलक्षणमाह • केयदेवः —
इक्षो रसस्य संमलं त्र्यंशार्धाङ्घ्रिमलामल।
विकाराः फाणितगुडमच्छण्डीखण्डशर्कराः ॥
इति । २गुणाश्च —
मच्छण्डी ग्राहिणी बल्या कषाया वातजिद् गुरुः
खण्डं गुरु सरं रुच्यं वातघ्नं बलपुष्टिदम् ॥
सितोपला सरा गुर्वी वातघ्नी न कफप्रदा ॥
इति ।
३वृष्या क्षतक्षीणहिता रक्तपित्तानिलापहाः ।
मच्छण्डिकाखण्डसिताः क्रमेण गुणवत्तरोः ॥
१. J1. omits मत्स्यण्डिकादि .................... न कफप्रदा ॥
इति । T1. has this portion after the first line of the verse
below : वृष्या क्षतक्षीणहिता etc. This transposition has been
effected for the sake of the continuity of the verse as it occurs
in the Aṣṭāṅgahṛdaya from which it forms a quotation.
T2. omits this introduction and the quotation following.
२. T2. अन्यत्र च मत्स्यण्ड्यादीनां पृथग्गुणाः ।
३. T2. introduces this verse with: अथ मत्स्यण्डिकादीनां त्रयाणां
गुणमाह वाग्भटः —. P1. P2. omit this line.
४. J1. The revisor adds in the margin, the following
धन्वन्तरिः —
शर्करोक्ता तु मीनाण्डा श्वेता मत्स्यण्डिका मता ।
५. T2. adds the explanation: क्षतक्षीणयोर्हिताः क्रमेणेति ।
क्रमेणेति मत्स्यण्डिकायाः खण्डो गुणवान्, खण्डात् सिता ।
उक्तं च सुश्रुतेन —
यथा यथैषां वैमल्यं मधुरत्वं तथा तथा ।
स्नेहगौरवशैत्यानि सरत्वं च तथा तथा ॥ इति ।

१५५ भोजनकुतूहल
तद्गुणा तिक्तमधुरा कषाया यासशर्करा ।
त्रिदोषघ्नी पित्तकासेक्षुधर्मच्छदसम्भवा ॥
तत्तुल्या मधुशर्करा । तत्तुल्या मधुसमानगुणेत्यर्थः ।
अभिष्यन्द्यतिधुरं फाणितं बृंहणं गुरु ।
शुक्रकृत् कफकृच्चैव पित्तघ्नं च विशेषतः ॥
फाणितं गुर्वभिष्यन्दि चयकृन्मूत्रशोधनम् ।
अवृष्यं बृंहणं क्षारं वीर्योष्णं सर्वदोषकृत् ॥
इति कैयदेवः ।
शर्करा तु सितोपला ।
सिता च मधुधूलिस्तु खण्डस्तद्विकृतिः पुनः ॥
'मच्छण्डिका फाणितं चापि' इति हैमनः ।
रूक्षो मधूकपुष्पोत्थः फाणितो वातपित्तकृत् ।
कफघ्नो मधुरः पाके विपाके वस्तिदूषणः ॥
शर्करेक्षुविकाराणां फाणितं च वरावरे ।
हिमजा शर्करा गौल्या सोऽल्पा तिक्ता त्वपिच्छिला
... introduces this verse with: — यासशर्करागुणानाह
वाग्भटः and has the following explanation at the close of the
line: — तद्गुणा मत्स्याण्डकादिसामान्यसदृशगुणाः । यासशर्करा दुरालभारसेने-
क्षुरसेन वा क्रियते ।
२ T₂. omits this line.
३. T₂. सिता कासेषु । T₁. सितकासेषु ।
४. T₂. has on मधुशर्कराः — मधुशर्करागुणमाह —
यद्गुणं यन्मधु प्रोक्तं तद्गुणा तस्य शर्करा ।
विशेषात्तर्पणी बल्या पुष्ट्या च क्षीणदेहिनाम् ॥
वह्निपाकात् कालपाकाद्वा शर्करा रूपतां गतं मधु मधुशर्करा । तद्गुणा मधुसदृशगुणा ।
The Ms. continues:— सामान्यशर्करागुणमाह वाग्भटः —
दाहतृट्छर्दिमूर्च्छास्रपित्तघ्न्यः सर्वशर्कराः ।
सर्वा उक्ताः मत्स्याण्डिकाद्याः मधुशर्करा च । मत्स्याण्डिकादौ रक्तपित्तहरत्वग्रहण-
मतिशयार्थम् ।