भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)
Bhojanakutuhala of Raghunatha Navahasta
रघुनाथ नवहस्त (सम्पादक: सूरनाड कुंजन पिल्लै) द्वारा
पृष्ठ 157, कुल 358 में से
संदर्भ में पढ़ेंअथ क्रमेण तद्गुणाः —
करमथितं गुरु हृद्यं बल्यं वृष्यं कफानिलघ्नं च ।
मेध्यं दीपनमग्नेः पाण्डुत्वच्छित् प्रमेहकृच्छ्रहरम् ॥
हिमकुन्दशशिप्रभशङ्कनिभं परिपक्व कपित्थसुगन्धिरसम्
तदिदं भुवि सर्वरुजापहरं युवतीकरनिर्मथितं मथितम् ॥
उदश्विदभिघातघ्नं गुल्मपाण्ड्वनिलापहम् ।
ग्रहणीयक्ष्महृद्रोगप्रमेहार्शोहरं लघु ॥ ३ ॥
तक्रं लघु कषायाम्लं दीपनं कफवातजित् ।
शोफोदराशग्रहणीदोषमूत्रग्रहारुचीः ॥
किलासकुष्ठहृद्रोगशोफोरुस्तम्भकामिळाः ।
हन्यादिति शेषः ॥ ४ ॥
दण्डाहतं प्रमेहघ्नं रुच्यं दीपनपाचनम् ॥
गौडिकं वृष्यमोजस्यं विषघ्नं दीपनं परम् ।
आमदोषहरं मेहग्रहोदरकफापहम् ॥
कालसेयं प्रतिश्यायगरशोषमदापहम् ।
ग्रहण्यार्शोविकारघ्नं दीपनीयं रुचिप्रदम् ।
खाडवं कफगुल्मार्शोहरं च व्रणहृच्छु ॥
मिलितं रुचिकृद् ग्राहि पक्वातीसारनाशनम् ।
चक्षुष्यं शोषदुर्नामकूष्ठनाडीव्रणापहम् ॥
सर्वदोषहरं पथ्यं मिलितं त्वतिपूर्वकम् ।
भगन्दरोदरग्रन्थिगुल्मार्शोमुखरोगजित् ॥
सुषेणः —
तक्रस्योपरि यत्तोयमुदश्विदिति कीर्तितम् ।
दध्नस्तूपरि यत्तोयं तन्मस्तु परिकीर्तितम् ॥ इति ।