सामग्री पर जाएँ
सर्वकोश
भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)

भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)

Bhojanakutuhala of Raghunatha Navahasta

रघुनाथ नवहस्त (सम्पादक: सूरनाड कुंजन पिल्लै) द्वारा

DevanagariSanskritpublished358 पृष्ठ

पृष्ठ 159, कुल 358 में से

संदर्भ में पढ़ें
पृष्ठ 159

१४८ भोजनकुतूहले
लघ्वजाजं तु मधुरं कषायं च त्रिदोषनुत् ।
चक्षुष्यं दीपनं बल्यं नवनीतं हितं सदा ॥
कूहीचें ।
नवनीतं नवोद्भूतं छागजं क्षयकासजित् ।
बल्यं नेत्रामयघ्नं च कफघ्नं दीपनं परम् ॥
सेलीचें ।
आविकं नवनीतं तु रसे पाके हितं लघु ।
योनिशूले कफे वाते दुर्नामसु हितं सदा ॥
एडकीचें ।
भेडकं नवनीतं तु द्विषद्गन्धं सुशीतलम् ।
मेधाहृद् गुरु पुष्ट्यं च स्थौल्यं मेध्यं च दीपनम् ॥
मेढीचें ।
हस्तिनीनवनीतं तु कषायं शीतलं लघु ।
तिक्तं विष्टम्भि जन्तुघ्नं हन्ति पित्तकफक्रिमीन् ॥
हस्तिणीचें ।
अश्वायास्तु नवनीतं स्यात् कषायं कफवातजित् ।
चक्षुष्यं कटुकं चोष्णमीषद्वातापहारकम् ॥
घोडीचें ।
गर्दभीनवनीतं तु कषायं कफवातनुत् ।
बल्यं दीपनदं पाके लघूष्णं मूत्रदोषनुत् ॥
गर्दभीचें ।
नवनीतं तु नारीणां रुच्यं पाके लघु स्मृतम् ।
चक्षुष्यं सर्वदोषघ्नं दीपनं विषनाशनम् ॥
नारीचें
गव्यं वा माहिषं वापि नवनीतं नवोद्धृतम् ।
शस्यते बालवृद्धानां बलकृद् धातुवर्धनम् ॥
नवनीतं तु सद्यस्कं स्वादु ग्राहि हिमं लघु ।
मेध्यं किञ्चित् कषायाम्लमीषत्तक्रांशसंक्रमात् ॥