सामग्री पर जाएँ
सर्वकोश
भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)

भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)

Bhojanakutuhala of Raghunatha Navahasta

रघुनाथ नवहस्त (सम्पादक: सूरनाड कुंजन पिल्लै) द्वारा

DevanagariSanskritpublished358 पृष्ठ

पृष्ठ 166, कुल 358 में से

संदर्भ में पढ़ें
पृष्ठ 166

प्रथमपरिच्छेदः । १५५
कषायं स्वादु कापित्थं तैलमाखुविषापहम्
कषायं स्वादु माधूकं तैलं पित्तकफप्रणुत् ।
.तिलतैलं वरं तेषु कौसुम्भं त्ववरं परम् ।
तैलप्रयोगादजरा निर्विकारा जितक्लमाः ।
आसन्नतिबला युद्धे दैत्याधिपतयः पुरा ॥
राजनिघण्टौ—
तैलं न सेवयेद् धीमान् यस्य कस्य च यद् भवेत् ।
विषसाम्यगुणत्वाच्च योगयोग्यं न वर्जयेत् ॥
उक्तं च ।
विषस्य तैलस्य न किञ्चिदन्तरं मृतस्य सुप्तस्य तथा न किञ्चित् ।
ऋणस्य दासस्य न किञ्चिदन्तरं मूर्खस्य काष्ठस्य च नैव किञ्चित् ॥
इति तैलप्रकरणम् ॥
अथेक्षुप्रकरणम् ।
निघण्टौ—
सितेक्षुः कठिनो रुच्यो गुरुश्च कफमूत्रकृत् ।
दीपनः कफदाहघ्नो विपाके कोष्णदः स्मृतः ॥
काट्याऊंस ।
१. J₁. omits राजनिघण्टौ... ... ...नैव किञ्चित् ।
२. J₁. तैलगुणाः ।
३. J₁. अथ इक्षुगुणाः। Bh. इक्षुवर्गाः omits the portion सितेक्षुः
to... ...रसदालीति नामान्तरम् on page ... ...and simply reads to
जात्यादिगुणभेदः सुषेणे द्रष्टव्यः ।