भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)
Bhojanakutuhala of Raghunatha Navahasta
रघुनाथ नवहस्त (सम्पादक: सूरनाड कुंजन पिल्लै) द्वारा
पृष्ठ 156, कुल 358 में से
संदर्भ में पढ़ेंप्रथमपरिच्छेदः । १४५
इन्द्रो दुर्भगतां क्षयं द्विजपतिर्लम्बोदरत्वं गणाः
कुष्ठित्वं च कुबेरको दहनतामग्निश्च किं विन्दति । r
शशिकुन्दसमप्रभशङ्कनिभं युवतीकरनिर्मलनिर्मथितम् ।
परिपक्वकपित्थसुगन्धरसं पिब भो नृप तक्रमनन्तगुणम् ॥
आमातिसारे च विषूचिकायां वातज्वरे पाण्डुषु कामिलायाम् ।
प्रमेहगुल्मोदरवातशूले नित्यं पिबेत्तक्रमरोचके च ॥
अपि च ,
शीतकालेऽग्निमान्द्ये च कफे पाण्ड्वामयेषु च ।
मार्गोपरोधे कुष्ठादिव्याधौ तक्रं प्रशस्यते ॥
वातोदरी पिबेत्तक्रं पिप्पलीलवणान्वितम् ।
शर्करामरिचोपेतं स्वादु पित्तोदरी पिबेत् ॥
तक्रं देयं न क्षते नोष्णकाले
नो दौर्बल्ये नो तृषामूर्च्छिते च ।
नैव भ्रान्तौ नैव पित्तास्रदोषे
नो दद्यात्तत् सूतिकायां विशेषात् ॥
भोजस्तु तक्रस्य दश भेदान् गुणभेदानाह --
करमथितमथितोदश्वित्तक्रदण्डाहतगौडिकानि ।
कालसेयकखाडवकमिलितातिमिलितानि दश भवन्ति ॥ इति ।
तल्लक्षणानि तु —
सस्नेहं करमथितं निःस्नेहं मथितमजलमुभयं तत् ।
पादाम्बूदश्वित् स्यात् तक्रं त्वेषांशसलिलं स्यात् ॥
दण्डाहतं त्रिपादोदकयुक्तं गौडिकं समांशजलम् ।
गौडादस्मात् क्रमशः पादं पादं प्रवर्धितैः सलिलैः ॥
कथितानि कालसेयकखाडवकमिलितातिमिलितानि ।
१. P1; P2; T1. कथितमसलिलम् ।
२. P1; P2; T1. तु सार्धसलिलं ।