सामग्री पर जाएँ
सर्वकोश
भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)

भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)

Bhojanakutuhala of Raghunatha Navahasta

रघुनाथ नवहस्त (सम्पादक: सूरनाड कुंजन पिल्लै) द्वारा

DevanagariSanskritpublished358 पृष्ठ

पृष्ठ 169, कुल 358 में से

संदर्भ में पढ़ें
पृष्ठ 169

१५८ भोजनकुतूहले
अथ तापितरसगुणाः ।
इक्षुरसः परितप्तः स्निग्धः स्यात्कफविनाशनोऽतिगुरुः ।
अतिपाकेन विदाहं तनुते पित्तास्रदोषदाहांश्च ॥
ताबिला रस ।
इक्षोरग्रभवं काण्डं प्रतप्तं दृढवह्निना ।
रसस्तदुद्भवः कुर्यादतिसारं बलक्षयम् ॥
तप्तकाण्डगुणाः ।
मधुरो लवणः क्षारः स्निग्धोष्णश्च रुचिप्रदः ।
वृष्यो वातकफघ्नश्च यावनालेक्षुजो रसः ॥
जोंधळ्याच्या उंसा चा रस ।
मध्यपर्वदलनाच्च तत्क्षणात्पीयते यदि च यान्त्रिको रसः
वातपित्तशमनस्तदा भवेत्तर्पणश्च मलमूत्रशोधनः ॥
मध्यकाण्ड्यां चा रस ।
इतीक्षुप्रकरणम् ॥
१. T2. has a large addition in this context:— अथैक्षुरस-
विकाराः । ते पञ्च । तत्र वाग्भटः —
इक्षो रसस्य समलत्र्यंशाधार्ङ्घ्रिमलामलाः ।
विकाराः फाणितगुडमत्स्यण्डीखण्डशर्कराः ॥
समलं फाणितं राब इति लोके ॥ १ ॥
त्र्यंशमलः पादोनमलः गुडः ॥ २ ॥
अर्धमला मत्स्यण्डी रायपुरी ॥ ३ ॥
पादमलः खण्डः खडेसाखर ॥ ४ ॥
अमला शर्करा । सिता सितोपलेत्यादयस्तत्पर्यायाः । चीनी खडे साकर ॥ ५ ॥
तत्र फणितगुडानाह —
फाणितं गुर्वभिष्यन्दि चयकृन्मूत्रशोधनम् ।
अवृष्यं बृंहणं क्षारं वीर्योष्णं सर्वदोषकृत् ॥
चयकृदविशेषेणाह दोषत्रयस्य । सर्वदोषकृत् त्रिदोषप्रकोपकृत् ।