भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)
Bhojanakutuhala of Raghunatha Navahasta
रघुनाथ नवहस्त (सम्पादक: सूरनाड कुंजन पिल्लै) द्वारा
पृष्ठ 165, कुल 358 में से
संदर्भ में पढ़ेंसरं कौशाम्रजं तैलं क्रिमिकुष्ठव्रणापहम् ।
तिक्ताम्लमधुरं बल्यं पथ्यं रोचनपाचनम् ॥
आंबाडेल ।
कर्पूरतैलं रददार्थ्यकारि वातामयघ्नं कटु पित्तकारि ।
कापुरेल ।
त्रपुसोर्वारुकचारुकूष्माण्डप्रभृतबीजतैलं यत् ।
तन्मधुरं गुरु शिशिरं केश्यं कफपित्तनाशि कान्तिकरम् ॥
बीजतैल ।
बिल्वमज्जाभवं तैलंमुग्धवातहरं परम् ।
बेलेल ।
नारिकेरोद्भवं तैलं बृंहणं बलवर्धनम् ।
केश्यं पित्तानिलहरं मधुरं रसपाकयोः ॥
खोबरेल ।
तैलं सर्जरसोद्भूतं विस्फोटव्रणनाशनम् ।
कुष्ठपामाक्रिमिहरं वातश्लेष्मामयापहम् ॥
राळतैलम् ।
तैलं तु खसबीजानां बल्यं वृष्यं गुरु स्मृतम् ।
वातहृत् कफहृच्छीतं स्वादु पाकरसं च तत् ॥
खसखसेल ।
सहकारभवं तैलं कषायं स्वादु तिक्तकम् ।
मुखरोगहरं रूक्षं सुगन्धि श्लेष्मवातजित् ॥
आम्रतैलम् ।
प्रियालतैलं मधुरं गुरु श्लेष्मविवर्धनम् ।
हितमिच्छन्ति नात्यौष्ण्यात् संयोगे वातपित्तयोः ॥
चारेल ।
- J1. चंडेल Bb. बेळतैल.