भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)
Bhojanakutuhala of Raghunatha Navahasta
रघुनाथ नवहस्त (सम्पादक: सूरनाड कुंजन पिल्लै) द्वारा
पृष्ठ 160, कुल 358 में से
संदर्भ में पढ़ेंप्रथमपरिच्छेदः । १४९
सक्षारं कटुकाम्लत्वात् छर्द्यर्शःकुष्ठकारकम् ।
श्लेष्मलं गुरु मेदस्यं नवनीतं चिरन्तनम् ॥
एकाहाप्युषितं प्रोक्तमुत्तरोत्तरमाविलम् ।
अहृद्यं सर्वरोगाढ्यं दधिजं तद्; घृतं तथा ॥
दधिजं नवनीतम् ।
इति नवनीतप्रकरणम् ।
अथ घृतम् ।
धीकान्तिस्मृतिदायकं बलकरं मेधाप्रदं पुष्टिकृद्
वातश्लेष्महरं श्रमोपशमनं पित्तापहं शुद्धिकृत ।
वह्नेर्वृद्धिकरं विपाकमधुरं वृष्यं वपुःस्थैर्यदं
गव्यं हव्यतमं घृतं बहुगुणं सद्यः समावर्तितम् ॥ गव्यस्य ।
सर्पिर्माहिषमुत्तमं धृतिकरं सौख्यप्रदं कान्तिकृद्
वातश्लेष्मनिबर्हणं बलहरं वर्णप्रदानक्षमम् ।
दुर्नामग्रहणीविकारशमनं मन्दानलोद्दीपनं
चक्षुष्यं नवगव्यतः परमिदं हृद्यं मनोहारि च ॥
माहिषस्यैते गुणाः ।
आजमाज्यं च चक्षुष्यं दीपनं बलवर्धनम् ।
कासश्वासकफातङ्कराजयक्ष्मसु शस्यते ॥
ततः किञ्चिन्न्यूनगुणं लध्वजाज्यमुदीरितम् ॥ शेळीचें ।
पाके लघ्वाविकं सर्पिर्न च पित्तप्रकोपनम् ।
योनिदोषे कफे वाते शोफे कम्पे च तद्धितम् ॥ एडकीचें ।
भेदकं घृतमतीव गौरवाद्ध्वर्यमेव सुकुमारदेहिनाम् ॥
बुद्धिपाटवकरं बलावहं द्विष्टगन्धि कुरुते नृणां वपुः ॥ मेढीचें । •
१. J1. omits this line
२. J1. दुष्टगन्धि ।