आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
९२ आयुर्वेदीयग्रन्थमाला । [अध्यायः
अर्शादयोऽष्टौ महारोगाः, वह्निमान्द्यजा ग्रहणीप्रभृतयः, मधु-
मेहाद्याः सर्वे प्रमेहाः, मेदोवृद्ध्यर्बुदगण्डमालाद्याः कठिनवि-
काराः, आमवातगृध्रस्याद्या मूढविकाराः, राजयक्ष्माद्याः
शोषाः, किं चाशीतिसंख्या वातरोगाः, अनुपानभेदेन चत्वा-
रिशत्पित्तरोगाः, विंशतिसंख्याका कफजा रोगाः, दश रक्तजा
रोगाः शीघ्रं प्रणश्यन्ति जराव्याधिविनाशश्च भवति; दिव्यदेहः
कान्तिधृतिमान् सत्त्वसंयुतः कामिनीकामदर्पघ्नस्तार्क्ष्यदृष्टिः शूरो
वदान्यश्च भवतीति सिद्धमते हरितालमारणम् । सिद्धाद्यैस्तु
हरितालश्चतुर्विधः प्रोक्तः—बुगदादी १, गोदन्ती २, तबकी ३,
पिण्डतालश्च ४; एते पिण्डाख्यात् क्रमेण श्रेष्ठतरा ज्ञेयाः ॥
अथ तालकसत्त्वपातनविधिः—
लाक्षा राजी तिलाः शिग्रुटङ्कणं लवणं गुडम् ।
तालकार्धेन संमिश्र्य छिद्रमूष्यां निरोधयेत् ।
पुटेत्पातालयन्त्रेण सत्त्वं पतति निश्चितम् ॥ ३३ ॥
अथ रसपद्धत्याम् ।—
कुलित्थक्वाथटङ्कणमहिषीघृतमधुयुक्तं हरितालं शुद्धं दध्या-
ज्येन भावितं हण्डिकायां क्षित्त्वा उपरि मल्लं सच्चिद्रं
दत्त्वा संधिलेपं कृत्वा क्रमेण वह्निं यामचतुष्टयं दद्यात्, याव-
न्नीलः पीतो वा धूमो ह्यागच्छति, ततः पाण्डुरे धूमे दृष्टे सति
एकप्रहरमात्रं छिद्रं गोमयेनाच्छाद्य तीव्रमग्निं दद्यात्, यामान्ते
चोत्पाट्य पाण्डुरधूमे दृष्टे सति अग्निं पूर्णं कुर्यात्; पश्चाच्छीतां
स्थालीमुत्तार्य सत्त्वं ग्राह्यम् ॥
अन्यच्च ।—
जेपालसत्त्ववातारिवीजमिश्रं च तालकम् ।
कूपीस्थं वालुकायन्त्रे सत्त्वं मुञ्चति यामतः ॥ ३४ ॥
इति श्रीसौराष्ट्रदेशोद्भवसारस्वतकुलावतंसोपाध्यायश्रीमाधवविरचिते आयु-
र्वेदप्रकाशे पञ्चमोऽध्यायः ॥ ५ ॥
६. ] आयुर्वेदप्रकाशः । ९३
अथ षष्ठोऽध्यायः ।
अथ मनःशिलाया नामलक्षणगुणाः शोधनं च ।
मनःशिला मनोगुप्ता मनोह्वा नागजिह्विका ।
नेपाली कुनटी गोला शिला दिव्यौषधिः स्मृता ॥ १ ॥
तालकस्यैव भेदोऽस्ति मनोह्वा च तदन्तरम् ।
तालकं त्वतिपीतं स्याद्भवद्रक्ता मनःशिला ॥ २ ॥
मनःशिला त्रिधा प्रोक्ता श्यामाङ्गी करवीरिका ।
द्विखण्डाख्या च तासां तु लक्षणानि निबोधत ॥ ३ ॥
श्यामा हिङ्गुलवद्रक्ता किंचित्पीताऽतिदीप्तिका ।
करवीरा रक्तवर्णा चूर्णरूपाऽतिभारयुक् ॥ ४ ॥
किंचिद्रक्ता च गौरा च द्विखण्डा भारवत्तरा ।
त्रिविधासु च श्रेष्ठा स्यात्करवीरमनःशिला ॥ ५ ॥
अथ गुणाः—
मनःशिला गुरुर्वर्ण्या सरोष्णा लेखनी कटुः ।
तिक्ता स्निग्धा विषश्वासकासभूतकफास्रनुत् ॥ ६ ॥
अशुद्धमनःशिलागुणाः—
मनःशिला मन्दबलं करोति जन्तुं ध्रुवं शोधनमन्तरेण ।
मलस्य बन्धं किल मूत्ररोधं सशर्करं कृच्छ्रगदं च कुर्यात् ॥७॥
अथ मनःशिलाशोधनम्—
पचेत्त्र्यहमजामूत्रे दोलायन्त्रे मनःशिलाम् ।
भावयेत्सप्तधा पित्तैरजायाः शुद्धिमृच्छति ॥ ८ ॥
अथ मतान्तरम् ।—
जयन्तिकाद्रवे तैले दोलायन्त्रे मनःशिला ।
दिनमेकमजामूत्रे भृङ्गराजरसेऽपि च ॥ ९ ॥
मतान्तरम्—
अगस्त्यपत्रतोयेन भाविता सप्तवारकम् ।
शृङ्गवेररसैर्वापि विशुध्यति मनःशिला ॥ १० ॥
९४ आयुर्वेदिकग्रन्थमाला । [ अध्यायः
मतान्तरम्—
भृङ्गागस्त्यजयन्तीनामार्द्रकस्वरसेषु च ।
दोलायन्त्रेण संस्विन्ना विशुध्यति मनःशिला ॥ ११ ॥
अथ मनःशिलासच्वपातनम्—
तालवच्च शिलासत्त्वं ग्राह्यं तैरेव चौषधैः ।
रसपद्धत्याम्—अष्टमांशेन गुडगुग्गुललोहकिट्टेेन सर्पिषा
सह मर्दयित्वा मूषायां दत्त्वाऽन्धयित्वा कोष्ठ्यां ध्माता
सत्त्वं मुञ्चेत् ॥
इति श्रीसौराष्ट्रदेशोद्भवसारस्वतकुलावतंसोपाध्यायश्रीमाधवविरचिते आयु-
र्वेदप्रकाशे षष्ठोऽध्यायः ॥ ६ ॥
अथ सप्तमोऽध्यायः ।
अथ स्रोतोञ्जनस्य नामभेदगुणशोधनानि ।
अस्य 'सुरमा' इति भाषायां नाम ॥
अञ्जनं वामनं चापि कपोताञ्जनमित्यपि ॥ १ ॥
इति नामानि ॥
स्रोतोञ्जनं तु द्विविधं श्वेतकृष्णविभेदतः ।
तत्र स्रोतोञ्जनं कृष्णं, सौवीरं श्वेतमीरितम् ॥ २ ॥
अत्र केचित्पञ्चभेदान् पठन्ति—
स्रोतोञ्जनं च सौवीरमञ्जनं च रसाञ्जनम् ।
नीलाञ्जनं तदन्यच्च पुष्पाञ्जनकमेव च ॥ ३ ॥
इति पञ्चाञ्जनानि ॥
अथैषां लक्षणम्—
वल्मीकशिखराकारं भिन्नमञ्जनसंनिभम् ।
घृष्टं तु गैरिकच्छायमेतत्स्त्रोतोञ्जनं स्मृतम् ॥ ४ ॥
स्रोतोञ्जनसमं ज्ञेयं सौवीरं तत्तु पाण्डुरम् ।
धूम्रवर्णाभमपि वा सौवीराञ्जनमुच्यते ॥ ५ ॥
७.] आयुर्वेदप्रकाशः । ९५
अथोभयोर्गुणाः—
स्रोतोऽञ्जनं स्मृतं स्वादु चक्षुष्यं कफपित्तनुत् ।
कषायं लेखनं स्निग्धं ग्राहि छर्दिंविषापहम् ॥ ६ ॥
हिध्माक्षयास्रहृच्छीतं सौवीरमपि तादृशम् ।
किंतु द्वयोरञ्जनयोः श्रेष्ठं स्रोतोऽञ्जनं स्मृतम् ॥ ७ ॥
अथोभयोः शोधनम्—
त्रिफलावारिणि स्वेद्यं तद्द्वयं शुद्धिमृच्छति ।
भृङ्गराजरसे वाऽपि स्रोतःसौवीरकं शुचि ॥ ८ ॥
अथानयोः सत्त्वपातनम् ।—
स्रोतःसौवीरयोः सत्त्वं गृह्णीयात्कुशलो भिषक् ।
मनःशिलासत्त्ववच्च तन्नेत्र्यं परमं मतम् ॥ ९ ॥
अथ रसाञ्जनोत्पत्तिनामगुणाः कथ्यन्ते—
दार्वीक्वाथमजाक्षीरपादपकं यदा घनम् ।
तदा रसाञ्जनं ख्यातं नेत्रयोः परमं हितम् ।
रसाञ्जनं तार्क्ष्यशैलं रसगर्भं च तार्क्ष्यजम् ॥ १० ॥
इति नामानि ॥
अथ गुणाः—
रसाञ्जनं कटु श्लेष्मविषनेत्रविकारनुत् ।
उष्णं रसायनं तिक्तं छेदनं व्रणदोषहृत् ॥ ११ ॥
अथ नीलाञ्जनपुष्पाञ्जनलक्षणम्—
नीलाञ्जनं नीलवर्णं स्निग्धं गुरुतरं स्मृतम् ।
पुष्पाञ्जनं रीतिकिट्टमिति केचिद्वदन्ति हि ॥ १२ ॥
सर्वाण्येतान्यञ्जनानि नेत्र्याणि परमं तथा ।
विषघ्नानि विशेषाच्च हिध्माध्मानहराणि च ॥ १३ ॥
अत्र रसाञ्जनं 'रसवन्ती' इति भाषायां प्रसिद्धम् ॥
९६ आयुर्विदीयग्रन्थमाला। [ अध्यायः
अथ नीलाञ्जनशुद्धिः—
नीलाञ्जनं चूर्णयित्वा जम्बीररसभावितम् ।
दिनैकमातपे शुद्धं भवेत्कार्येषु योजयेत् ॥ १४ ॥
अन्यच्च—
अथवा भृङ्गद्रावे स्विन्नानि सकलान्यपि ।
अञ्जनानि विशुध्यन्ति सत्त्वं तेषां शिलासमम् ॥ १५ ॥
मनःशिलावत्सत्त्वं ग्राह्यमित्यर्थः । षष्ठं कुलित्थाञ्जनमित्युक्तं
राजनिघण्टौ—
कुलित्था दृक्प्रसादा च चक्षुष्या च कुलित्थका ।
कुकुलाली लोकहिता कुम्भकारी मलापहा ॥ १६ ॥
अथ कुलित्थगुणाः—
कुलित्थिका तु चक्षुष्या कषाया कटुका हिमा ।
विषविस्फोटकण्डूतिव्रणदोषनिवर्हणी ॥ १७ ॥
इति वनकुलित्थाञ्जनं, 'चाकसू' इति पाश्चात्याः, 'चिमड'
इति भाषा । निस्तुषीकृतवनकुलित्था चूर्णं पटेन संशोध्य
शिशूनां नेत्ररोगे योजनीयम् ।
इति श्रीसौराष्ट्रदेशोद्भवसारस्वतकुलावतंसोपाध्यायश्रीमाधवविरचिते आयु-
र्वेदप्रकाशे सप्तमोऽध्यायः ॥ ७ ॥
अथाष्टमोऽध्यायः ।
अथ टङ्कणक्षारः ।
'सुहागा' इति भाषा । तस्य नामलक्षणगुणशुद्धिः—
सौभाग्यं टङ्कणक्षारो धातुद्रावकमुच्यते ।
टङ्कणोऽग्निकरो रूक्षः कफघ्नो वातपित्तकृत् ॥ १ ॥
अशुद्धटङ्कणगुणाः—
अशुद्धटङ्कणो वान्तिभ्रान्तिकारी प्रयोजितः ।
अतस्तं शोधयेदेव वह्नावुत्फुल्लितः शुचिः ॥ २ ॥
८.] आयुर्वेदप्रकाशः । ९७
अथ गुणान्तरम् ।—
टङ्कणो वह्निकृत्स्वर्णरूप्ययोः शोधनः परः ।
विषदोषहरो हृद्यो वातश्लेष्मविकारनुत् ॥ ३ ॥
अपरो नीलकण्ठाख्यटङ्कणः पूर्वटङ्कणात् ।
श्रेष्ठो नीलच्छविः किंचिच्छोधनं तस्य पूर्ववत् ॥ ४ ॥
अथ राजावर्तः ।
‘लाजावर्त’ (लाजवर्द) इति भाषा, ‘रेवटी’ इति च ।
राजावर्तः स्मृतः कैश्चिद्बुधैरुपरसे तथा ।
रत्नजातौ स्मृतः कैश्चिल्लक्षणं तस्य कथ्यते ॥ ५ ॥
राजावर्तो द्विधा प्रोक्तः सरक्तो नीलिमाश्रितः ।
गुरुः श्रेष्ठः स कथितस्तदन्यो हीन उच्यते ॥ ६ ॥
गुणाः—
राजावर्तः कटुस्तिक्तः शिशिरः पित्तनाशनः ।
प्रमेहनाशकः प्रोक्तश्छर्दिहिक्कानिवारणः ॥ ७ ॥
अथ शोधनमारणम् ।—
गन्धाश्ममातुलुङ्गाम्लशृङ्गवेररसेन च ।
विशुध्यति म्रियते च पुटितो नात्र संशयः ॥ ८ ॥
अथ सत्त्वपातनम्—
मनःशिलाज्यसंमिश्रः पाच्यः पात्रे हि लोहजे ।
पश्चाच्च महिषीक्षीरे सौभाग्यपञ्चकान्वितः ॥ ९ ॥
एकीकृत्याथ पिण्डं तु कृत्वा मूषानिवेशितम् ।
ध्मातस्तु खदिराङ्गारैः सत्त्वं मुञ्चति तद्गतम् ॥ १० ॥
अथ चुम्बकः ।
स तु पाषाणजातिः । उक्तं च—
कान्तलोहाश्मभेदाः स्युश्चुम्बकभ्रामकादयः ।
चुम्बकः कान्तपाषाणोऽयस्कान्तो लोहकर्षकः ॥ ११ ॥
९
९८ आयुर्वेदीयग्रन्थमाला। [ अध्यायः
अथ गुणाः—
चुम्बको लेखनः शीतो मेदोविषजरापहः।
कण्डूपाण्डूदरक्षैण्यमोहमूर्छ्छायरोगहृत् ॥ १२ ॥
अथास्य शोधनमुपयोगश्च—
सौभाञ्जनरसे साम्लवर्गे दोलागतो दिनम्।
पाचितः शुध्यते कान्तपाषाणः पारदोपकृत् ॥ १३ ॥
अथ स्फटिका।
'फिटिकडी' इति भाषा। तस्या नामलक्षणगुणशोधनानि—
स्फटिका च स्फटी प्रोक्ता श्वेता शुभ्रा च रङ्गदा।
दृढरङ्गा रङ्गदृढा रङ्गाङ्गा चापि कथ्यते ॥ १४ ॥
अथ गुणाः—
स्फटिका तु कषायोष्णा वातपित्तकफव्रणान्।
निहन्ति श्वित्रवीसर्पान् योनिसंकोचकारिणी ॥ १५ ॥
स्फटिका निर्मला श्वेता श्रेष्ठा स्याच्छोधनं क्वचित्।
न दृष्टं शास्त्रतो, लोका वह्नावुत्फुल्लयन्ति हि ॥ १६ ॥
अथ शङ्खस्य नामलक्षणगुणशोधनानि।
शङ्खः समुद्रजः कम्बुः क्षुद्रः शङ्खनकः स्मृतः।
द्विधा स दक्षिणावर्तो वामावर्तः शुभेतरः ॥ १७ ॥
दक्षिणावर्तशङ्खस्तु पुण्ययोगादवाप्यते।
यद्गृहे तिष्ठतेऽसौ वै स लक्ष्म्या भाजनं भवेत् ॥ १८ ॥
दक्षिणावर्तशङ्खस्तु त्रिदोषघ्नः शुचिर्निधिः।
ग्रहालक्ष्मीक्षयश्वेडक्षामताक्ष्यामयापहः ॥ १९ ॥
अथान्यः शङ्खः—
शङ्खः क्षारो हिमो ग्राही ग्रहणीरोगनाशनः।
नेत्रपुष्पहरो वर्ण्यस्तारुण्यपिटिकाप्रणुत् ॥ २० ॥
CC0, Gurukul Kangri Collection, Haridwar, Digitized by eGangotri
८ ] आयुर्वेदप्रकाशः । ९९
अशुद्धो गुणदो नैव शुद्धोऽम्लैः स गुणप्रदः ।
शङ्खश्च विमलः श्रेष्ठश्चन्द्रकान्तिसमप्रभः ॥ २१ ॥
अम्लैः काञ्जिकादिभिर्दोलायन्त्रे स्विन्नः सन् शुध्यतीत्यर्थः ।
अथ खटिका 'खडी' इति भाषा ।
खटिका खटिनी चापि लेखनी च निगद्यते ।
खटी गौरखटी चेति द्विधाऽऽद्या मलिना स्मृता ॥ २२ ॥
मृदुपाषाणसदृशी खटी शुभ्राऽधिका गुरुः ।
खटी दाहास्रनुच्छीता मधुरा विषशोथजित् ॥ २३ ॥
कफघ्नी नेत्रयोः पथ्या लेखने बालकोचिता ।
तद्वत्पाषाणखटिका व्रणपित्तास्रजिद्धिमा ॥ २४ ॥
लेपादेते गुणा प्रोक्ता भक्षिता मृत्तिकासमा ।
खटी गौरखटी द्वे च गुणैस्तुल्ये प्रकीर्तिते ॥ २५ ॥
अथ गैरिकं 'गेरु' इति भाषा ।
गैरिकं रक्तधातुश्च गैरेयं गिरिजं तथा ।
द्विविधं गैरिकं प्राहुः स्वर्ण सामान्यगैरिकम् ॥ २६ ॥
परैस्तृतीयमप्युक्तं पाषाणाख्यं हि गैरिकम् ।
सुवर्णगैरिकं रक्ततरं शिष्टं तु रक्तकम् ॥ २७ ॥
अथ गुणाः—
गैरिकद्वितयं स्निग्धं मधुरं तुवरं हिमम् ।
चक्षुष्यं दाहपित्तास्रकफहिक्काविषापहम् ॥ २८ ॥
अतिकण्डूहरं रूक्षं तथा प्रोक्तमुदर्दनुत् ।
पाषाणगैरिकं त्वन्यद्विकालक्ष्मीविषापहम् ॥ २९ ॥
सुवर्णगैरिकं श्रेष्ठं गैरिकद्वितयात्परम् ।
गैरिकं किंचिदाज्येन भृष्टं शुद्धं प्रजायते ॥ ३० ॥
१०० आयुर्वेदीयग्रन्थमाला । [अध्यायः
अथ कासीसम् ।
तत्तु भस्स्रवन्मृत्तिकाऽम्ला ।
कासीसं धातुकासीसं पांसुकासीसमित्यपि ।
तदेव किंचित्पीतं तु पुष्पकासीसमुच्यते ॥ ३१ ॥
कासीसद्वयमम्लोष्णं तिक्तं च तुवरं तथा ।
वातश्लेष्महरं केश्यं नेत्र्यं कण्डूविषप्रणुत् ॥ ३२ ॥
मूत्रकृच्छ्राश्मरीश्वित्रनाशनं परिकीर्तितम् ।
सकृद्भृङ्गाम्बुना स्विन्नं कासीसं निर्मलं भवेत् ॥ ३३ ॥
इति श्रीसौराष्ट्रदेशोद्भवसारस्वतकुलावतंसोपाध्यायश्रीमाधवविरचिते आयु-
र्वेदप्रकाशेऽष्टमोऽध्यायः ॥ ८ ॥
अथ नवमोऽध्यायः ।
अथ रसकः ।
'खपरिया' इति परिभाषा ॥
रसकं तुत्थभेदः स्यात्खर्परं चापि तत्स्मृतम् ।
ये गुणास्तुत्थके प्रोक्तास्ते गुणा रसके स्मृताः ॥ १ ॥
खर्परो द्विविधो ज्ञेयो दर्दुरः कारवेल्लकः ।
सदलो दर्दुरः प्रोक्तो निर्दलः कारवेल्लकः ॥ २ ॥
सत्त्वपाते दर्दुरः स्यादौषधे कारवेल्लकः ।
अथ गुणाः—
रसकः सर्वमेहघ्नः कफपित्तविनाशनः ॥ ३ ॥
नेत्ररोगक्षयघ्नश्च लोहपारदरञ्जनः ।
अथान्यत्रापि—
खर्परं कटुकं क्षारं कषायं वामकं लघु ॥ ४ ॥
लेखनं भेदनं शीतं चक्षुष्यं कफपित्तनुत् ।
विपाश्मकुष्ठकण्डूनां नाशनं परमं मतम् ॥ ५ ॥
९. ] आयुर्वेदप्रकाशः । १०१
अन्यच्च—
नागार्जुनेन संदिष्टौ रसश्च रसकावुभौ ।
श्रेष्ठौ सिद्धरसौ ख्यातौ देहलोहकरौ परौ ॥ ६ ॥
रसश्च रसकश्चोभौ येनाग्निसहनौ कृतौ ।
देहलोहमयी सिद्धिर्दासी तस्य न संशयः ॥ ७ ॥
अशुद्धः खर्परः कुर्याद्भ्रान्तिं भ्रान्तिं विशेषतः ।
तस्माच्छोध्यः प्रयत्नेन यावद्भ्रान्तिविवर्जितः ॥ ८ ॥
अथ शोधनम् ।—
नृमूत्रे वाऽथ गोमूत्रे जलाम्ले वा ससैन्धवे ।
सप्ताहं त्रिदिनं वाऽपि पक्वः शुध्यति खर्परः ॥ ९ ॥
अथ वाग्भटः—
खर्परः परिसंतप्तः सप्तवारं निमज्जितः ।
बीजपूररसस्यान्तर्निर्मलत्वं समश्रुते ॥ १० ॥
अथान्यच्च—
नृमूत्रे वाऽश्वमूत्रे वा तक्रे वा काञ्जिकेऽथवा ।
प्रताप्य मज्जितं सम्यक् खर्परं परिशुध्यति ॥ ११ ॥
मतान्तरम्—
कटुकालाबुनिर्यासे आलोड्य रसकं पचेत् ।
शुद्धं दोषविनिर्मुक्तं पीतवर्णं च जायते ॥ १२ ॥
अथान्यच्च—
नरमूत्रे स्थितो मासं रसको रञ्जयेद्ध्रुवम् ।
शुद्धं ताम्रं रसं तारं शुद्धं स्वर्णप्रभं यथा ॥ १३ ॥
क्वचिदस्य भस्मप्रकार उक्तः—
खर्परं पारदेनैव चूर्णयित्वा दिनं पचेत् ।
वालुकायन्त्रमध्यस्थं शोणं भस्म प्रजायते ॥ १४ ॥
१ 'शोभनं भस्म जायते' ग. ।
१०२ आयुर्वेदीयग्रन्थमाला । [ अध्यायः
अन्यच्च—
खर्परं पत्तलं कृत्वा लवणान्तर्गतं पचेत् ।
जायते शोभनं भस्म सर्वरोगापहं स्मृतम् ॥ १५ ॥
सत्त्वप्रकारस्तु—
लाक्षागुडासुरीपथ्याहरिद्रासर्जटङ्गणैः ।
सम्यक्संमर्द्य तत्पक्वं गोदुग्धेन प्लुतं तथा ॥ १६ ॥
वृन्ताकमूषिकामध्ये निरुध्य गुटिकाकृतिम् ।
ध्मात्वा ध्मात्वा समाकृष्य ढालयित्वा शिलातले ॥ १७ ॥
सत्त्वं वङ्गाकृति ग्राह्यं रसकस्य मनोरमम् । इति ॥
रसादिषु शोधयित्वैव देयम् ॥
इति श्रीसौराष्ट्रदेशोद्भवसारस्वतकुलावतंसोपाध्यायश्रीमाधवविरचिते आयु-
र्वेदप्रकाशे नवमोऽध्यायः ॥ ९ ॥
अथ दशमोऽध्यायः ।
अथ कपर्दिका ।
‘कौडी’ इति भाषा ॥
कपर्दिका कपर्दी च वराटी च वराटिका ।
वराटिका त्रिधा प्रोक्ता श्वेता शोणा त्रिधाऽपरा ॥ १ ॥
पीता सा चातिचक्षुष्या श्वेता शोणा हिमाऽव्रणा ।
असिता विन्दुभिः श्वेतैर्लाञ्छिता रेखयाऽथवा ॥ २ ॥
बालग्रहहरी नाना कौतुकेषु च पूजिता ।
पीता गुल्मयुता पृष्ठे रसयोगेषु पूजिता ॥ ३ ॥
सार्धनिष्कप्रमाणाऽसौ श्रेष्ठा योगेषु युज्यते ।
निष्कप्रमाणा मध्या सा हीना पादोननिष्किा ॥ ४ ॥
अन्यत्रापि—
पीताभा ग्रन्थिला पृष्ठे दीर्घवृन्ता वराटिका ।
सार्धनिष्कभरा श्रेष्ठा निष्कभारा च मध्यमा ॥ ५ ॥
१०. ] आयुर्वेदप्रकाशः । १०३
पादोननिष्कमभारा च कनिष्ठा परिकीर्तिता ।
वराटाः काञ्जिके स्विन्ना यामाच्छुद्धिमवाप्नुयुः ॥ ६ ॥
इति शोधनम् ॥
अङ्गाराग्नौ स्थिता ध्माता सम्यक्प्रोत्फुल्लिता यदा ।
स्वाङ्गशीता मृता सा तु पिष्ट्वा सम्यक् प्रयोजयेत् ॥ ७ ॥
इति भस्म ॥
कपर्दिका हिमा नेत्रहिता स्फोटक्षयापहा ।
कर्णस्रावाग्निमान्द्यघ्नी पित्तास्रकफनाशिनी ॥ ८ ॥
अन्यत्र—
कटूष्णा दीपनी वृष्या तिक्ता वातकफापहा ।
परिणामादिशूलघ्नी ग्रहणीक्षयहारिणी ।
रसेन्द्रजारणे प्रोक्ता विडद्रव्येषु शस्यते ॥ ९ ॥
अथ सिकता ।
'वालु' इति भाषा ॥
वालुका सिकता प्रोक्ता शर्करा रेतिकाऽपि च ।
वालुका मधुरा शीता संतापश्रमनाशिनी ॥ १० ॥
स्वेदप्रयोगतश्चैव शाखाशैत्यानिलापहा ।
तद्वच्च लेखनी प्रोक्ता व्रणोरःक्षतनाशिनी ॥ ११ ॥
शर्कराभ्यश्चुम्बकेन केचिद्गृह्णन्त्ययोरजः ।
सुकरं त्विदमाख्यातं तच्च संशोध्य मारयेत् ॥ १२ ॥
इति सिकतालोहरजोग्रहणप्रकारः ॥
अथ बोलस्य नामलक्षणगुणाः ।
बोलगन्धरसप्राणपिण्डगोपरसाः समाः ।
बोलं तु त्रिविधं प्रोक्तं रक्तं श्यामं मनुष्यजम् ॥ १३ ॥
गुणाः—
बोलं रक्तहरं शीतं मेध्यं दीपनपाचनम् ।
मधुरं कटुकं तिक्तं ग्रहखेदत्रिदोषनुत् ॥ १४ ॥
१०४ आयुर्वेदीयग्रन्थमाला । [अध्यायः
जरापस्मारकुष्ठघ्नं गर्भाशयविशोधनम् ।
चक्षुष्यं च सरं प्रोक्तं रक्तबोलं भिषग्वरैः ॥ १५ ॥
इति रक्तबोलम् ॥
श्यामबोलं तीक्ष्णगन्धं दद्रुकण्डूविषापहम् ।
कुष्ठापस्मारब्रध्नाशोरक्तग्रन्थिं च नाशयेत् ॥ १६ ॥
इति श्यामबोलम् ॥
अथ तृतीयं श्यामबोलम् ।—
अपरं मानुषं बोलं सद्योव्रणविषापहम् ।
भग्नास्थिसन्धिजननं त्रिदोषशमनं हिमम् ॥ १७ ॥
धातुकान्तिवयःस्थैर्यवलौजोवृद्धिकारकम् ।
प्रमेहकुष्ठपिटिकासर्वव्रणविषापहम् ॥ १८ ॥
इति मोमियाई ॥
अथ कङ्कुष्ठोत्पत्तिनामलक्षणगुणाः ।
हिमाचलैकदेशे तु कङ्कुष्ठमुपजायते ।
तत्रैकं नलिकाख्यं स्यादन्यद्रेणुकनामकम् ॥ १९ ॥
पीतप्रभं गुरु स्निग्धं कङ्कुष्ठं शिलया समम् ।
मृद्वतीव शलाकाभं सच्छिद्रं नलिकाभिधम् ॥ २० ॥
रेणुकाख्यं तु कङ्कुष्ठं श्यामपीतरजोन्वितम् ।
त्यक्तसत्त्वं लघु प्रायः पूर्वस्माद्धीनवीर्यकम् ॥ २१ ॥
अथ नामानि—
कङ्कुष्ठं काककुष्ठं च वराङ्गं कोलवालुकम् ।
अत्र केचित् ।—
सद्योजातस्य करिणः शकृत्कङ्कुष्ठमुच्यते ।
यद्वा सद्यः प्रसूतस्य वाजिवालस्य विट् स्मृतम् ॥ २२ ॥
१०. ] आयुर्वेदप्रकाशः । १०५
नालं वा वाजिवालस्येत्येवं कङ्कुष्ठके भ्रमः ।
शुण्ठ्यम्बुभावितं शुद्धिं कङ्कुष्ठमुपगच्छति ॥ २३ ॥
अथ कङ्कुष्ठगुणाः ।—
कङ्कुष्ठं रेचनं तिक्तं कटूष्णं वर्णकारकम् ।
कृमिशोषोदराध्मानगुल्मानाहकफापहम् ॥ २४ ॥
अन्यच्च—
बब्बूलमूलिकाक्वाथजीरसौभाग्यटङ्कणम् ।
कङ्कुष्ठविपनाशाय भूयो भूयः पिबेन्नरः ॥ २५ ॥
अथ सौराष्ट्री ।
'सोरठीमाती' इति भाषा ॥
सौराष्ट्री तुवरी काङ्क्षी मृत्तालकसुराष्ट्रजे ।
आढकी सापि च ख्याता मृत्स्ना च सुरमृत्तिका ॥ २६ ॥
स्फटिकाया गुणाः सर्वे सौराष्ट्रयामपि कीर्तिताः ।
तस्मात्परस्पराभावे प्रयोज्याऽन्यतरा बुधैः ॥ २७ ॥
अथान्येऽप्युपरसाः सन्ति यथा—
अथ समुद्रफेननामगुणशोधनम् ।
अब्धिफेनोऽब्धिसारः स्यादब्धिजश्च समुद्रजः ।
समुद्रफेनश्चक्षुष्यो लेखनः शीतलः सरः ॥ २८ ॥
कर्णस्रावरुजागूत्थहरः पाचनदीपनः ।
अशुद्धः स करोत्यङ्गभङ्गं तस्माद्विशोधयेत् ।
समुद्रफेनः संपिष्टो निम्बुतोयेन शुध्यति ॥ २९ ॥
इति समुद्रफेनः ॥
अथ क्षुद्रशङ्खः ।
'क्षुद्रशंखः' 'घोंघा' इति भाषा । तन्नामगुणाः—
क्षुद्रशङ्खाः शङ्खनकाः शम्बूका जलशुक्तयः ।
शम्बूकः शीतलो नेत्ररुजास्फोटविनाशनः ॥ ३० ॥
१०६ आयुर्वेदीयग्रन्थमाला । [ अध्यायः
शीतज्वरहरस्तीक्ष्णो ग्राही दीपनपाचनः ।
ग्रहणीरोगहन्ता च रक्तातीसारनाशनः ॥ ३१ ॥
अस्य शुद्धिस्तु महाशङ्खवद्बोध्या ॥ २ ॥
अथ शुक्तिः ।
'शिंपी' 'छिप' इति भाषा । तन्नामानि यथा राजनिघण्टौ—
शुक्तिर्मुक्ताप्रसूर्श्चैव महाशुक्तिश्च शुक्तिका ॥
मुक्तास्फोटोऽब्धिमण्डूकीमौक्तिकप्रसवा च सा ।
ज्ञेया मौक्तिकसूर्मुक्तामाता मौक्तिकमन्दिरम् ॥ ३२ ॥
अथ गुणाः—
मुक्ताशुक्तिः कटुः स्निग्धा श्वासहृद्रोगहारिणी ।
शूलप्रशमनी रुच्या मधुरा दीपनी परा ॥ ३३ ॥
जलशुक्तिकानामानि—
जलशुक्तिर्वारिशुक्तिः कृमिभूः क्षुद्रशुक्तिका ।
जम्बूका जलशुक्तिश्च पुटिका तोयशुक्तिका ॥ ३४ ॥
अथ गुणाः—
जलशुक्तिः कटुः स्निग्धा दीपनी गुल्मशूलनुत् ।
विषदोषहरा रुच्या पाचनी बलदायिनी ॥ ३५ ॥
अनयोः शोधनं गुणाश्च—
शुक्तिस्तु शिशिरा पित्तरक्तज्वरविनाशिनी ।
शोधनं शङ्खवत्तस्य मृतिः प्रोक्ता कपर्दवत् ॥ ३६ ॥
अथ कृष्णमृत्तिकानामगुणाः ।
'कालीमाटी' इति भाषा ।
मृन्मृत्तिका प्रशस्ता तु मृत्स्ना मृत्सा च मृत्तिका ।
कृष्णमृत्क्षतदाहास्रप्रदरश्लेष्मपित्तनुत् ॥ ३७ ॥
अथ पङ्कः ।
'काद्व' इति भाषा । तन्नामगुणाः—
[पार्श्वे हस्तलिखितम्: चरके] पङ्कः कर्दम इत्युक्तो जम्बालः पङ्किलस्तथा ।
पङ्को दाहास्रपित्तार्तिशोफघ्नः शीतलः सरः ॥ ३८ ॥
text page line by line... faithfully".
So transcribe what is printed!
Wait, is it द्द?
Let's look at किट्टवद्भवेत् in line 22:
Look at द्भ: द with भ attached.
Look at कम्पिल्लस्तस्य in line 4.
Look at इष्टकापाकद्दहने: yes, it is द्द!
Wait, could it be इष्टकापाकद्दहने? Yes, it looks like इष्टकापाकद्दहने.
- Now let's check line 22:
मनुष्यसूकराणां च विष्ठान्तः किट्टवद्भवेत् ।
Wait, look atविष्ठान्तःvsविष्ठातः:
Let's zoom intoविष्ठातः:
वि
ष्ठा
Then what?
Is itतः?
Wait, look at the stroke betweenष्ठाandतः:
There is a vertical stem with a loop to the left: that'sन्!
Thenतः!
Wait,न्+तः=न्तः!
Yes, it clearly saysविष्ठान्तः!
Wait,विष्ठान्तः किट्टवद्भवेत्- "inside the feces of humans and
१०८ आयुर्वीदीयग्रन्थमाला। [अध्यायः
अथाग्निजार इति क्षारविशेषः।
अब्धितीरेऽग्निनक्रस्य जरायुः शुष्कतां गतः।
अग्निजारस्तु संप्रोक्तः स क्षारो जारणे हितः ॥ ४७ ॥
अथ गिरिसिन्दूरम्।
गिरिसिन्दूरकं यत्तु गिरौ पाषाणजं भवेत्।
किंचिद्धिङ्गुलतुल्याभं रसबन्धे हितं मतम्।
धातुवादेऽपि तत्पूज्यं नेत्ररोगघ्नमीरितम् ॥ ४८ ॥
अथ बोदारशृङ्गम्।
‘मुद्दारशिंगी’ इति भाषा ॥
बोदारशृङ्गकं प्रोक्तं द्विविधं पीतपाण्डुरम्।
सदलं निर्दलं तस्य जनिर्गूर्जरमण्डले ॥ ४९ ॥
अर्बुदाख्यगिरेः पार्श्वे सीससत्त्वसमं परम्।
केश्यं पुरुषरोगघ्नं रञ्जनं रसबन्धकम् ॥ ५० ॥
उक्तं च।—
कम्पिल्लश्चपलो गौरीपाषाणो नवसादरः।
वह्निजारोऽथ सिन्दूरं साधारणरसाः स्मृताः ॥ ५१ ॥
अथैषां शोधनम्।—
साधारणरसाः सर्वे मातुलुङ्गार्द्रकाम्बुना।
त्रिवारं भाविताः शुष्का भवेयुर्दोषवर्जिताः ॥ ५२ ॥
महारसः स एव स्याद्गन्धाद्युपरसाः स्मृताः।
गन्धको वज्रवैक्रान्तौ सिन्दूरं बोलगैरिकम् ॥ ५३ ॥
समुद्रफेनः खटिकाद्वयं शम्बूकतार्क्ष्यजौ।
कासीसं कान्तपाषाणो वराटी शुक्तिहिङ्गुलाः ॥ ५४ ॥
कङ्कुष्ठं शङ्खभूनागौ टङ्कणं च शिलाजतु।
उक्ता उपरसा एते द्रव्यनिर्णयकारिभिः ॥ ५५ ॥
'? No, it has:
द ् र व ्य ा न् त र - wait! Look at the letter after 'ा':
It is 'न' with a reph? No, it's 'न्र्'?
Wait, look at it:
न् + त = न्त!
Wait, above 'त' there is an anusvara?
No, look at: द्र - व्या - न्त - र - स - यो - ग - जाः
Wait, between 'व्या' and 'त', there is:
A letter: look at the top:
It has a reph? No, there is:
न् + त = न्त. But wait! There is a diagonal stroke across the stem?
Wait, let's look at "द्रव्यान्तरसंयोगजाः":
Is there an anusvara on 'सं'?
Wait! Look at: "सयोगजाः" - does 'स' have an anusvara?
No! There is NO dot above 'स'! It is clearly 'सयोगजाः'!
Wait, what about the word before it?
Let's look at the letters:
द् - र - व् - य - ा -
then:
न्र्त?
Wait, look at that cluster:
It has 'न', under which there is a virama or reph? No, it looks like:
न् + र + त ? Or is it just a damaged type of 'न्तर'?
Wait! Look at the letter:
It's 'न्'
११० आयुर्वेदीयग्रन्थमाला । [ अध्यायः
कन्दर्पदर्पविध्वस्तचेतसो जातवेदसः ।
पतितं यद्धरापृष्ठे रेतस्तद्धेमतामगात् ॥ ७ ॥
कृत्रिमं चापि भवति तद्रसेन्द्रस्य वेधतः ।
मेरुसानुपतज्जम्बूफलाम्भोयोगतः परम् ॥ ८ ॥
दिव्यौषधिमणिसस्पर्शादन्यद्भवति काञ्चनम् ।
एवं नानाविधानीह जायन्ते काञ्चनानि वै ॥ ९ ॥
उक्तं च—
सुवर्णं पञ्चधा ख्यातं प्राकृतं सहजं परम् ।
वह्निजं खनिजं तद्वद्रसेन्द्रवेधसंभवम् ॥ १० ॥
ब्रह्माण्डं संवृतं येन प्रकृत्या प्राकृतं च तत् ।
ब्रह्मा येन सहोत्पन्नः सहजं हेम तत्स्मृतम् ॥ ११ ॥
वह्निजं तु समाख्यातमेतानि दुर्लभानि हि ।
मनु(१४)वर्णं लोकसिद्धं प्रायशः खनिजं हि यत् ॥ १२ ॥
तत्स्वर्णं मारणार्थं तु ग्राह्यं लक्षणलक्षितम् ।
वर्णमृत्तिकया लिप्त्वा मुनिशो ध्मापितं वसु ।
विशुध्यति वरं किंचिद्वर्णवृद्धिश्च जायते ॥ १३ ॥
यया कुम्भकाराः भाण्डानि रञ्जयित्वा पाचयन्ति सा
वर्णमृत्तिकेत्युच्यते, ‘कावीस’ इति भाषा । मतान्तरम्—
वल्मीकमृत्तिका धूमं गैरिकं चेष्टिका पडु ।
इत्येता मृत्तिकाः पञ्च जम्बीरैरारनालकैः ॥ १४ ॥
पिष्ट्वा कण्टकवेध्यानि स्वर्णपत्राणि लेपयेत् ।
पुटेत्पृथुहसन्त्यां तु निर्वात विंशदुत्पलैः ॥ १५ ॥
अधिकैर्वाऽधिके हेम्नि यावद्वर्णो विवर्धते ।
इत्येवं पुटनैर्युक्त्या सम्यक् शुध्यति काञ्चनम् ॥ १६ ॥
१ मुनिशः सप्तवारम् ।
११.] आयुर्वेदप्रकाशः । १११
मतान्तरम् ।—
मृत्तिकाः पञ्च लुङ्गाम्लैः पञ्चवासरभाविताः ।
सभस्मलवर्णा हेम्नः शोधन्यः पुटपाकतः ॥ १७ ॥
अन्यच्च—
सुवर्णमुत्तमं वह्नौ विद्रुतं निक्षिपेत्त्रिशः ।
काञ्चनाररसे शुद्धं काञ्चनं जायते भृशम् ॥ १८ ॥
इति स्वर्णशोधनम् । अत्र केचित् ।—
इयमेव सुवर्णस्य शुद्धिर्नान्या हि विद्यते ।
तैले तक्रादिके या तु रूप्यादीनामुदाहृता ॥ १९ ॥।
अथ स्वर्णनामानि—
स्वर्णं सुवर्णं कनकं हिरण्यं हेम हाटकम् ।
तपनीयं कलधौतं गाङ्गेयं भर्म काञ्चनम् ॥ २० ॥
चामीकरं शातकुम्भं तथा कार्तस्वरं च तत् ।
जाम्बूनदं जातरूपं महारजतमित्यपि ॥ २१ ॥
अथ सदसत्सुवर्णलक्षणम्—
दाहे रक्तं सितं छेदे निकषे कुङ्कुमप्रभम् ।
तारशुल्बोज्झितं स्निग्धं कोमलं गुरु हेम सत् ॥ २२ ॥
यच्छ्वेतं कठिनं रूक्षं विवर्णं समलं दलम् ॥
दाहे छेदे सितं, श्वेतं कषे त्याज्यं लघु स्फुटम् ॥ २३ ॥
दलं नाम यद्धनाहतं स्फुटति । अथ स्वर्णगुणाः—
स्वर्णं स्निग्धकषायतिक्तमधुरं दोषत्रयध्वंसनं
शीतं स्वादु रसायनं च रुचिकृच्चक्षुष्यमायुष्यदम् ।
प्रज्ञावीर्यबलस्मृतिस्वरकरं कान्तिं विधत्ते तनोः
संधत्ते दुरितक्षयं श्रियमिदं धत्ते नृणां धारणात् ॥२४॥
दाहेऽतिरक्तमथ यत्ससितं छिदायां
काश्मीरकान्ति च विभाति निकाषपट्टे ।