सामग्री पर जाएँ
सर्वकोश
आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

Ayurveda Prakasha of Madhava Upadhyaya with Commentary

माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा

DevanagariHindipublished232 पृष्ठ

पृष्ठ 115, कुल 232 में से

संदर्भ में पढ़ें
पृष्ठ 115

९६ आयुर्विदीयग्रन्थमाला। [ अध्यायः
अथ नीलाञ्जनशुद्धिः—
नीलाञ्जनं चूर्णयित्वा जम्बीररसभावितम् ।
दिनैकमातपे शुद्धं भवेत्कार्येषु योजयेत् ॥ १४ ॥
अन्यच्च—
अथवा भृङ्गद्रावे स्विन्नानि सकलान्यपि ।
अञ्जनानि विशुध्यन्ति सत्त्वं तेषां शिलासमम् ॥ १५ ॥
मनःशिलावत्सत्त्वं ग्राह्यमित्यर्थः । षष्ठं कुलित्थाञ्जनमित्युक्तं
राजनिघण्टौ—
कुलित्था दृक्प्रसादा च चक्षुष्या च कुलित्थका ।
कुकुलाली लोकहिता कुम्भकारी मलापहा ॥ १६ ॥
अथ कुलित्थगुणाः—
कुलित्थिका तु चक्षुष्या कषाया कटुका हिमा ।
विषविस्फोटकण्डूतिव्रणदोषनिवर्हणी ॥ १७ ॥
इति वनकुलित्थाञ्जनं, 'चाकसू' इति पाश्चात्याः, 'चिमड'
इति भाषा । निस्तुषीकृतवनकुलित्था चूर्णं पटेन संशोध्य
शिशूनां नेत्ररोगे योजनीयम् ।
इति श्रीसौराष्ट्रदेशोद्भवसारस्वतकुलावतंसोपाध्यायश्रीमाधवविरचिते आयु-
र्वेदप्रकाशे सप्तमोऽध्यायः ॥ ७ ॥
अथाष्टमोऽध्यायः ।
अथ टङ्कणक्षारः ।
'सुहागा' इति भाषा । तस्य नामलक्षणगुणशुद्धिः—
सौभाग्यं टङ्कणक्षारो धातुद्रावकमुच्यते ।
टङ्कणोऽग्निकरो रूक्षः कफघ्नो वातपित्तकृत् ॥ १ ॥
अशुद्धटङ्कणगुणाः—
अशुद्धटङ्कणो वान्तिभ्रान्तिकारी प्रयोजितः ।
अतस्तं शोधयेदेव वह्नावुत्फुल्लितः शुचिः ॥ २ ॥