सामग्री पर जाएँ
सर्वकोश
आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

Ayurveda Prakasha of Madhava Upadhyaya with Commentary

माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा

DevanagariHindipublished232 पृष्ठ

पृष्ठ 121, कुल 232 में से

संदर्भ में पढ़ें
पृष्ठ 121

१०२ आयुर्वेदीयग्रन्थमाला । [ अध्यायः
अन्यच्च—
खर्परं पत्तलं कृत्वा लवणान्तर्गतं पचेत् ।
जायते शोभनं भस्म सर्वरोगापहं स्मृतम् ॥ १५ ॥
सत्त्वप्रकारस्तु—
लाक्षागुडासुरीपथ्याहरिद्रासर्जटङ्गणैः ।
सम्यक्संमर्द्य तत्पक्वं गोदुग्धेन प्लुतं तथा ॥ १६ ॥
वृन्ताकमूषिकामध्ये निरुध्य गुटिकाकृतिम् ।
ध्मात्वा ध्मात्वा समाकृष्य ढालयित्वा शिलातले ॥ १७ ॥
सत्त्वं वङ्गाकृति ग्राह्यं रसकस्य मनोरमम् । इति ॥
रसादिषु शोधयित्वैव देयम् ॥
इति श्रीसौराष्ट्रदेशोद्भवसारस्वतकुलावतंसोपाध्यायश्रीमाधवविरचिते आयु-
र्वेदप्रकाशे नवमोऽध्यायः ॥ ९ ॥
अथ दशमोऽध्यायः ।
अथ कपर्दिका ।
‘कौडी’ इति भाषा ॥
कपर्दिका कपर्दी च वराटी च वराटिका ।
वराटिका त्रिधा प्रोक्ता श्वेता शोणा त्रिधाऽपरा ॥ १ ॥
पीता सा चातिचक्षुष्या श्वेता शोणा हिमाऽव्रणा ।
असिता विन्दुभिः श्वेतैर्लाञ्छिता रेखयाऽथवा ॥ २ ॥
बालग्रहहरी नाना कौतुकेषु च पूजिता ।
पीता गुल्मयुता पृष्ठे रसयोगेषु पूजिता ॥ ३ ॥
सार्धनिष्कप्रमाणाऽसौ श्रेष्ठा योगेषु युज्यते ।
निष्कप्रमाणा मध्या सा हीना पादोननिष्किा ॥ ४ ॥
अन्यत्रापि—
पीताभा ग्रन्थिला पृष्ठे दीर्घवृन्ता वराटिका ।
सार्धनिष्कभरा श्रेष्ठा निष्कभारा च मध्यमा ॥ ५ ॥