सामग्री पर जाएँ
सर्वकोश
आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

Ayurveda Prakasha of Madhava Upadhyaya with Commentary

माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा

DevanagariHindipublished232 पृष्ठ

पृष्ठ 113, कुल 232 में से

संदर्भ में पढ़ें
पृष्ठ 113

९४ आयुर्वेदिकग्रन्थमाला । [ अध्यायः
मतान्तरम्—
भृङ्गागस्त्यजयन्तीनामार्द्रकस्वरसेषु च ।
दोलायन्त्रेण संस्विन्ना विशुध्यति मनःशिला ॥ ११ ॥
अथ मनःशिलासच्वपातनम्—
तालवच्च शिलासत्त्वं ग्राह्यं तैरेव चौषधैः ।
रसपद्धत्याम्—अष्टमांशेन गुडगुग्गुललोहकिट्टेेन सर्पिषा
सह मर्दयित्वा मूषायां दत्त्वाऽन्धयित्वा कोष्ठ्यां ध्माता
सत्त्वं मुञ्चेत् ॥
इति श्रीसौराष्ट्रदेशोद्भवसारस्वतकुलावतंसोपाध्यायश्रीमाधवविरचिते आयु-
र्वेदप्रकाशे षष्ठोऽध्यायः ॥ ६ ॥
अथ सप्तमोऽध्यायः ।
अथ स्रोतोञ्जनस्य नामभेदगुणशोधनानि ।
अस्य 'सुरमा' इति भाषायां नाम ॥
अञ्जनं वामनं चापि कपोताञ्जनमित्यपि ॥ १ ॥
इति नामानि ॥
स्रोतोञ्जनं तु द्विविधं श्वेतकृष्णविभेदतः ।
तत्र स्रोतोञ्जनं कृष्णं, सौवीरं श्वेतमीरितम् ॥ २ ॥
अत्र केचित्पञ्चभेदान् पठन्ति—
स्रोतोञ्जनं च सौवीरमञ्जनं च रसाञ्जनम् ।
नीलाञ्जनं तदन्यच्च पुष्पाञ्जनकमेव च ॥ ३ ॥
इति पञ्चाञ्जनानि ॥
अथैषां लक्षणम्—
वल्मीकशिखराकारं भिन्नमञ्जनसंनिभम् ।
घृष्टं तु गैरिकच्छायमेतत्स्त्रोतोञ्जनं स्मृतम् ॥ ४ ॥
स्रोतोञ्जनसमं ज्ञेयं सौवीरं तत्तु पाण्डुरम् ।
धूम्रवर्णाभमपि वा सौवीराञ्जनमुच्यते ॥ ५ ॥