आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 114, कुल 232 में से
संदर्भ में पढ़ें७.] आयुर्वेदप्रकाशः । ९५
अथोभयोर्गुणाः—
स्रोतोऽञ्जनं स्मृतं स्वादु चक्षुष्यं कफपित्तनुत् ।
कषायं लेखनं स्निग्धं ग्राहि छर्दिंविषापहम् ॥ ६ ॥
हिध्माक्षयास्रहृच्छीतं सौवीरमपि तादृशम् ।
किंतु द्वयोरञ्जनयोः श्रेष्ठं स्रोतोऽञ्जनं स्मृतम् ॥ ७ ॥
अथोभयोः शोधनम्—
त्रिफलावारिणि स्वेद्यं तद्द्वयं शुद्धिमृच्छति ।
भृङ्गराजरसे वाऽपि स्रोतःसौवीरकं शुचि ॥ ८ ॥
अथानयोः सत्त्वपातनम् ।—
स्रोतःसौवीरयोः सत्त्वं गृह्णीयात्कुशलो भिषक् ।
मनःशिलासत्त्ववच्च तन्नेत्र्यं परमं मतम् ॥ ९ ॥
अथ रसाञ्जनोत्पत्तिनामगुणाः कथ्यन्ते—
दार्वीक्वाथमजाक्षीरपादपकं यदा घनम् ।
तदा रसाञ्जनं ख्यातं नेत्रयोः परमं हितम् ।
रसाञ्जनं तार्क्ष्यशैलं रसगर्भं च तार्क्ष्यजम् ॥ १० ॥
इति नामानि ॥
अथ गुणाः—
रसाञ्जनं कटु श्लेष्मविषनेत्रविकारनुत् ।
उष्णं रसायनं तिक्तं छेदनं व्रणदोषहृत् ॥ ११ ॥
अथ नीलाञ्जनपुष्पाञ्जनलक्षणम्—
नीलाञ्जनं नीलवर्णं स्निग्धं गुरुतरं स्मृतम् ।
पुष्पाञ्जनं रीतिकिट्टमिति केचिद्वदन्ति हि ॥ १२ ॥
सर्वाण्येतान्यञ्जनानि नेत्र्याणि परमं तथा ।
विषघ्नानि विशेषाच्च हिध्माध्मानहराणि च ॥ १३ ॥
अत्र रसाञ्जनं 'रसवन्ती' इति भाषायां प्रसिद्धम् ॥