सामग्री पर जाएँ
सर्वकोश
आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

Ayurveda Prakasha of Madhava Upadhyaya with Commentary

माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा

DevanagariHindipublished232 पृष्ठ

पृष्ठ 120, कुल 232 में से

संदर्भ में पढ़ें
पृष्ठ 120

९. ] आयुर्वेदप्रकाशः । १०१
अन्यच्च—
नागार्जुनेन संदिष्टौ रसश्च रसकावुभौ ।
श्रेष्ठौ सिद्धरसौ ख्यातौ देहलोहकरौ परौ ॥ ६ ॥
रसश्च रसकश्चोभौ येनाग्निसहनौ कृतौ ।
देहलोहमयी सिद्धिर्दासी तस्य न संशयः ॥ ७ ॥
अशुद्धः खर्परः कुर्याद्भ्रान्तिं भ्रान्तिं विशेषतः ।
तस्माच्छोध्यः प्रयत्नेन यावद्भ्रान्तिविवर्जितः ॥ ८ ॥
अथ शोधनम् ।—
नृमूत्रे वाऽथ गोमूत्रे जलाम्ले वा ससैन्धवे ।
सप्ताहं त्रिदिनं वाऽपि पक्वः शुध्यति खर्परः ॥ ९ ॥
अथ वाग्भटः—
खर्परः परिसंतप्तः सप्तवारं निमज्जितः ।
बीजपूररसस्यान्तर्निर्मलत्वं समश्रुते ॥ १० ॥
अथान्यच्च—
नृमूत्रे वाऽश्वमूत्रे वा तक्रे वा काञ्जिकेऽथवा ।
प्रताप्य मज्जितं सम्यक् खर्परं परिशुध्यति ॥ ११ ॥
मतान्तरम्—
कटुकालाबुनिर्यासे आलोड्य रसकं पचेत् ।
शुद्धं दोषविनिर्मुक्तं पीतवर्णं च जायते ॥ १२ ॥
अथान्यच्च—
नरमूत्रे स्थितो मासं रसको रञ्जयेद्ध्रुवम् ।
शुद्धं ताम्रं रसं तारं शुद्धं स्वर्णप्रभं यथा ॥ १३ ॥
क्वचिदस्य भस्मप्रकार उक्तः—
खर्परं पारदेनैव चूर्णयित्वा दिनं पचेत् ।
वालुकायन्त्रमध्यस्थं शोणं भस्म प्रजायते ॥ १४ ॥
१ 'शोभनं भस्म जायते' ग. ।