आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 117, कुल 232 में से
संदर्भ में पढ़ें९८ आयुर्वेदीयग्रन्थमाला। [ अध्यायः
अथ गुणाः—
चुम्बको लेखनः शीतो मेदोविषजरापहः।
कण्डूपाण्डूदरक्षैण्यमोहमूर्छ्छायरोगहृत् ॥ १२ ॥
अथास्य शोधनमुपयोगश्च—
सौभाञ्जनरसे साम्लवर्गे दोलागतो दिनम्।
पाचितः शुध्यते कान्तपाषाणः पारदोपकृत् ॥ १३ ॥
अथ स्फटिका।
'फिटिकडी' इति भाषा। तस्या नामलक्षणगुणशोधनानि—
स्फटिका च स्फटी प्रोक्ता श्वेता शुभ्रा च रङ्गदा।
दृढरङ्गा रङ्गदृढा रङ्गाङ्गा चापि कथ्यते ॥ १४ ॥
अथ गुणाः—
स्फटिका तु कषायोष्णा वातपित्तकफव्रणान्।
निहन्ति श्वित्रवीसर्पान् योनिसंकोचकारिणी ॥ १५ ॥
स्फटिका निर्मला श्वेता श्रेष्ठा स्याच्छोधनं क्वचित्।
न दृष्टं शास्त्रतो, लोका वह्नावुत्फुल्लयन्ति हि ॥ १६ ॥
अथ शङ्खस्य नामलक्षणगुणशोधनानि।
शङ्खः समुद्रजः कम्बुः क्षुद्रः शङ्खनकः स्मृतः।
द्विधा स दक्षिणावर्तो वामावर्तः शुभेतरः ॥ १७ ॥
दक्षिणावर्तशङ्खस्तु पुण्ययोगादवाप्यते।
यद्गृहे तिष्ठतेऽसौ वै स लक्ष्म्या भाजनं भवेत् ॥ १८ ॥
दक्षिणावर्तशङ्खस्तु त्रिदोषघ्नः शुचिर्निधिः।
ग्रहालक्ष्मीक्षयश्वेडक्षामताक्ष्यामयापहः ॥ १९ ॥
अथान्यः शङ्खः—
शङ्खः क्षारो हिमो ग्राही ग्रहणीरोगनाशनः।
नेत्रपुष्पहरो वर्ण्यस्तारुण्यपिटिकाप्रणुत् ॥ २० ॥
CC0, Gurukul Kangri Collection, Haridwar, Digitized by eGangotri