सामग्री पर जाएँ
सर्वकोश
आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

Ayurveda Prakasha of Madhava Upadhyaya with Commentary

माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा

DevanagariHindipublished232 पृष्ठ

पृष्ठ 130, कुल 232 में से

संदर्भ में पढ़ें
पृष्ठ 130

११.] आयुर्वेदप्रकाशः । १११
मतान्तरम् ।—
मृत्तिकाः पञ्च लुङ्गाम्लैः पञ्चवासरभाविताः ।
सभस्मलवर्णा हेम्नः शोधन्यः पुटपाकतः ॥ १७ ॥
अन्यच्च—
सुवर्णमुत्तमं वह्नौ विद्रुतं निक्षिपेत्त्रिशः ।
काञ्चनाररसे शुद्धं काञ्चनं जायते भृशम् ॥ १८ ॥
इति स्वर्णशोधनम् । अत्र केचित् ।—
इयमेव सुवर्णस्य शुद्धिर्नान्या हि विद्यते ।
तैले तक्रादिके या तु रूप्यादीनामुदाहृता ॥ १९ ॥।
अथ स्वर्णनामानि—
स्वर्णं सुवर्णं कनकं हिरण्यं हेम हाटकम् ।
तपनीयं कलधौतं गाङ्गेयं भर्म काञ्चनम् ॥ २० ॥
चामीकरं शातकुम्भं तथा कार्तस्वरं च तत् ।
जाम्बूनदं जातरूपं महारजतमित्यपि ॥ २१ ॥
अथ सदसत्सुवर्णलक्षणम्—
दाहे रक्तं सितं छेदे निकषे कुङ्कुमप्रभम् ।
तारशुल्बोज्झितं स्निग्धं कोमलं गुरु हेम सत् ॥ २२ ॥
यच्छ्वेतं कठिनं रूक्षं विवर्णं समलं दलम् ॥
दाहे छेदे सितं, श्वेतं कषे त्याज्यं लघु स्फुटम् ॥ २३ ॥
दलं नाम यद्धनाहतं स्फुटति । अथ स्वर्णगुणाः—
स्वर्णं स्निग्धकषायतिक्तमधुरं दोषत्रयध्वंसनं
शीतं स्वादु रसायनं च रुचिकृच्चक्षुष्यमायुष्यदम् ।
प्रज्ञावीर्यबलस्मृतिस्वरकरं कान्तिं विधत्ते तनोः
संधत्ते दुरितक्षयं श्रियमिदं धत्ते नृणां धारणात् ॥२४॥
दाहेऽतिरक्तमथ यत्ससितं छिदायां
काश्मीरकान्ति च विभाति निकाषपट्टे ।