सामग्री पर जाएँ
सर्वकोश
आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

Ayurveda Prakasha of Madhava Upadhyaya with Commentary

माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा

DevanagariHindipublished232 पृष्ठ

पृष्ठ 116, कुल 232 में से

संदर्भ में पढ़ें
पृष्ठ 116

८.] आयुर्वेदप्रकाशः । ९७
अथ गुणान्तरम् ।—
टङ्कणो वह्निकृत्स्वर्णरूप्ययोः शोधनः परः ।
विषदोषहरो हृद्यो वातश्लेष्मविकारनुत् ॥ ३ ॥
अपरो नीलकण्ठाख्यटङ्कणः पूर्वटङ्कणात् ।
श्रेष्ठो नीलच्छविः किंचिच्छोधनं तस्य पूर्ववत् ॥ ४ ॥
अथ राजावर्तः ।
‘लाजावर्त’ (लाजवर्द) इति भाषा, ‘रेवटी’ इति च ।
राजावर्तः स्मृतः कैश्चिद्बुधैरुपरसे तथा ।
रत्नजातौ स्मृतः कैश्चिल्लक्षणं तस्य कथ्यते ॥ ५ ॥
राजावर्तो द्विधा प्रोक्तः सरक्तो नीलिमाश्रितः ।
गुरुः श्रेष्ठः स कथितस्तदन्यो हीन उच्यते ॥ ६ ॥
गुणाः—
राजावर्तः कटुस्तिक्तः शिशिरः पित्तनाशनः ।
प्रमेहनाशकः प्रोक्तश्छर्दिहिक्कानिवारणः ॥ ७ ॥
अथ शोधनमारणम् ।—
गन्धाश्ममातुलुङ्गाम्लशृङ्गवेररसेन च ।
विशुध्यति म्रियते च पुटितो नात्र संशयः ॥ ८ ॥
अथ सत्त्वपातनम्—
मनःशिलाज्यसंमिश्रः पाच्यः पात्रे हि लोहजे ।
पश्चाच्च महिषीक्षीरे सौभाग्यपञ्चकान्वितः ॥ ९ ॥
एकीकृत्याथ पिण्डं तु कृत्वा मूषानिवेशितम् ।
ध्मातस्तु खदिराङ्गारैः सत्त्वं मुञ्चति तद्गतम् ॥ १० ॥
अथ चुम्बकः ।
स तु पाषाणजातिः । उक्तं च—
कान्तलोहाश्मभेदाः स्युश्चुम्बकभ्रामकादयः ।
चुम्बकः कान्तपाषाणोऽयस्कान्तो लोहकर्षकः ॥ ११ ॥
९