सामग्री पर जाएँ
सर्वकोश
आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

Ayurveda Prakasha of Madhava Upadhyaya with Commentary

माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा

DevanagariHindipublished232 पृष्ठ

पृष्ठ 123, कुल 232 में से

संदर्भ में पढ़ें
पृष्ठ 123

१०४ आयुर्वेदीयग्रन्थमाला । [अध्यायः
जरापस्मारकुष्ठघ्नं गर्भाशयविशोधनम् ।
चक्षुष्यं च सरं प्रोक्तं रक्तबोलं भिषग्वरैः ॥ १५ ॥
इति रक्तबोलम् ॥
श्यामबोलं तीक्ष्णगन्धं दद्रुकण्डूविषापहम् ।
कुष्ठापस्मारब्रध्नाशोरक्तग्रन्थिं च नाशयेत् ॥ १६ ॥
इति श्यामबोलम् ॥
अथ तृतीयं श्यामबोलम् ।—
अपरं मानुषं बोलं सद्योव्रणविषापहम् ।
भग्नास्थिसन्धिजननं त्रिदोषशमनं हिमम् ॥ १७ ॥
धातुकान्तिवयःस्थैर्यवलौजोवृद्धिकारकम् ।
प्रमेहकुष्ठपिटिकासर्वव्रणविषापहम् ॥ १८ ॥
इति मोमियाई ॥
अथ कङ्कुष्ठोत्पत्तिनामलक्षणगुणाः ।
हिमाचलैकदेशे तु कङ्कुष्ठमुपजायते ।
तत्रैकं नलिकाख्यं स्यादन्यद्रेणुकनामकम् ॥ १९ ॥
पीतप्रभं गुरु स्निग्धं कङ्कुष्ठं शिलया समम् ।
मृद्वतीव शलाकाभं सच्छिद्रं नलिकाभिधम् ॥ २० ॥
रेणुकाख्यं तु कङ्कुष्ठं श्यामपीतरजोन्वितम् ।
त्यक्तसत्त्वं लघु प्रायः पूर्वस्माद्धीनवीर्यकम् ॥ २१ ॥
अथ नामानि—
कङ्कुष्ठं काककुष्ठं च वराङ्गं कोलवालुकम् ।
अत्र केचित् ।—
सद्योजातस्य करिणः शकृत्कङ्कुष्ठमुच्यते ।
यद्वा सद्यः प्रसूतस्य वाजिवालस्य विट् स्मृतम् ॥ २२ ॥