सामग्री पर जाएँ
सर्वकोश
आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

Ayurveda Prakasha of Madhava Upadhyaya with Commentary

माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा

DevanagariHindipublished232 पृष्ठ

पृष्ठ 112, कुल 232 में से

संदर्भ में पढ़ें
पृष्ठ 112

६. ] आयुर्वेदप्रकाशः । ९३
अथ षष्ठोऽध्यायः ।
अथ मनःशिलाया नामलक्षणगुणाः शोधनं च ।
मनःशिला मनोगुप्ता मनोह्वा नागजिह्विका ।
नेपाली कुनटी गोला शिला दिव्यौषधिः स्मृता ॥ १ ॥
तालकस्यैव भेदोऽस्ति मनोह्वा च तदन्तरम् ।
तालकं त्वतिपीतं स्याद्भवद्रक्ता मनःशिला ॥ २ ॥
मनःशिला त्रिधा प्रोक्ता श्यामाङ्गी करवीरिका ।
द्विखण्डाख्या च तासां तु लक्षणानि निबोधत ॥ ३ ॥
श्यामा हिङ्गुलवद्रक्ता किंचित्पीताऽतिदीप्तिका ।
करवीरा रक्तवर्णा चूर्णरूपाऽतिभारयुक् ॥ ४ ॥
किंचिद्रक्ता च गौरा च द्विखण्डा भारवत्तरा ।
त्रिविधासु च श्रेष्ठा स्यात्करवीरमनःशिला ॥ ५ ॥
अथ गुणाः—
मनःशिला गुरुर्वर्ण्या सरोष्णा लेखनी कटुः ।
तिक्ता स्निग्धा विषश्वासकासभूतकफास्रनुत् ॥ ६ ॥
अशुद्धमनःशिलागुणाः—
मनःशिला मन्दबलं करोति जन्तुं ध्रुवं शोधनमन्तरेण ।
मलस्य बन्धं किल मूत्ररोधं सशर्करं कृच्छ्रगदं च कुर्यात् ॥७॥
अथ मनःशिलाशोधनम्—
पचेत्त्र्यहमजामूत्रे दोलायन्त्रे मनःशिलाम् ।
भावयेत्सप्तधा पित्तैरजायाः शुद्धिमृच्छति ॥ ८ ॥
अथ मतान्तरम् ।—
जयन्तिकाद्रवे तैले दोलायन्त्रे मनःशिला ।
दिनमेकमजामूत्रे भृङ्गराजरसेऽपि च ॥ ९ ॥
मतान्तरम्—
अगस्त्यपत्रतोयेन भाविता सप्तवारकम् ।
शृङ्गवेररसैर्वापि विशुध्यति मनःशिला ॥ १० ॥