सामग्री पर जाएँ
सर्वकोश
आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

Ayurveda Prakasha of Madhava Upadhyaya with Commentary

माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा

DevanagariHindipublished232 पृष्ठ

पृष्ठ 124, कुल 232 में से

संदर्भ में पढ़ें
पृष्ठ 124

१०. ] आयुर्वेदप्रकाशः । १०५
नालं वा वाजिवालस्येत्येवं कङ्कुष्ठके भ्रमः ।
शुण्ठ्यम्बुभावितं शुद्धिं कङ्कुष्ठमुपगच्छति ॥ २३ ॥
अथ कङ्कुष्ठगुणाः ।—
कङ्कुष्ठं रेचनं तिक्तं कटूष्णं वर्णकारकम् ।
कृमिशोषोदराध्मानगुल्मानाहकफापहम् ॥ २४ ॥
अन्यच्च—
बब्बूलमूलिकाक्वाथजीरसौभाग्यटङ्कणम् ।
कङ्कुष्ठविपनाशाय भूयो भूयः पिबेन्नरः ॥ २५ ॥
अथ सौराष्ट्री ।
'सोरठीमाती' इति भाषा ॥
सौराष्ट्री तुवरी काङ्क्षी मृत्तालकसुराष्ट्रजे ।
आढकी सापि च ख्याता मृत्स्ना च सुरमृत्तिका ॥ २६ ॥
स्फटिकाया गुणाः सर्वे सौराष्ट्रयामपि कीर्तिताः ।
तस्मात्परस्पराभावे प्रयोज्याऽन्यतरा बुधैः ॥ २७ ॥
अथान्येऽप्युपरसाः सन्ति यथा—
अथ समुद्रफेननामगुणशोधनम् ।
अब्धिफेनोऽब्धिसारः स्यादब्धिजश्च समुद्रजः ।
समुद्रफेनश्चक्षुष्यो लेखनः शीतलः सरः ॥ २८ ॥
कर्णस्रावरुजागूत्थहरः पाचनदीपनः ।
अशुद्धः स करोत्यङ्गभङ्गं तस्माद्विशोधयेत् ।
समुद्रफेनः संपिष्टो निम्बुतोयेन शुध्यति ॥ २९ ॥
इति समुद्रफेनः ॥
अथ क्षुद्रशङ्खः ।
'क्षुद्रशंखः' 'घोंघा' इति भाषा । तन्नामगुणाः—
क्षुद्रशङ्खाः शङ्खनकाः शम्बूका जलशुक्तयः ।
शम्बूकः शीतलो नेत्ररुजास्फोटविनाशनः ॥ ३० ॥