आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 122, कुल 232 में से
संदर्भ में पढ़ें१०. ] आयुर्वेदप्रकाशः । १०३
पादोननिष्कमभारा च कनिष्ठा परिकीर्तिता ।
वराटाः काञ्जिके स्विन्ना यामाच्छुद्धिमवाप्नुयुः ॥ ६ ॥
इति शोधनम् ॥
अङ्गाराग्नौ स्थिता ध्माता सम्यक्प्रोत्फुल्लिता यदा ।
स्वाङ्गशीता मृता सा तु पिष्ट्वा सम्यक् प्रयोजयेत् ॥ ७ ॥
इति भस्म ॥
कपर्दिका हिमा नेत्रहिता स्फोटक्षयापहा ।
कर्णस्रावाग्निमान्द्यघ्नी पित्तास्रकफनाशिनी ॥ ८ ॥
अन्यत्र—
कटूष्णा दीपनी वृष्या तिक्ता वातकफापहा ।
परिणामादिशूलघ्नी ग्रहणीक्षयहारिणी ।
रसेन्द्रजारणे प्रोक्ता विडद्रव्येषु शस्यते ॥ ९ ॥
अथ सिकता ।
'वालु' इति भाषा ॥
वालुका सिकता प्रोक्ता शर्करा रेतिकाऽपि च ।
वालुका मधुरा शीता संतापश्रमनाशिनी ॥ १० ॥
स्वेदप्रयोगतश्चैव शाखाशैत्यानिलापहा ।
तद्वच्च लेखनी प्रोक्ता व्रणोरःक्षतनाशिनी ॥ ११ ॥
शर्कराभ्यश्चुम्बकेन केचिद्गृह्णन्त्ययोरजः ।
सुकरं त्विदमाख्यातं तच्च संशोध्य मारयेत् ॥ १२ ॥
इति सिकतालोहरजोग्रहणप्रकारः ॥
अथ बोलस्य नामलक्षणगुणाः ।
बोलगन्धरसप्राणपिण्डगोपरसाः समाः ।
बोलं तु त्रिविधं प्रोक्तं रक्तं श्यामं मनुष्यजम् ॥ १३ ॥
गुणाः—
बोलं रक्तहरं शीतं मेध्यं दीपनपाचनम् ।
मधुरं कटुकं तिक्तं ग्रहखेदत्रिदोषनुत् ॥ १४ ॥