आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 129, कुल 232 में से
संदर्भ में पढ़ें११० आयुर्वेदीयग्रन्थमाला । [ अध्यायः
कन्दर्पदर्पविध्वस्तचेतसो जातवेदसः ।
पतितं यद्धरापृष्ठे रेतस्तद्धेमतामगात् ॥ ७ ॥
कृत्रिमं चापि भवति तद्रसेन्द्रस्य वेधतः ।
मेरुसानुपतज्जम्बूफलाम्भोयोगतः परम् ॥ ८ ॥
दिव्यौषधिमणिसस्पर्शादन्यद्भवति काञ्चनम् ।
एवं नानाविधानीह जायन्ते काञ्चनानि वै ॥ ९ ॥
उक्तं च—
सुवर्णं पञ्चधा ख्यातं प्राकृतं सहजं परम् ।
वह्निजं खनिजं तद्वद्रसेन्द्रवेधसंभवम् ॥ १० ॥
ब्रह्माण्डं संवृतं येन प्रकृत्या प्राकृतं च तत् ।
ब्रह्मा येन सहोत्पन्नः सहजं हेम तत्स्मृतम् ॥ ११ ॥
वह्निजं तु समाख्यातमेतानि दुर्लभानि हि ।
मनु(१४)वर्णं लोकसिद्धं प्रायशः खनिजं हि यत् ॥ १२ ॥
तत्स्वर्णं मारणार्थं तु ग्राह्यं लक्षणलक्षितम् ।
वर्णमृत्तिकया लिप्त्वा मुनिशो ध्मापितं वसु ।
विशुध्यति वरं किंचिद्वर्णवृद्धिश्च जायते ॥ १३ ॥
यया कुम्भकाराः भाण्डानि रञ्जयित्वा पाचयन्ति सा
वर्णमृत्तिकेत्युच्यते, ‘कावीस’ इति भाषा । मतान्तरम्—
वल्मीकमृत्तिका धूमं गैरिकं चेष्टिका पडु ।
इत्येता मृत्तिकाः पञ्च जम्बीरैरारनालकैः ॥ १४ ॥
पिष्ट्वा कण्टकवेध्यानि स्वर्णपत्राणि लेपयेत् ।
पुटेत्पृथुहसन्त्यां तु निर्वात विंशदुत्पलैः ॥ १५ ॥
अधिकैर्वाऽधिके हेम्नि यावद्वर्णो विवर्धते ।
इत्येवं पुटनैर्युक्त्या सम्यक् शुध्यति काञ्चनम् ॥ १६ ॥
१ मुनिशः सप्तवारम् ।