सामग्री पर जाएँ
सर्वकोश
आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

Ayurveda Prakasha of Madhava Upadhyaya with Commentary

माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा

DevanagariHindipublished232 पृष्ठ

पृष्ठ 119, कुल 232 में से

संदर्भ में पढ़ें
पृष्ठ 119

१०० आयुर्वेदीयग्रन्थमाला । [अध्यायः
अथ कासीसम् ।
तत्तु भस्स्रवन्मृत्तिकाऽम्ला ।
कासीसं धातुकासीसं पांसुकासीसमित्यपि ।
तदेव किंचित्पीतं तु पुष्पकासीसमुच्यते ॥ ३१ ॥
कासीसद्वयमम्लोष्णं तिक्तं च तुवरं तथा ।
वातश्लेष्महरं केश्यं नेत्र्यं कण्डूविषप्रणुत् ॥ ३२ ॥
मूत्रकृच्छ्राश्मरीश्वित्रनाशनं परिकीर्तितम् ।
सकृद्भृङ्गाम्बुना स्विन्नं कासीसं निर्मलं भवेत् ॥ ३३ ॥
इति श्रीसौराष्ट्रदेशोद्भवसारस्वतकुलावतंसोपाध्यायश्रीमाधवविरचिते आयु-
र्वेदप्रकाशेऽष्टमोऽध्यायः ॥ ८ ॥
अथ नवमोऽध्यायः ।
अथ रसकः ।
'खपरिया' इति परिभाषा ॥
रसकं तुत्थभेदः स्यात्खर्परं चापि तत्स्मृतम् ।
ये गुणास्तुत्थके प्रोक्तास्ते गुणा रसके स्मृताः ॥ १ ॥
खर्परो द्विविधो ज्ञेयो दर्दुरः कारवेल्लकः ।
सदलो दर्दुरः प्रोक्तो निर्दलः कारवेल्लकः ॥ २ ॥
सत्त्वपाते दर्दुरः स्यादौषधे कारवेल्लकः ।
अथ गुणाः—
रसकः सर्वमेहघ्नः कफपित्तविनाशनः ॥ ३ ॥
नेत्ररोगक्षयघ्नश्च लोहपारदरञ्जनः ।
अथान्यत्रापि—
खर्परं कटुकं क्षारं कषायं वामकं लघु ॥ ४ ॥
लेखनं भेदनं शीतं चक्षुष्यं कफपित्तनुत् ।
विपाश्मकुष्ठकण्डूनां नाशनं परमं मतम् ॥ ५ ॥