अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)
Ashvavaidyaka of Jayadatta Suri with Commentary
जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा
३ अध्यायः ।] कायाविवरणम् । ५७
अनिष्टे१ चैव गन्धे च सर्व्वमेतदनिष्टकम् ।
तस्मात्२ सर्व्वप्रयत्नेन सुगन्धोऽश्वः प्रपूजितः ॥ १७८ ॥
संग्राह्यो न तु दुर्गन्धो नायकेन विजानता ।
यथाशास्त्रं३ समुद्दिष्टो गन्धस्तौरङ्गमो४ मया ॥ १७६ ॥
सत्त्वानि ।
अमेध्ये कईमे चैव वस्तमूत्रे५ विशेषतः ।
घृणा यस्यास्ति वाहस्य देवसत्वः६ प्रकीर्त्तितः ॥ १८० ॥
पिशाचसत्वो मन्तव्यो व्यत्ययेन तुरङ्गमः ।
“शुभगन्धः सदा विप्रः क्षत्रियो गुरुगन्धकः । घृतगन्धः सदा वैश्यो
मीनामोदीच शूद्रकः” इति ॥
१८० । सत्वं स्वभावधर्मः । स च कान्तप्रगल्भदीर्घग्रीवानतिक्रूरान-
तिमृदुलादिरूपः । देवसत्वस्य लक्षणमाह शुकः । “श्मश्रुहीनमुखः
कान्तः प्रगल्भोत्तुङ्गनासिकः । दीर्घोद्रुतग्रीवमुखः स्रस्तकुक्षिखुरश्रुतिः ।
तुरप्रचण्डवेगश्च हंसमेघसमस्वनः । नातिक्रूरो नातिमृदु देवसत्वो
मनोरमः” इति ॥
१ । अनिष्टश्चैव गन्धे तु सर्व्वमेतत् प्रतीपकौ। कः । ४।सौरभदेहजः। खः।
२। तस्य स्यात् स प्रयत्नेन सुगन्धोऽश्वस्य पूजितः। गः। ५। वत्समूत्रे । खः ।
३ । यथाशास्त्रोदितः । खः । ६ । देवसत्वः । खः ।
8
५० अश्ववैद्यके [३ अध्यायः।
दैवसत्वः शुभो भर्तुः पैशाचश्चाशुभः स्मृतः ॥ १८१ ॥
प्रमाणम्।
सार्द्धं १ यवत्रयं प्रोक्तमङ्गुलस्य तपोधनैः ।
प्रमाणं शालिहोत्राद्यै र्वाजिशास्त्रविशारदैः ॥ १८२ ॥
हस्तोऽङ्गुलानां विंशत्या चतुरुत्तरया स्मृतः ।
चतुर्हस्तैस्तु विख्यातः शास्त्रोक्तैरुत्तमो हयः ॥ १८३ ॥
अर्द्धहस्तेन हीनस्तु भवेन्मध्यस्तुरङ्गमः ।
मुष्टिशून्येन हस्तेन हीनश्चाप्यधमः स्मृतः ॥ १८४ ॥
१८१ । व्यत्ययेन देवसत्वगुणवैपरीत्येन कईमादौ घृणाराहित्य-
रूपेणेत्यर्थः । देवसत्व इत्यादिपाठः पुस्तकान्तरे नास्ति ॥
१८२ । शुक्रस्तु वाजिमाने पञ्चयवात्मकमङ्गुलमाह—"पञ्च-
यवाङ्गुलेनैव वाजिमानं पृथक् स्मृतम्” इति । सार्द्धमित्यादि मध्य-
स्तुरङ्गम इत्यन्तः पाठः क-पुस्तके नास्ति ॥
१८३ । एतन्मते चतुर्विंशत्यङ्गुलपरिमितहस्तस्य हस्तचतुष्टयमौ-
न्नत्यं । शुक्राचार्य्यमते तु औन्नत्यु मुखमानेन द्विगुणमित्युक्तदिशा
द्विगुणचत्वारिंशाङ्गुलं विंशत्यधिकशताङ्गुलं वा भवति । नकुलमते तु
अशीत्यङ्गुलं औन्नत्यं भवति । यथोक्तम्- “अशीत्यङ्गुल उत्सेधः” इति ॥
१८४ । सार्द्धत्रिहस्तपरिमितोमध्यम इति चतुरशीत्यङ्गुलो
भवति । शुक्राचार्य्यमते तु पञ्चयवाङ्गुलपरिमाणस्य षण्णवत्यङ्गुलयः॥
१ । ऊर्द्धम् ।
३ अध्यायः ।] प्रमाणविवरणम् । ५९
ऊर्द्धमानप्रमाणन्तु परिणाहं विनिर्दिशेत् ।
उत्तमानां च मध्यमानां हीनानाञ्चैव वाजिनाम् ॥ १८५
अर्द्धसप्तमहस्तन्तु श्रेष्ठं दैर्घ्येण निर्द्दिशेत् ।
षड्भिर्मुष्टिविहीनैश्च मध्यमञ्च विचक्षणः ॥ १८६ ॥
पञ्चहस्तप्रमाणस्तु' जघन्यः समुदाहृतः ।
द्वात्रिंशदङ्गुलं वक्त्रमुत्तमाश्वस्य कीर्त्तितम् ॥ १८७ ॥
अधमस्य परिमाणं मुष्टिशून्येन हस्तेन हीनः त्रिहस्तः । शुक्राचार्यमते
तु चतुरशीत्यङ्गुलोन्नतोऽधम इति ।
१८५ । परिणाहो विस्तारः । स च सर्वेषामेव वाजिनां खखो-
च्छ्रयेन समानः । उदरपरिणाहन्तु शुकः त्र्यङ्गुलाधिकं त्रिगुणं मुख-
परिमाणादाह । "परिणाहस्त्वदरस्य त्रिगुणस्त्र्यङ्गुलाधिकः” इति ॥
उत्तमानामित्यादि—निर्द्दिशेदित्यन्तः पाठः क—पुस्तके नास्ति ।
मध्यमानां स्थाने मध्यानामिति पाठो युक्तः ।
१८६ । एतन्मते सार्द्धत्रियवाङ्गुलस्य चतुस्त्रिंशदङ्गुलहस्तपरि-
माणस्य सार्द्धषड्हस्तमुत्तमस्य दैर्घ्यम् । शुक्रमते तु पञ्चयवपरिमिता-
ङ्गुलस्य द्वात्रिंशाधिकशताङ्गुलम् । “शिरोमणिं समारभ्य पुच्छमूलान्त-
मेवहि । तृतीयांशाधिकं दैर्घ्यं मुखमानाच्चतुर्गुणम्” इति । दीर्घश्च
द्व्यधिकं शतमिति च । अस्य श्लोकस्य प्रथमपादद्वयं ग-पुस्तके नास्ति ॥
१८७ । उत्तमाश्वमुखमानं द्वात्रिंशदङ्गुलम् । शुक्रमते तु
चत्वारिंशाङ्गुलम् । तदुक्तम् “चत्वारिंशाङ्गुलमुखो वाजी यस्योत्त-
१ । पञ्चहस्तप्रमाणन्तु । खः ।
८० अश्ववैद्यके [३ अध्यायः ।
पृष्ठं वक्षः कटिश्चैव मुखतुल्यं समादिशेत् ।
अङ्गुलद्वयहीनन्तु मुखादि मध्यमाधमम् ॥ १८८ ॥
निर्द्दिशेन्मतिमांश्चैव¹ वाजिशास्त्रविशारदः ।
सप्ताङ्गुलं खुरञ्चैव उत्तमाश्वस्य कीर्त्तितम् ॥ १८६ ॥
षडङ्गुलो भवेन्मध्यो जघन्यश्चतुरङ्गुलः ।
मोत्तमः । सप्तविंशप्रमाणेन मुखमश्वस्य शस्यते” इति । नकुलमते च
सप्तविंशत्यङ्गुलम् ॥
१८८ । पृष्ठवक्षःकटिमानन्तु द्वात्रिंशदङ्गुलमित्यर्थः । शुक्रमते
तु “वाजिनां मुखमानेन सर्व्वावयवकल्पना” इति वचनात् पृष्ठादीनां
मानमपि चत्वारिंशदङ्गुलं ज्ञेयम् । नकुलमते च पृष्ठं चतुर्विंशाङ्गुलं
वक्षः षोडशाङ्गुलं कटिश्च सप्तविंशाङ्गुलेति । तदुक्तं “पृष्ठवंशः चतुर्विंशः
सप्तविंशा तथा कटी । हृदयं षोडशाङ्गुल”मिति । अङ्गुलद्वयहीनमिति
मध्यमस्य त्रिंशदङ्गुलम् । अधमस्य च अष्टाविंशाङ्गुला मुखाद्यवयवा
इत्यर्थः । अत्र शुक्रः । “द्वात्रिंशदङ्गुलमुखो मध्यमः स उदाहृतः ।
अष्टाविंशदङ्गुलो यो मुखे नीचः प्रकीर्त्तितः” इति ॥
१८६ । नकुलमते खुरपरिमाणं चतुरङ्गुलम् । तदुक्तं-“खुराश्च
चतुरङ्गुलाः” इति ।
१९० । मध्यजघनादिपरिमाणं नकुलस्य मते चतुश्चतुरङ्गुलम् ।
कर्णताल्वादिपरिमाणमाह नकुलः-“कर्णौ षडङ्गुलौ प्रोक्तौ तालुकं
१ । मतिमान् वैद्यः । खः । २ । चोत्तमे हये । खः ।
३ अध्यायः ।] प्रमाणविवरणम्। ४१
षोड़शाङ्गुलदीर्घा तु जंघा चैवोत्तमा स्मृता ॥ १६० ॥
चतुर्द्दश तथा मध्ये हीने¹ च द्वादशाङ्गुलः ।
एवंविधप्रमाणन्तु निर्दिष्टं शास्त्रशालिभिः ॥ १६१ ॥
अपाङ्गात् पुच्छमूलन्तु दैर्घ्येणाश्वं प्रमाणयेत् ।
खुरान्तात् ककुदं यावदूर्द्धमानेन बुद्धिमान् ॥ १६२ ॥
वक्षोभागे तु संवेष्ट्य रज्ज्वा वा सूत्रकेण वा ।
परिणाहं तुरङ्गस्य मापयेन्मतिमान् भिषक् ॥ १६३ ॥
एवं प्रमाणभागेन विभक्ताङ्गः शुभः स्मृतः ।
अतो हीनाधिकाङ्गाश्च हरयो नैव पूजिताः ॥ १६४ ॥
इति श्रीजयदत्तकृतेऽश्वशास्त्रे सर्व्वलक्षणो
तृतीयोऽध्यायः ।
चतुरङ्गुलम् । चत्वारिंशच्च सप्ताख्याः स्कन्धाः सम्यक् प्रकीर्त्तिताः ।
अतिसूक्ष्मं तथास्निग्धं पुच्छं हस्तद्वयायतम् । लिङ्गं हस्तप्रमाणञ्च
तथाण्डौ चतुरङ्गुलौ । मार्गस्थानं चतुर्विंशं । कटिकञ्चान्तरं प्रोक्तं
चत्वारिंशत् प्रमाणतः । मणिबन्धद्वयञ्चैव खुराश्च चतुरङ्गुलाः” इति ॥
१६२—१६३ । दैर्घ्योनत्यपरिणाहमानोपायमाह अपाङ्गादिति ।
१। मध्या हीना। कः।
अथ चतुर्थोऽध्यायः ।
आयुः ।
आयुर्लक्षणमश्वानामत ऊर्ध्वं प्रचक्षते¹।
शालिहोत्रादिनिर्दिष्टं² यथापूर्वं तपोधनैः ॥ १ ॥
सुसंहितास्तु³ ये वाहा ह्रस्वकर्णास्तथैव च ।
स्वरनेत्रस्वभावेषु न दीनाश्चिरजीविनः ॥ २ ॥
महाघोणा महाकाया ये चाश्वाः पृथुवक्षसः ।
तेषां दीर्घं भवेदायुः स्निग्धाङ्गा⁴ ये च सर्वदा ॥ ३ ॥
कर्णाग्रे पीडिते येषां सिन्दूराभस्य दर्शनम् ।
शोणितस्य भवेत् क्षिप्रं ते मताश्चिरजीविनः ॥ ४ ॥
न विष्किरन्ति ये वालं खग्रासाय तुरङ्गमाः ।
न वा जिघ्रन्ति ये चापि तेऽपि दीर्घायुषो मताः ॥ ५ ॥
१ । सुसंहिताः सुघठितकलेवरा इत्यर्थः ।
१ । प्रवक्ष्यते । कः । ३ । सुसंहताः । खः ।
२ । शालिहोत्रादिभिर्दिष्टं । खः । ४ । स्निग्धाङ्गाश्चैव ये सदा । खः ।
४ अध्यायः ।] आयुर्विंवरखम् । ६१
कुष्ठिकानां किणा येषां दृश्यन्ते वाजिनां स्फुटाः ।
प्रतिस्रोतः पिवन्त्यम्भो ये च ते दीर्घजीविनः ॥ ६ ॥
पद्मपचदलाकारं जिह्वाग्रं यदि वाजिनाम् ।
दन्ताश्च मौक्तिकाकारा लिङ्गं येषाञ्च निर्म्मलम् ॥ ७ ॥
शीत्कारश्च भवेद् येषां१ लाङ्गूलं क्षिपतां पुनः२ ।
प्रस्वेदः शुभगन्धस्तु नखा३ वै दर्पणोपमाः ॥ ८ ॥
येषाञ्च हृद्रोमाणि ते सर्वे चिरजीविनः ।
स्निग्धगम्भीरदीर्घाश्च प्रोथजा यस्य वाजिनः ।
भवन्ति विपुला रेखास्तं विद्याद्दीर्घजीवितम् ॥ ६ ॥
स्रुवचामरमृङ्गारखड्गशंखाब्जसन्निभाः ।
शुक्तिवज्रदलाकारा ध्वजभद्रासनोपमाः४ ॥
श्रीवृक्षस्वस्तिकाभासाः प्रोथरेखा५श्चिरायुषाम् ॥ १० ॥
ऊर्द्धं प्रोथे सिता रेखा यस्य वामेन चोन्नता६ ।
ह्रस्वा वा यस्य वाहस्य न चिरं तस्य जीवितम् ॥ ११ ॥
ऊर्द्धं प्रोथे७ समा रेखा दृश्यन्ते यदि८ वाजिनः ।
तस्य मृत्युः समुद्दिष्टो दशमं प्राप्य वत्सरम् ॥ १२ ॥
१ । वाचि । कः । ५ । प्रोथोत्थिता । खः ।
२ । लाङ्गूलं चालनं पुनः । गः । ६ । चोन्नताः ।
३ । नखाश्च । गः । ७ । प्रोथ । खः ।
४ । पद्मासनोपमाः । खः । ८ । यस्य । खः ।
say:
"अत्र बह्वाहारस्याल्पमूत्रपुरीषस्य शीघ्रविनाशित्वं नकुल आह ।"
Because Nakula mentions "अल्पमूत्रपुरीषस्य"!
Wait, does the image say "बहुमूत्राल्पमूत्रश्च" or "बहुमूत्रोऽल्पमूत्रश्च"?
Look at the character:
ब - हु - मू - त्रा - ल्प - मू - त्र - श्च
Yes, it is:
बहुमूत्राल्पमूत्रश्च
Wait, look at 'त्रा': it has a 'त्र' with an 'ा' (ā-kāra)!
Wait, or is it 'चा'? No, it's 'त्रा' (or 'त्रो' where the top stroke didn't print clearly, but 'ा' is clear: बहुमूत्राल्पमूत्रश्च).
Let's check every single line carefully now!
Line 1:
Page number: ५४? Wait!
Look at the page number at the top left:
Is it ५४ or ४९?
Let's look at the digits:
First digit: ४ (4) or ५ (5)?
It has a loop: ४ is like a loop with an open top or cross.
Wait, in Devanagari:
४ is 4.
५ is 5.
९ is 9.
Look at the digit on the left:
It is ४ or ५?
Wait, the first digit is '५'? No, it has a tail going left and a
४ अध्यायः ।] वयोविवरणम् । ६५
जातदन्तद्वयं बाल्ये पतत्यब्दे तृतीयके ।
चतुरो दशनान् विन्द्याच्चतुर्थे पतितात्थितान् ॥ १८ ॥
पञ्चमे पतिताञ्छूतान् षड्वदन्ति¹ मनीषिणः ।
षष्ठाष्टासु च सर्व्वेषु² कालिकादिसमुद्भवः ॥ १९ ॥
कालिका हरिणी शुक्ला³ काचा चैव समाक्षिका ।
शङ्खश्चैव क्रमेणाश्ववयसः परिसूचिका ॥ २० ॥
१८ । बाल्ये पञ्चवर्षात्मककाले । तस्य पञ्चवर्षात्मकत्वे शुकः, —
“बाल्यमश्ववृषोष्ट्राणां पञ्चसंवत्सरं मतं । मध्यं यावत् षोडशाब्दं
वार्द्धकन्तु ततःपरम्” इति । अतएव वाजिनां बाल्यं पञ्चवर्षपर्य्यन्त-
कालः । षष्ठादाषोडशाब्दं यौवनम् । अत ऊर्द्धं वार्द्धक्यम् ।
जातदन्तद्वयम् इति जातेषु दन्तेषु षट्सु मध्ये द्वयं । “अश्वस्य षट्
सिता दन्ताः प्रथमाब्दे भवन्ति हि । कृष्णलोहितवर्णास्तु द्वितीयेऽब्दे
ह्यधोगताः” इति शुकः । पतितात्थितान् आदौ पतितान् पश्चाद्
उत्थितान् द्वितीयवारप्ररूढानित्यर्थः ॥
१९ । षष्ठाष्टास्विति । षष्ठाद् वर्षाद् अष्टासु षष्ठसप्तमाष्टमेषु ।
सर्व्वेषु दन्तेषु ॥
२० । यदुक्तं कालिकादिसमुद्भव इति तदेव विवृणोति कालि-
केति ॥
१ । दन्तांच । गः । २ । वर्षेषु । खः । ३ । मुक्ता । गः ।
9
६६ अश्ववैद्यके [४ अध्यायः।
वक्रा तु१ कालिका रेखा कृष्णा दन्ताग्रसंस्थिता ।
षष्ठे च सप्तमे वर्षे चाष्टमे च भवेत् क्रमात् ॥ २१ ॥
सा पीता हरिणी ज्ञेया कालिकास्थानमाश्रिता ।
नवमे दशमे वर्षे भवेदेकादशे तथा ॥ २२ ॥
कृष्णा चैव भवेच्छुक्ला दन्तमूर्ध्नि समुद्भवा ।
द्वादशाब्दं२ समारभ्य भवेद् यावच्चतुर्दश ॥ २३ ॥
सिता सिद्धार्थकाकारा काचेति परिकीर्त्तिता ।
पञ्चदशाब्दमारभ्य यावच्च्छप्तदशादितः४ ॥ २४ ॥
माक्षिका माक्षिकाकारा५ भवेदष्टादशादिषु६ ।
२१ । कालिकारेखायाः स्थानाकारावाह । वक्रेति । कालिकायाः
कालनिर्वाचनन्तु अत्र विशेषेण करोति षष्ठ इति ॥
२२ । हरिणीप्रभृतिरेखाणां स्थानकाललक्षणाण्याह । आपीते-
त्यादि-पञ्चभिः श्लोकैः ॥
२४ । अत्र शुक्रस्तु पञ्चदशाब्दादाह "दशपञ्चाब्दतस्तौ तु काचाभौ
क्रमशः स्मृतौ" इति ॥
२५ । शुक्लोऽपि माक्षिकायामष्टादशाद्याह,—"अष्टादशाब्दतस्तौ
हि मध्वाभौ भवतः क्रमात्" इति ॥
१ । वक्रान्ते । ग० । ४ । सप्तदशाधिका । ग० ।
२ । द्वादशाब्दात् । ख० । ५ । मक्षिक्राकारा । ख० ।
३ । मासवेदा । ग० । ६ । अष्टदशाधिका । ग० ।
An exact, line-by-line transcription of the Sanskrit text from the image into clean Markdown:
४ अध्यायः ।] वयोविवरणम् । ५७
विंशत्यन्तेषु सर्वेषु वाजिनां दशनोद्भवः¹ ॥ २५ ॥
त्रयोविंशावसानेषु एकविंशादिषु त्रिषु ।
शङ्खरूपा² भवेच्छ्लङ्गा पूर्वोक्त³स्थानमाश्रिता ॥ २६ ॥
छिद्रञ्च चलनं चैव तथा पातश्च यः स्मृतः ।
नवाब्दतः क्रमाद्विद्याद्व्यञ्जनं तुरगात्⁴ स्मृतम् ॥ २७ ॥
अतिवद्धाः कषायाश्च तनवाश्चैव ये द्विजाः⁵ ।
ते भवन्ति द्विवर्षस्य शुक्लाश्चैवाब्दजन्मनः⁶ ॥ २८ ॥
अखल्लशिरसः⁷ श्लक्ष्णा भवन्त्यपतितेत्थिताः ।
२६ । शङ्खाभे शुक्लोऽपि एवमाह यथा,—"शङ्खाभौ चैकविं-
शाब्दाच्चतुर्विंशाब्दतः सदा" इति ॥
२७ । “छिद्रं सञ्चलनं पातो दन्तानाञ्च त्रिके त्रिके” इति
[
१८ अश्ववैद्यके [४ अध्यायः ।
खल्लाग्रा विपुला दन्ता भवन्ति पतितात्थिताः ॥ २९ ॥
खल्लभागे विनापूर्णे१ व्यञ्जनानां न सम्भवः२।
पूर्णेषु खल्लभागेषु जायन्ते कालिकादयः ॥ ३० ॥
निम्नं कृष्णञ्च दन्ताग्रं खल्लमित्यभिधीयते ।
पूर्णतां तस्य जानीयात् षष्ठात्३ प्रभृति वत्सरात् ॥ ३१॥
खल्लेषु४ कालिकाभावा नाच कार्य्या विजानता ।
नियता कालिका रेखा सुपूर्णे दन्तमस्तके ॥ ३२ ॥
द्वयोर्भवति षष्ठेऽब्दे चतुर्णां सप्तमे तथा ।
षण्णामष्टासु५ वर्षेषु दन्तानां कालिकाक्रमः६ ॥ ३३ ॥
कालिकानुक्रमेणैव हरिण्यादिषु बुद्धिमान् ।
द्वौ द्वौ वर्षेण जानीयाद्वाजिनां व्यञ्जनं प्रति ॥ ३४ ॥
इति श्रीमहासामन्तजयदत्तकृतेऽश्वशास्त्रे आयु-
र्वयोज्ञाने चतुर्थोऽध्यायः ।
———•०:०•———
मेव लक्षणं परतः कृतम् । अखल्लं निम्नकृष्णत्वरहितं शिरो येषान्ते
तथोक्ताः ॥
──────────────────────────────────────────
१ । विनादूर्द्धं । गः । ४ । यान्तिनैव । खः ।
२ । समुद्भवाः । कः । ५ । खल्लमष्टासु । खः ।
३ । षष्ठप्रभृतिवत्सरः । खः । ६ । क्रमात् । खः ।
[ ६६ ]
अथ पञ्चमोऽध्यायः ।
दशाक्षेत्रविवरणम् ।
दशादशकमश्वानां जीवितं परिकीर्त्तितम् ।
प्रवरं वाजिनामेतद् ब्रह्मणा सृजता प्रजाः ॥ १ ॥
वासराः सप्ततिद्वैं च वर्षाणाञ्च तथा त्रयम् ।
दशाप्रमाणं वाहानां शालिहोत्रेण कीर्त्तितम् ॥ २ ॥
प्रथमे प्रथमा चैवं द्वितीया च द्वितीयके ।
दशा एवं क्रमेणैव भवेत् क्षेत्रफलप्रदा ॥ ३ ॥
अपानादौ ललाटे तु प्रथमं क्षेत्रमुच्यते ।
ललाटान्मस्तकं यावद् द्वितीयं समुदाहृतम् ॥ ४ ॥
ग्रीवास्कन्धावधिच्छिन्नं तृतीयं परिकीर्त्तितम् ।
उरोजन्तु तथांशे च ककुदं काकसं तथा ॥ ५ ॥
चतुर्थं विहितं क्षेत्रं पञ्चमं चांसकं भवेत् ।
कटिं वदन्ति षष्ठञ्च सप्तमं स्फिगुदाहृतम् ॥ ६ ॥
स्थूरकौ चाष्टमं क्षेत्रं जंघा च नवमं स्मृतम् ।
कूर्चसन्धिः खुरं चैव दशमं परिकीर्त्तितम् ॥ ७ ॥
एवं बुद्ध्वा भिषक् प्राज्ञः सहशं फलमादिशेत् ।
क्षेत्रसाम्ये दशायास्तु वयोज्ञानपरायणः ॥ ८ ॥
ककुदावर्त्तिनेऽश्वस्य तथा शृङ्गान्वितस्य च ।
सर्वकालं फलं दुष्टं दशा तत्र निरर्थका ॥ ९ ॥
इति श्रीमन्महासामन्तजयदत्तकृतेऽश्वशास्त्रे दशा-
क्षेत्रीये पञ्चमोऽध्यायः ।
[ ५० ]
अथ षष्ठोऽध्यायः ।
जन्मदेशः ।
अश्वानां जन्मदेशांस्तु प्रवक्ष्याम्यनुपूर्व्वशः ।
उत्तमानाञ्च मध्यानां हीनानां यच¹ सम्भवः ॥ १ ॥
उत्तमास्ताजिकाः प्रोक्तास्तथा पारसिकाश्च ये ।
केक्काणाश्चैव ये वाहाः पृष्ठजा ये च कीर्त्तिताः ॥ २ ॥
तुरौ² जाताश्च कीराश्च भूरुष्ठा भाण्डजाश्च ये ।
पार्व्वताः सैन्धवा मध्यास्तथा सारस्वता हयाः ॥ ३ ॥
१ । अश्वानां जन्मदेशभेदेन उत्तमत्वादिभेदोऽपि नकुलेन
प्रदर्शितः,—“उत्तमा मध्यमा नीचाः कनीयांसस्तथापरे । चतुर्धा
वाजिनो भूमौ जायन्ते देशसंश्रयादिति”—अत्र हेमचन्द्रः । “आजा-
नेयः कुलीनः स्यात् तत्तद्देशास्तु सैन्धवाः । वनायुजाः पारसीकाः
काम्बोजा वाह्लिकादयः” इति स स देशोऽश्वानां जन्मभूमिरिति ॥
२ । नकुलस्तु ताजिकखरश्राणोत्तराणामुत्तमाश्वत्वमाह । “ता-
जिकाः खरश्राणाश्च उत्तराश्चोत्तमा हयाः”—इति । तथा गो-
जिकाणकेकाणयोर्मध्यमाश्वत्वमाह यथा “गोजिकाणाश्च केकाणाः
प्रौढाहाराश्च मध्यमाः” इति ॥
३ । “नकुलस्तु मध्यमाश्वं षड्विधमाह-तद्यथा “गोजिकाणाश्च
केकाणाः प्रौढाहाराश्च मध्यमाः । भाण्डजाश्चोत्तमांगाश्च राजशू-
लाश्च मध्यमाः”—इति ॥ तुरौ तुरुष्कदेशे ॥
१ । हीनानाञ्चैव सम्मतः । खः ।
२ । काश्मीरदेशजाताश्च सैन्धवा मध्यमाः स्मृताः । कः । उरौ । खः ।
६ अध्यायः ।] जन्मदेशविवरणम् । ७१
सम्भलाश्वाः कृशाश्चैव¹ जटदेशोद्भवाश्च² ये ।
अधमाष्टङ्गणैः सार्द्धं द्वये³ प्राग्दक्षिणोद्भवाः ॥ ४ ॥
वृत्तदीर्घाञ्चितग्रीवा⁴ ह्रस्वकर्णा महाजवाः ।
महाकाया महोरस्का निस्त्रासास्ताजिका मताः ॥ ५ ॥
अत्यन्तविनतं येषां निर्मांसञ्च मुखं भवेत् ।
पीनेन कटिदेशेन मुखराश्च भवन्ति ते ॥ ६ ॥
अध्वन्याश्च⁵ महासाराः संग्रामे चैव पूजिताः ।
अपि शस्त्रहताङ्गाश्च नैव मुञ्चन्ति सादिनम् ॥ ७ ॥
पारसीकास्ताजिकाभा⁶ कोङ्काणाः केचिदुन्नताः⁷ ।
स्थूलाः श्लक्ष्णशरीराश्च⁸ प्रधाना दीर्घपृष्ठकाः ॥ ८ ॥
४ । सम्भलाः सम्भलदेशजाताः । प्राग्दक्षिणोद्भवाः—इति पूर्व-
दक्षिणदेशजाता अश्वा अधमाः । नकुलेनतु गोङ्करादीनामधम-
त्वमुक्तम् । यथा “गोङ्कराः सवरासाश्च सिन्धुपाराः कनीयसः । अन्य-
देशोद्भवा ये च नीचनीचाश्च ते स्मृताः” इति ॥
५ । महाजवा महावेगवन्तः । निस्त्रासा निर्भयाः ॥
८ । श्लक्ष्णशरीराः कृशकायाः । श्लक्ष्णं दभ्रं कृशं तन्वित्यमरः ॥
१ । कुशाः । खः । ६ । स्युरधिकाः । खः ।
२ । जटादेशोद्भवाः । खः । ७ । किंचिदूनकाः । खः ।
३ । अधमानां गणाः । गः। ८ । स्थूलशरीराश्च । खः ।
४ । वृत्तदीर्घोन्नतग्रीवाः । गः ।
५ । अजात्याश्च महाशूराः, संग्रामे नैव पूजिताः । गः।
७२ अश्ववैद्यके [६ अध्यायः।
केकणदेशजातानां मध्यमानाञ्च वाजिनाम् ।
ताजिकैः सदृशं वक्त्रं बाहुल्येन विनिर्दिशेत् ॥ ९ ॥
सुवृत्तदेहस्तीक्ष्णाश्च सप्रमाणेन मध्यमः ।
उरुजातः १ समुद्दिष्टः किञ्चित् स्थूलो मनाग्जवः २ ॥ १० ॥
अतिस्थूलोऽतितीक्ष्णाश्च ३ ह्रस्वग्रीवस्तुरस्तथा ।
तुरुष्कः कीर्त्तितो वाजी स्थूलवक्र४मुखश्च यः ॥ ११ ॥
केकनाकारदेहस्तु ५ भवेन्माण्डविको हयः ।
शान्त्याचैव ६ प्रमाणेन केवलं नैव तत्समः ॥ १२ ॥
सिन्धुदेशोद्भवो वाजी पृष्ठन्यस्यानुकोरकः ७ ।
आननञ्चापि दीर्घञ्च तस्य पृष्ठं प्रकीर्त्तितम् ८ ॥ १३ ॥
९ । केकणः कोङ्कणस्य तुल्य एव ॥
१० । मनाग्जव इत्यपेक्षया मनोजव इति पाठः साधीयान्
मध्यमस्य मनाग्जवत्वस्यासङ्गतत्वात् ॥
१ । अत्युन्नतः । गः ।
२ । कीरस्थूलो मनोजवः । गः ।
३ । सूक्ष्माक्ष ह्रस्वग्रीवस्तनुस्तथा । गः ।
४ । जंघ । गः ।
५ । केकाणकाहस्तु भवेन्माठविको हय । गः।
६ । शक्त्या नैव । गः ।
७ । प्रधानस्यानुकारकः । गः ।
८ । समादिशेत् । गः ।
[Header]
६ अध्यायः ।] जन्मदेशविवरणम् । ७३
शक्त्या¹ चैव जवेनापि रणशूरस्त्वजाघनः² ।
सादिभक्त्येच्छतो याति³ ताजिकादधिकस्तथा ॥ १४ ॥
परिमण्डलदेहास्तु तीक्ष्णकर्णमुखा हयाः ।
पङ्कदेशोद्भवा⁴ दृष्टास्तथा सारस्वताश्च ये ॥ १५ ॥
लम्बकर्णोऽजटश्चैव⁵ अकुलः परिकीर्त्तितः ।
साम्भलः श्लिष्टजानुश्च जटालश्चाकुलोपमः ॥ १६ ॥
वर्त्तुलश्चापि ह्रस्वश्च टङ्गणः परिकीर्त्तितः ।
दाक्षिणात्यो भवेद्गुष्ठो योऽधन्यः⁶ सर्व्ववाजिनाम्॥ १७॥
जवहीना महादुष्टाः पूर्व्वदेशसमुद्भवाः ।
वाजिवदेशराणाञ्च देशं विन्द्याद्विचक्षणः ॥ १८ ॥
इति श्रीमहासामन्तजयदत्तकृतेऽश्वशास्त्रे जन्म-
देशे षष्ठोऽध्यायः ॥
१० । टङ्गणः टाङ्गण इति यस्य भाषा ॥
१ । श्रान्त्या । खः । ४ । टक्क । गः ।
२ । रणशूरस्तयाध्वनः । गः । ५ । लम्बकर्णोजटस्खव । गः ।
३ । जितेऽङ्गेऽपि । गः । ६ । जघन्यः । गः ।
10
[ ७४ ]
अथ सप्तमोऽध्यायः ॥
वाहनविधाने
विप्रादितद्वाहनविवरणम् ।
ब्रह्मणाैव यथोद्दिष्टो वाहानां वाहने¹ विधिः ।
सारन्तस्य समुद्धृत्य सर्व्वं तत्कथयाम्यहम् ॥ १ ॥
तुरङ्गवाहकस्यापि दोषस्य च गुणस्य च ।
विशेषन्तु विधानेन तत्सर्व्वं कथयाम्यहम् ॥ २ ॥
१ । अश्वानां दोषगुणविषये नकुलेनैवमुक्तम् । तुरङ्गवाहकस्या-
पीति अपि शब्देन तुरङ्गस्यापि । दोषगुणौ वाहनादिभिश्चासम्भवा-
विति ज्ञेयौ ॥ दोषस्येति अनेन स्थूलत्वमूर्खत्वक्रोधित्वादिकं तथा-
ऽस्थानदण्डपातिलादिकं बोद्धव्यम् ॥ गुणस्य चेत्यनेन समनन्तरमेव
वक्ष्यमाणं हयहृदयाभिज्ञत्वादिकं बोद्धव्यम् ॥ सत्वेन इति सत्वं नाम
अश्वानां नैसर्गिकं तेजो दर्पो वा त्रिविध
७ अध्यायः ।] विप्रादिविवरणम् । ७५
सत्त्वेन¹ ज्ञायते जाती रूपेण तु च वाहयेत् ।
सामप्रधानं² दण्डञ्च विविधं विनियोजयेत् ॥ ३॥
चासी लुब्धो दयालुश्च³ विप्रः स परिकीर्त्तितः ।
शूरश्च⁴ दृढ़मन्युश्च क्षत्रियस्तुरगः स्मृतः ॥ ४॥
पापिनः कल्वषा रूक्षा⁵ दुष्टा वैश्याः प्रकीर्त्तिताः ।
विरूपा विषमाश्चैव शूद्राश्चण्डा उदाहृताः ॥ ५ ॥
३ । अश्वानां क्षत्रियादिचतुर्ब्बिधजातीनामुत्पत्तिमाह नकुलः,—
“वाजिनो जलजाः केचिदग्निजातास्तथापरे । समीरप्रभवान्यान्ये उलूक
मृगजास्तथा ॥ जलोद्भवा द्विजातीयाः क्षत्रिया वह्निसम्भवाः । समीर-
प्रभवा वैश्या एणोलूकाश्च शूद्रकाः”—इति । अपिच,—“विवेकी
सद्गुणोविप्रः तेजस्वी क्षत्रियो बली । दुष्टभावस्तथा वैश्यः शूद्रो निः-
सत्वकारकः”—इति । एषां त्रिविधदण्डमप्याह नकुलः,—“ब्राह्मणः
सामवाही च भेदवाही च क्षत्रियः । उपादानेन वैश्यः स्यात् शूद्रो
दण्डेन ताड़ितः”—इति ॥ विविधं दण्डमिति उत्तममध्यमाधमत्वेन
त्रिरूपं दण्डमित्यर्थः ॥
४-५ । क्षत्रियादीनां लक्षणमाह चासीत्यादिना श्लोकद्वयेन ।
पापिनोऽमङ्गलाः । विरूपाः कुत्सितरूपाः । विषमा विसदृशाङ्गा
अङ्गसौष्ठवरहिता इत्यर्थः ॥
१ । साम्येन ज्ञायते जातिः जातिरूपेण वाहयेत् । खः ।
२ । समप्रदानदण्डैश्च विविधं । गः ।
३ । रसालुब्धः सुधालुश्च । गः ।
४ । शूराश्चैव दृढ़ा मान्याः । गः । ५ । कल्यकपाश्च । खः ।
७६ अश्ववैद्यके [७ अध्यायः ।
ब्राह्मणान् शक्तिदानेन¹ साम्ना चैव तु क्षत्रियान् ।
वैश्यं दण्डेन शब्देन शूद्रं दण्डेन वाहयेत् ॥ ६ ॥
प्रत्यूषे वाहयेद्विप्रं क्षत्रियं प्रहरे गते ।
वैश्यं सन्ध्यागते काले शूद्रं रात्रौ च वाहयेत् ॥ ७ ॥
सत्वशक्तिवाहनविवरणम् ।
सत्वञ्च त्रिविधं प्रोक्तमुत्तमाधममध्यमम्² ।
उत्तमञ्चोपशामेन³ साम्ना दण्डेन मध्यमम् ॥ ८ ॥
शब्दाङ्गेन च दण्डेन वाहयेदधमं बुधः⁴ ।
सहजे निर्मले वाहे तैलदुग्धस्य रूपवान्⁵ ॥ ९ ॥
६ । शक्तिदानेन इति यथोक्तवचनोच्चारणपूर्व्वकमारोहणात् प्राक्
द्विजेऽश्वे यथावश्यकं द्विविधशक्तिसञ्चारणं कुर्व्वेत्यर्थः । शक्तिसञ्चारण-
वचनानि च जयदत्त एवास्मिन् प्रकरणे स्वयमेवाग्नेयादुद्धृत्य वक्ष्यति ।
यथा, — “हय गन्धर्व्वपुत्र त्वं शृणुष्व वचनं मम”—इत्यादि ।
साम्ना चैव तु क्षत्रियानिति आरोहणात् प्राक् परतो वक्ष्यमाणै-
र्यथोक्तवचनैः क्षत्रियमश्वं सान्त्वयन्नित्यर्थः । एतदप्याग्नेयपुराणा-
दुद्धृतं जयदत्तेन यथा, — “वीर राजेन्द्रपुत्रस्त्वं सत्यवाक्यमनुस्मर”
इत्यादि ॥
८ । सत्वशक्तिवाहनप्रकरणमाह । सत्त्वं पूर्व्वं व्याख्यातम् ॥
९ । शब्दाङ्गेन दण्डेन इति केवलं शब्दरूपेण ताड़नेनेत्यर्थः ।
१ । भक्तिदानेन । गः । ३ । उत्तमञ्चैव साम्येन । गः ।
२ । अधमोत्तममध्यमम् । गः । ४ । त्रिभिः । गः ।
५ । सहजा निर्मला वाहास्तैलदुग्धमध्वारवत् । गः ।