अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)
Ashvavaidyaka of Jayadatta Suri with Commentary
जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा
पृष्ठ 73, कुल 522 में से
संदर्भ में पढ़ें३ अध्यायः ।] प्रमाणविवरणम् । ५९
ऊर्द्धमानप्रमाणन्तु परिणाहं विनिर्दिशेत् ।
उत्तमानां च मध्यमानां हीनानाञ्चैव वाजिनाम् ॥ १८५
अर्द्धसप्तमहस्तन्तु श्रेष्ठं दैर्घ्येण निर्द्दिशेत् ।
षड्भिर्मुष्टिविहीनैश्च मध्यमञ्च विचक्षणः ॥ १८६ ॥
पञ्चहस्तप्रमाणस्तु' जघन्यः समुदाहृतः ।
द्वात्रिंशदङ्गुलं वक्त्रमुत्तमाश्वस्य कीर्त्तितम् ॥ १८७ ॥
अधमस्य परिमाणं मुष्टिशून्येन हस्तेन हीनः त्रिहस्तः । शुक्राचार्यमते
तु चतुरशीत्यङ्गुलोन्नतोऽधम इति ।
१८५ । परिणाहो विस्तारः । स च सर्वेषामेव वाजिनां खखो-
च्छ्रयेन समानः । उदरपरिणाहन्तु शुकः त्र्यङ्गुलाधिकं त्रिगुणं मुख-
परिमाणादाह । "परिणाहस्त्वदरस्य त्रिगुणस्त्र्यङ्गुलाधिकः” इति ॥
उत्तमानामित्यादि—निर्द्दिशेदित्यन्तः पाठः क—पुस्तके नास्ति ।
मध्यमानां स्थाने मध्यानामिति पाठो युक्तः ।
१८६ । एतन्मते सार्द्धत्रियवाङ्गुलस्य चतुस्त्रिंशदङ्गुलहस्तपरि-
माणस्य सार्द्धषड्हस्तमुत्तमस्य दैर्घ्यम् । शुक्रमते तु पञ्चयवपरिमिता-
ङ्गुलस्य द्वात्रिंशाधिकशताङ्गुलम् । “शिरोमणिं समारभ्य पुच्छमूलान्त-
मेवहि । तृतीयांशाधिकं दैर्घ्यं मुखमानाच्चतुर्गुणम्” इति । दीर्घश्च
द्व्यधिकं शतमिति च । अस्य श्लोकस्य प्रथमपादद्वयं ग-पुस्तके नास्ति ॥
१८७ । उत्तमाश्वमुखमानं द्वात्रिंशदङ्गुलम् । शुक्रमते तु
चत्वारिंशाङ्गुलम् । तदुक्तम् “चत्वारिंशाङ्गुलमुखो वाजी यस्योत्त-
१ । पञ्चहस्तप्रमाणन्तु । खः ।