अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)
Ashvavaidyaka of Jayadatta Suri with Commentary
जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा
पृष्ठ 77, कुल 522 में से
संदर्भ में पढ़ें४ अध्यायः ।] आयुर्विंवरखम् । ६१
कुष्ठिकानां किणा येषां दृश्यन्ते वाजिनां स्फुटाः ।
प्रतिस्रोतः पिवन्त्यम्भो ये च ते दीर्घजीविनः ॥ ६ ॥
पद्मपचदलाकारं जिह्वाग्रं यदि वाजिनाम् ।
दन्ताश्च मौक्तिकाकारा लिङ्गं येषाञ्च निर्म्मलम् ॥ ७ ॥
शीत्कारश्च भवेद् येषां१ लाङ्गूलं क्षिपतां पुनः२ ।
प्रस्वेदः शुभगन्धस्तु नखा३ वै दर्पणोपमाः ॥ ८ ॥
येषाञ्च हृद्रोमाणि ते सर्वे चिरजीविनः ।
स्निग्धगम्भीरदीर्घाश्च प्रोथजा यस्य वाजिनः ।
भवन्ति विपुला रेखास्तं विद्याद्दीर्घजीवितम् ॥ ६ ॥
स्रुवचामरमृङ्गारखड्गशंखाब्जसन्निभाः ।
शुक्तिवज्रदलाकारा ध्वजभद्रासनोपमाः४ ॥
श्रीवृक्षस्वस्तिकाभासाः प्रोथरेखा५श्चिरायुषाम् ॥ १० ॥
ऊर्द्धं प्रोथे सिता रेखा यस्य वामेन चोन्नता६ ।
ह्रस्वा वा यस्य वाहस्य न चिरं तस्य जीवितम् ॥ ११ ॥
ऊर्द्धं प्रोथे७ समा रेखा दृश्यन्ते यदि८ वाजिनः ।
तस्य मृत्युः समुद्दिष्टो दशमं प्राप्य वत्सरम् ॥ १२ ॥
१ । वाचि । कः । ५ । प्रोथोत्थिता । खः ।
२ । लाङ्गूलं चालनं पुनः । गः । ६ । चोन्नताः ।
३ । नखाश्च । गः । ७ । प्रोथ । खः ।
४ । पद्मासनोपमाः । खः । ८ । यस्य । खः ।