सामग्री पर जाएँ
सर्वकोश
अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

Ashvavaidyaka of Jayadatta Suri with Commentary

जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा

DevanagariHindipublished522 पृष्ठ

पृष्ठ 75, कुल 522 में से

संदर्भ में पढ़ें
पृष्ठ 75

३ अध्यायः ।] प्रमाणविवरणम्। ४१
षोड़शाङ्गुलदीर्घा तु जंघा चैवोत्तमा स्मृता ॥ १६० ॥
चतुर्द्दश तथा मध्ये हीने¹ च द्वादशाङ्गुलः ।
एवंविधप्रमाणन्तु निर्दिष्टं शास्त्रशालिभिः ॥ १६१ ॥
अपाङ्गात् पुच्छमूलन्तु दैर्घ्येणाश्वं प्रमाणयेत् ।
खुरान्तात् ककुदं यावदूर्द्धमानेन बुद्धिमान् ॥ १६२ ॥
वक्षोभागे तु संवेष्ट्य रज्ज्वा वा सूत्रकेण वा ।
परिणाहं तुरङ्गस्य मापयेन्मतिमान् भिषक् ॥ १६३ ॥
एवं प्रमाणभागेन विभक्ताङ्गः शुभः स्मृतः ।
अतो हीनाधिकाङ्गाश्च हरयो नैव पूजिताः ॥ १६४ ॥
इति श्रीजयदत्तकृतेऽश्वशास्त्रे सर्व्वलक्षणो
तृतीयोऽध्यायः ।
चतुरङ्गुलम् । चत्वारिंशच्च सप्ताख्याः स्कन्धाः सम्यक् प्रकीर्त्तिताः ।
अतिसूक्ष्मं तथास्निग्धं पुच्छं हस्तद्वयायतम् । लिङ्गं हस्तप्रमाणञ्च
तथाण्डौ चतुरङ्गुलौ । मार्गस्थानं चतुर्विंशं । कटिकञ्चान्तरं प्रोक्तं
चत्वारिंशत् प्रमाणतः । मणिबन्धद्वयञ्चैव खुराश्च चतुरङ्गुलाः” इति ॥
१६२—१६३ । दैर्घ्योनत्यपरिणाहमानोपायमाह अपाङ्गादिति ।
१। मध्या हीना। कः।