सामग्री पर जाएँ
सर्वकोश
अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

Ashvavaidyaka of Jayadatta Suri with Commentary

जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा

DevanagariHindipublished522 पृष्ठ

पृष्ठ 80, कुल 522 में से

संदर्भ में पढ़ें
पृष्ठ 80

६६ अश्ववैद्यके [४ अध्यायः।
वक्रा तु१ कालिका रेखा कृष्णा दन्ताग्रसंस्थिता ।
षष्ठे च सप्तमे वर्षे चाष्टमे च भवेत् क्रमात् ॥ २१ ॥
सा पीता हरिणी ज्ञेया कालिकास्थानमाश्रिता ।
नवमे दशमे वर्षे भवेदेकादशे तथा ॥ २२ ॥
कृष्णा चैव भवेच्छुक्ला दन्तमूर्ध्नि समुद्भवा ।
द्वादशाब्दं२ समारभ्य भवेद् यावच्चतुर्दश ॥ २३ ॥
सिता सिद्धार्थकाकारा काचेति परिकीर्त्तिता ।
पञ्चदशाब्दमारभ्य यावच्च्छप्तदशादितः४ ॥ २४ ॥
माक्षिका माक्षिकाकारा५ भवेदष्टादशादिषु६ ।
२१ । कालिकारेखायाः स्थानाकारावाह । वक्रेति । कालिकायाः
कालनिर्वाचनन्तु अत्र विशेषेण करोति षष्ठ इति ॥
२२ । हरिणीप्रभृतिरेखाणां स्थानकाललक्षणाण्याह । आपीते-
त्यादि-पञ्चभिः श्लोकैः ॥
२४ । अत्र शुक्रस्तु पञ्चदशाब्दादाह "दशपञ्चाब्दतस्तौ तु काचाभौ
क्रमशः स्मृतौ" इति ॥
२५ । शुक्लोऽपि माक्षिकायामष्टादशाद्याह,—"अष्टादशाब्दतस्तौ
हि मध्वाभौ भवतः क्रमात्" इति ॥
१ । वक्रान्ते । ग० । ४ । सप्तदशाधिका । ग० ।
२ । द्वादशाब्दात् । ख० । ५ । मक्षिक्राकारा । ख० ।
३ । मासवेदा । ग० । ६ । अष्टदशाधिका । ग० ।