अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)
Ashvavaidyaka of Jayadatta Suri with Commentary
जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा
पृष्ठ 84, कुल 522 में से
संदर्भ में पढ़ें[ ५० ]
अथ षष्ठोऽध्यायः ।
जन्मदेशः ।
अश्वानां जन्मदेशांस्तु प्रवक्ष्याम्यनुपूर्व्वशः ।
उत्तमानाञ्च मध्यानां हीनानां यच¹ सम्भवः ॥ १ ॥
उत्तमास्ताजिकाः प्रोक्तास्तथा पारसिकाश्च ये ।
केक्काणाश्चैव ये वाहाः पृष्ठजा ये च कीर्त्तिताः ॥ २ ॥
तुरौ² जाताश्च कीराश्च भूरुष्ठा भाण्डजाश्च ये ।
पार्व्वताः सैन्धवा मध्यास्तथा सारस्वता हयाः ॥ ३ ॥
१ । अश्वानां जन्मदेशभेदेन उत्तमत्वादिभेदोऽपि नकुलेन
प्रदर्शितः,—“उत्तमा मध्यमा नीचाः कनीयांसस्तथापरे । चतुर्धा
वाजिनो भूमौ जायन्ते देशसंश्रयादिति”—अत्र हेमचन्द्रः । “आजा-
नेयः कुलीनः स्यात् तत्तद्देशास्तु सैन्धवाः । वनायुजाः पारसीकाः
काम्बोजा वाह्लिकादयः” इति स स देशोऽश्वानां जन्मभूमिरिति ॥
२ । नकुलस्तु ताजिकखरश्राणोत्तराणामुत्तमाश्वत्वमाह । “ता-
जिकाः खरश्राणाश्च उत्तराश्चोत्तमा हयाः”—इति । तथा गो-
जिकाणकेकाणयोर्मध्यमाश्वत्वमाह यथा “गोजिकाणाश्च केकाणाः
प्रौढाहाराश्च मध्यमाः” इति ॥
३ । “नकुलस्तु मध्यमाश्वं षड्विधमाह-तद्यथा “गोजिकाणाश्च
केकाणाः प्रौढाहाराश्च मध्यमाः । भाण्डजाश्चोत्तमांगाश्च राजशू-
लाश्च मध्यमाः”—इति ॥ तुरौ तुरुष्कदेशे ॥
१ । हीनानाञ्चैव सम्मतः । खः ।
२ । काश्मीरदेशजाताश्च सैन्धवा मध्यमाः स्मृताः । कः । उरौ । खः ।