सामग्री पर जाएँ
सर्वकोश
अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

Ashvavaidyaka of Jayadatta Suri with Commentary

जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा

DevanagariHindipublished522 पृष्ठ

पृष्ठ 82, कुल 522 में से

संदर्भ में पढ़ें
पृष्ठ 82

१८ अश्ववैद्यके [४ अध्यायः ।
खल्लाग्रा विपुला दन्ता भवन्ति पतितात्थिताः ॥ २९ ॥
खल्लभागे विनापूर्णे१ व्यञ्जनानां न सम्भवः२।
पूर्णेषु खल्लभागेषु जायन्ते कालिकादयः ॥ ३० ॥
निम्नं कृष्णञ्च दन्ताग्रं खल्लमित्यभिधीयते ।
पूर्णतां तस्य जानीयात् षष्ठात्३ प्रभृति वत्सरात् ॥ ३१॥
खल्लेषु४ कालिकाभावा नाच कार्य्या विजानता ।
नियता कालिका रेखा सुपूर्णे दन्तमस्तके ॥ ३२ ॥
द्वयोर्भवति षष्ठेऽब्दे चतुर्णां सप्तमे तथा ।
षण्णामष्टासु५ वर्षेषु दन्तानां कालिकाक्रमः६ ॥ ३३ ॥
कालिकानुक्रमेणैव हरिण्यादिषु बुद्धिमान् ।
द्वौ द्वौ वर्षेण जानीयाद्वाजिनां व्यञ्जनं प्रति ॥ ३४ ॥
इति श्रीमहासामन्तजयदत्तकृतेऽश्वशास्त्रे आयु-
र्वयोज्ञाने चतुर्थोऽध्यायः ।
———•०:०•———
मेव लक्षणं परतः कृतम् । अखल्लं निम्नकृष्णत्वरहितं शिरो येषान्ते
तथोक्ताः ॥
──────────────────────────────────────────
१ । विनादूर्द्धं । गः । ४ । यान्तिनैव । खः ।
२ । समुद्भवाः । कः । ५ । खल्लमष्टासु । खः ।
३ । षष्ठप्रभृतिवत्सरः । खः । ६ । क्रमात् । खः ।