अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)
Ashvavaidyaka of Jayadatta Suri with Commentary
जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा
पृष्ठ 71, कुल 522 में से
संदर्भ में पढ़ें३ अध्यायः ।] कायाविवरणम् । ५७
अनिष्टे१ चैव गन्धे च सर्व्वमेतदनिष्टकम् ।
तस्मात्२ सर्व्वप्रयत्नेन सुगन्धोऽश्वः प्रपूजितः ॥ १७८ ॥
संग्राह्यो न तु दुर्गन्धो नायकेन विजानता ।
यथाशास्त्रं३ समुद्दिष्टो गन्धस्तौरङ्गमो४ मया ॥ १७६ ॥
सत्त्वानि ।
अमेध्ये कईमे चैव वस्तमूत्रे५ विशेषतः ।
घृणा यस्यास्ति वाहस्य देवसत्वः६ प्रकीर्त्तितः ॥ १८० ॥
पिशाचसत्वो मन्तव्यो व्यत्ययेन तुरङ्गमः ।
“शुभगन्धः सदा विप्रः क्षत्रियो गुरुगन्धकः । घृतगन्धः सदा वैश्यो
मीनामोदीच शूद्रकः” इति ॥
१८० । सत्वं स्वभावधर्मः । स च कान्तप्रगल्भदीर्घग्रीवानतिक्रूरान-
तिमृदुलादिरूपः । देवसत्वस्य लक्षणमाह शुकः । “श्मश्रुहीनमुखः
कान्तः प्रगल्भोत्तुङ्गनासिकः । दीर्घोद्रुतग्रीवमुखः स्रस्तकुक्षिखुरश्रुतिः ।
तुरप्रचण्डवेगश्च हंसमेघसमस्वनः । नातिक्रूरो नातिमृदु देवसत्वो
मनोरमः” इति ॥
१ । अनिष्टश्चैव गन्धे तु सर्व्वमेतत् प्रतीपकौ। कः । ४।सौरभदेहजः। खः।
२। तस्य स्यात् स प्रयत्नेन सुगन्धोऽश्वस्य पूजितः। गः। ५। वत्समूत्रे । खः ।
३ । यथाशास्त्रोदितः । खः । ६ । देवसत्वः । खः ।
8