अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)
Ashvavaidyaka of Jayadatta Suri with Commentary
जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा
६१ अध्यायः ।] विषरोगविवरणम् । .२१९
प्रस्वेदो रोमहर्षश्च अरुचिर्गात्रसादनम् ।
विवर्णमूत्रं लाला च भिन्नविङ्गलमेव च ॥ २ ॥
लिङ्गान्येतानि वाहस्य सर्पदष्टस्य लक्षयेत् ।
स्थावरेऽप्येवमेवन्तु नो दंशस्तत्र केवलम् ॥ ३ ॥
कीटादिविषसंयुक्ते लालास्रावोऽपि जायते१ ।
ज्ञेयो वाधप्रदेशे तु अन्यच्च सर्पदष्टवत्२ ॥ ४ ॥
दत्वादौ३ घृतपानन्तु जीवरक्षाविचक्षणः ।
ततः कुर्यात् क्रियां वैद्यः प्रच्छन्नोद्वर्त्तनादिकम् ॥ ५ ॥
तण्डुलीयकमूलन्तु मूलं विल्वकपित्थयोः ।
गोघृतेन समालोड्य सर्पदष्टे तु पाययेत् ॥ ६ ॥
सर्पदष्टस्य वाहस्य क्षिप्रं वस्त्रेण बुद्धिमान् ।
प्रच्छाद्येदंशदेशन्तु४ शिरां तस्य च५ वेधयेत् ॥ ७॥
४ । वाधेत्यत्र वेधेति पाठः साधुः ।
६ । तण्डुलीयकमूलं । (कांटानटेरमूल) ।
७ । प्रच्छाद्येत् परिच्छादयेदित्यर्थः ।
१ । कीटादिविषे लाला श्वासो वाहस्य जायते । गः ।
२ । दंशप्रवेशेतु अन्यदा सर्पदंष्ट्रवत् । गः ।
३ । दद्यादौ । खः ।
४ । प्रच्छाद्येदंशदेशन्तु । खः ।
५ । वा तस्य । खः ।
३२०. अश्ववैद्यके [५१ अध्यायः।
एवं कृत्वा भिषक् चूर्णैः शीघ्रमुद्वर्त्तयेत्ततः।
शालिहोत्रादिभिः प्रोक्तैर्विषघ्नैर्वक्ष्यमाणकैः॥ ८॥
कुष्ठजीरक¹दन्तीभिर्नैपाली²भद्रमुस्तकैः।
कट्फले³न्द्रयवागारधूमास्फोटकसैन्धवैः॥ ६॥
विड़ङ्गपिप्पलीक्षारशतपुष्पावचाजलैः⁴।
निशातेजोवतीपाठामरिचागारधूमकैः॥ १०॥
यथाप्राप्तैः समस्तैर्वा एतैश्चूर्णीकृतैर्बुधः।
दष्टस्योद्वर्त्तयेद्देशं प्रस्थितञ्चैव वाजिनः॥ ११॥
प्रलेपो वा प्रदातव्य एतैर्गोमूत्रपेषितैः।
ततः शान्तिं प्रयच्छन्ति तुरङ्गे विषदूषिते॥ १२॥
चन्दनागुरुकुष्ठैश्च लोध्रभार्गीफलीनखैः।
शिरोषदन्तीमूलैश्च दंशलेपो विषापहः॥ १३॥
दंशनात्तंस्य वाहस्य दंशस्थानं विचक्षणः।
छिन्द्यात्तीक्ष्णेन शस्त्रेण मन्त्रैश्चैव विषं हरेत्॥ १४॥
इति श्रीमहासामन्तजयदत्तकृतेऽश्वशास्त्रे विषचि-
कित्सिते एकषष्टितमोऽध्यायः॥
८। उद्वर्त्तयेत् घर्षयेत्।
६। आस्फोटः (हापरमाली)।
१३। फली प्रियङ्गुः।
१। चित्रक। गः। ३। कङ्कोल। गः।
२। पिप्पली। गः। ४। मन्त्रैः। गः।
[ ३२१ ]
अथ द्विषष्टितमोऽध्यायः।
अपस्मारलक्षणचिकित्सितम् ।
पतत्यकस्माद् यो भूमौ स्तब्धाक्षो गतचेतनः¹।
स्वस्थाशयोऽपि² यः शीघ्रं सोऽपस्मारीति कीर्त्तितः ॥ १ ॥
उन्मादोक्तक्रियां सर्व्वां ततः कुर्य्याद्विचक्षणः ।
घृतस्यातिपुराणस्य तस्य पानञ्च शस्यते³ ॥ २ ॥
इति श्रीमहासामन्तजयदत्तकृतेऽश्वशास्त्रे अपस्मार-
चिकित्सिते द्विषष्टितमोऽध्यायः।
अथ त्रिषष्टितमोऽध्यायः।
षट्पदीभक्षणलक्षणचिकित्सितम् ।
आपाण्डुवर्णा⁴ कपिला हरिता च प्रजायते ।
महोदरा च षट्पादी⁵ सूक्ष्मवक्त्रोत्तमाङ्गिका ॥ १ ॥
षट्पदी नाम विख्याता तथा चाञ्जलिकारिका⁶।
गङ्गापतङ्गसंज्ञा⁷ च भाषिता सा दुरासदा ॥ २ ॥
१। कम्पवाहनः। गः। ५। मन्दोदरी षट्पदीच। गः।
२। पूर्णञ्च योत्थितः। गः। ६। चाञ्जलिकारिका। खः।
३। प्रशस्यते। गः। ७। गाङ्गपाताङ्गसंज्ञा। खः।
४। हुडुर्व्वाच। गः।
41
३२२ अश्ववैद्यके [६४ अध्यायः ।
ग्रासमध्यगतं१ वाहा ये भक्षन्ति सुदारुणम् ।
तेषां शोषश्च मूर्च्छा च भ्रमः श्वासश्च२ जायते ॥ ३ ॥
तेषु गव्यं घृतं पाने अभ्यङ्गश्च प्रशस्यते ।
सर्पदष्टचिकित्सायां कीर्त्तितं यच्च भेषजम् ॥ ४ ॥
इति श्रीमहासामन्तजयदत्तकृतेऽश्वशास्त्रे षट्पदी-
भक्षचिकित्सिते त्रिषष्टितमोऽध्यायः ॥
अथ चतुःषष्टितमोऽध्यायः ।
साध्यासाध्यविवेकः ।
अत ऊर्द्धं प्रवक्ष्यामि साध्यासाध्यविनिश्चयम् ।
एकः प्रशाम्यते व्याधिः पुनरन्यः३ प्रकुप्यति ॥
पुनरन्यः४ पुनश्चान्यो यस्य तं परिवर्जयेत् ॥ १ ॥
व्याधिनाल्पस्य५ वाहस्य प्रकृतिं याति६ सर्व्वदा ।
यः स्वभावं७ परित्यज्य दुश्चिकित्स्यः स उच्यते ॥ २ ॥
१ । पुनरित्येकस्य प्रशमनं अन्यस्य च प्रकोप इत्यर्थः ।
२ । अस्य श्लोकस्य द्वितीयपाठो न सङ्गच्छते ।
१ । ग्रासमध्यगता वाहा भक्षयन्ति । गः ।
२ । शोधः । गः । ५ । विपरीतस्य । खः ।
३ । अन्यश्चैव । गः । ६ । प्रकृतिर्याच । खः ।
४ । पुनश्चान्यः । गः । ७ । स्ववाहन्तु । खः ।
६० अध्यायः ।] साध्यासाध्यविवरणम् । ३२३
किञ्चित्साध्यं¹ तथासाध्यं लक्षणं च प्रकाश्यते ।
कृच्छ्रसाध्यः स विज्ञेयो याप्यो वाथ हयो भवेत्² ॥ ३ ॥
मुष्यते नष्टगन्धश्च³ सोऽप्यसाध्यः प्रकीर्त्तितः ॥ ४ ॥
सप्ताहात् क्रियमाणेऽपि भेषजे यस्य वाजिनः।
विशेषो न भवेत्तस्य चिकित्सां न प्रयोजयेत् ॥ ५ ॥
दीप्ताग्नेस्तु प्रयोक्तव्या क्रिया हीनाग्नये तु न।
निश्चेष्टोऽनिमिषाक्षश्च बालैर्वा यो न वोद्ध्यते ॥ ६ ॥
लभते ताड़नं दाहं रूपैश्च परिवर्जयेत् ।
तनुः स्तम्भा श्लथा वापि जिह्वा चैव तथाविधा ॥ ७ ॥
स्थूलो वा यो निराहार आहारैर्वा न पुष्यति।
पूर्वाङ्गं श्रूयते वामं दक्षिणं यस्य पश्चिमम् ॥ ८ ॥
सदाहगुरु एकाङ्गं श्रूयते यस्य वा हरेः।
शीतं गुदञ्च नासास्यं शीतोच्छासी च यो हयः ॥ ६ ॥
७ । तनुरित्यादि नैव साध्यः प्रकीर्तित इत्यन्तैः श्लोकैरषाध्य-
लक्षणानि प्रदर्शितानि ।
८ । वाङ्मित्यत्र वाममिति युक्तः पाठः ।
१ । इत्येवासाध्यताया । खः । ३ । नष्टगन्धी च । गः ।
२ । मतः । गः ।
३२६ अश्ववैद्यके . [५४ अध्यायः।
मूलाध्मातानिमेषाक्षः कृच्छ्रगामी च जायते ।
कृच्छ्राच्च कम्पते श्वासाध्मातश्च मूनमेहनः ॥ १० ॥
श्लेष्मा न पिच्छिलः सान्द्रः फेनिलः पाण्डुरस्तथा।
गलशुण्डा गले यस्य शोफो वा कठिनो भृशम् ॥ ११ ॥
रुद्धो गलग्रहो वापि मन्या वापि सुदूषिता।
श्लेष्मा विविधवर्णश्च सान्द्रोऽतिपूतिगन्धवान् ॥ १२ ॥
क्षयज्ञः काशते वापि हरेर्यस्य प्रवर्त्तते।
अतिसारेण क्षीणस्य यस्य शोथः प्रजायते ॥ १३ ॥
पश्चात्तु मूत्ररोगश्च जायतेऽश्वस्य दारुणः।
न संह्वयोति यो मेढ्रं वक्षःशोभाविवर्जितः ॥ १४ ॥
गुर्वङ्गोऽतिशयं भूय आत्मानमभिवीक्षते।
भग्नग्रीवश्च यो वाहो ब्रध्नैर्यस्य विमुच्यते ॥ १५ ॥
विस्तीर्णा श्रोणिका यस्य श्वासः स्वेदश्च मुष्करुक्।
वाह्वोरभ्यन्तरे यस्य द्रोणिका भिद्यतेऽपि च ॥ १६ ॥
मण्डूकायाञ्च कीर्णायां नित्यस्रावी तक्षो भवेत्।
खुरश्च यस्य वाहस्य खिन्नश्चैव प्रजायते ॥ १७ ॥
सर्व्वे पूर्व्वोदिता ह्येते नैव साध्याः प्रकीर्त्तिताः।
तथापि जीवमानस्य कुर्य्याद्वैद्यः प्रतिक्रियाम् ॥ १८ ॥
प्रदीप्ताग्निर्भवेद्यस्तु प्रसन्नं रूपमीक्षते।
बहुपानरतो वाजी साध्यरोगः स उच्यते ॥ १६ ॥
६५ अध्यायः।] प्रकृतिज्ञानविवरणम् । १२५
कायेन धनुते यस्तु लोड़तेऽतिशयं हरिः ।
वडवायां रतश्चैव सोऽपि साध्यः प्रकीर्त्तितः ॥ २० ॥
चक्षुषोः सुदीर्त्तिय॑स्य खेददोषी च यो हयः ।
लांगुच्छिर्हितेत्तु (!) शिरा यस्य च वेधिता ॥ २१ ॥
यस्त्वसाध्यः स्मृतो वाहः स कश्चिन्नैव साध्यते ।
काले नापेक्षिताः साध्या दुश्चिकित्स्याः प्रकीर्त्तिताः ॥२२॥
इति श्रीमहासामन्तजयदत्तकृतेऽश्वशास्त्रे साध्या-
साध्यविवेके चतुःषष्टितमोऽध्यायः ।
अथ पञ्चषष्टितमोऽध्यायः ।
वातादिप्रकृतिलक्षणानि ।
धूमवर्णः कृशो रूक्षः शिरालो वेगवान्' हयः ।
जङ्घौर्वमितजिह्वश्च२ वातप्रकृतिरुच्यते ॥ १ ॥
पित्तप्रकृतिकश्चापि३ कृशतीक्ष्णतनुत्वचः ।
नित्यं शीताभिलाषी च वद्धाशी पीतवर्णकः ॥ २ ॥
२० । धनुते धनुराकारो भवति । लोड़ते मग्नो भवति ।
१ । शिरागण्डाङ्गवान् । गः ।
२ । ऊर्द्ध्वान्तो दिजिह्वश्च । खः ।
३ । निसान्ताशावतिसिद्धः प्रोक्तः । गः ।
३२६ अश्ववैद्यके [६६ अध्यायः ।
पित्तप्रकृतिकश्चापि भवेत् खेदश्च जायते ।
श्लेष्मसुसंहताङ्गश्च क्षुत्तृट्संहरणे क्षमः ॥ ३ ॥
सङ्कीर्णप्रकृतिष्वपि¹ विद्यात् सङ्कीर्णलक्षणम् ।
प्रकृतिं सम्यगालोक्य भिषग्वातादिकामिमाम् ॥ ४ ॥
यथादोषं ततः कुर्य्याच्चिकित्सां शास्त्रसम्मताम् ।
वातश्लेष्म तथा पित्तं ज्ञात्वा कर्म्म प्रचक्रमेत् ॥ ५ ॥
इति श्रीमहासामन्तजयदत्तकृतेऽश्वशास्त्रे प्रकृति-
ज्ञाने पञ्चषष्टितमोऽध्यायः ॥
अथ षट्षष्टितमोऽध्यायः ।
रसोनकल्पः ।
रसोनस्य प्रवक्ष्यामि कल्पं² शास्त्रानुसारतः ।
³सम्पूर्णरसवीर्य्योऽसौ मासे संगृह्य फाल्गुने ।
गृहीत्वा स्थापयेत्तत्र यवस्थो⁴ नैव नश्यति ॥ १ ॥
ततस्तस्य प्रयोगन्तु कुर्य्यान्मात्राप्रमाणतः ।
३ । प्रथमपादद्वयं ख-पुस्तके नास्ति ।
५ । अस्य तृतीयचतुर्थपादौ ख-पुस्तके न स्तः ।
१ । खापि । खः । ४ । यत्रासौ । गः ।
२ । कल्कं । गः ।
३ । सम्पूर्णरसवीर्य्याभ्यां मासे ग्राह्यो तु फाल्गुने । गः ।
६६ अध्यायः।] रसोनकल्पः । ३२७
मातुलुङ्गरसोपेतं मांसानां रसकेन च१।
रसं दद्याद्रसोनस्य अन्यैर्वाम्लैः२ समायुतम् ॥ ३ ॥
प्रथमे दिवसे देयं३ रसोनस्य पलद्वयम्।
एकैकपलवृद्ध्या तु दद्याद्४ यावच्च विंशति ॥ ४ ॥
उत्तमाञ्चस्य मात्रैषा मध्यमस्य चतुर्दश ।
जघन्यस्य५ पलान्यष्टौ मात्रैषा न विरोधिनी ॥ ५ ॥
हीनन्तु रसमात्रातो६ भागेनैकेन बुद्धिमान् ।
यवकल्केन७ संपुष्टं मांसयुक्तं प्रदापयेत् ॥ ६ ॥
प्रत्यहं दापयेत्तावद् यावन्मात्रा विवर्द्धते ।
मात्रावृद्धिं भिषग्युक्त्या८ दद्यादेकान्तरं ततः ॥ ७ ॥
रसोनस्य प्रयोगश्च हेमन्ते शिशिरे तथा।
प्रावृट्काले वसन्ते च मध्यमः परिकीर्त्तितः ॥ ८ ॥
८ । रसोनस्येत्यादिश्लोकः ख-पुस्तके नास्ति ।
१। माषाणाञ्च रसेन वा। गः।
२। प्रत्यैः। गः।
३। दद्यात्। गः।
४। यावत् पूर्णांच विंशतिः। गः।
५। अधमस्य। गः।
६। रसमात्रायाः। गः।
७। याववाटीयुतं। गः।
८। बुद्ध्या। खः।
' in 'दातव्यः' (L7):
In 'दातव्यः', व्य has व attached to य.
Here, it's व + य = व्य! "सव्ययञ्च"!
Wait, look at verse 15:
"पानं सकल्कञ्च"
Variant: "पाने सव्ययञ्च" (or सव्ययं च).
Yes! 'सकल्कञ्च' -> 'सव्ययञ्च'!
Let's double-check line by line to make sure all line breaks match the original image.
Line breaks in image:
Header:
३२८ अश्ववैद्यके [५५ अध्यायः ।
Verses:
शरन्निदाघयोश्चापि नैव देयः कदाचन ।
प्रावृट्काले प्रदातव्यो जलपूर्णे महीतले ॥ ९ ॥
वातिकेषु विकारेषु तिलतैलेन योजितः¹।
क्षीरसर्पिःसमायुक्तः पित्ते वै शर्करान्वितः² ॥ १० ॥
कफे³ कटुकतैलेन कटुकैरवचूर्णितः⁴।
रसः प्रभाते दातव्यः सायं कल्कस्तु भोजने ॥ ११ ॥
पिण्डेनैव⁵ प्रदातव्यो रसोनस्तु विजानता ।
वायौ प्रधानः पित्ते तु विषमस्तु कफे समः ॥ १२ ॥
वातश्लेष्मरिण वाते वा कफे वा पानमिष्यते ।
रसं दद्यात्⁶ प्रभाते तु स्
६९ अध्यायः ।] रसोनकल्पः । ३२६
कल्कप्रयोगेऽल्पगुणं तथा चात्ययवर्जितम्१ ।
क्रियावसाने२ दातव्यं शालिषष्टिकपायसम् ॥१६॥
त्रिरात्रं३ पञ्चरात्रं वा शर्करासर्पिषान्वितम् ।
पुराणः स तु विज्ञेयो नैव देयस्तु वाजिनाम् ॥ १७ ॥
विधिरेष समुद्दिष्टः पूर्व्वशास्त्रविशारदैः ।
द्विगुणञ्चापि सप्ताहं तुरङ्गं४ नैव वाहयेत् ॥ १८ ॥
स्वादुशीतोपचारञ्च तत्र यावत्५ प्रकीर्त्तितः ।
रसोने तु यदा खेदी६ श्वासवान् जायते हयः ॥ १९ ॥
व्यापद्युक्तः स विज्ञेयस्तस्य कुर्य्याद्भिषक्७ क्रियाम् ।
पित्तज्वरसमुद्दिष्टां८ क्रियां सर्व्वां प्रयोजयेत् ॥ २० ॥
रसोनव्यापदाघाते तुरङ्गं मतिमान् भिषक् ।
वातभुग्नास्थिगात्रेषु मारुताहतमूर्त्तिषु ॥ २१ ॥
वृद्धेषु च विशेषेण रसोनञ्च९ प्रदापयेत् ।
१७ । पुराण इत्यादिश्लोकः ख-पुस्तके नास्ति ।
१ । क्षयवर्जितः । ख ।
२ । कृतावसाने । ख ।
३ । त्रिरात्रं पञ्चरात्रं वा शर्करा माक्षिकान्विता । ग ।
४ । द्विगुणं । ग ।
५ । यथावत् परिकीर्त्तितः । ग ।
६ । सादी सभावाज्जायते हयः । ग ।
७ । क्रियामिमाम् । ग ।
८ । समुद्दिष्टं विधिं सर्व्वम् । ग । ९ । सरसोनं । ग ।
42
३१० अश्ववैद्यके [६७ अध्यायः ।
सप्ताहमेकं¹ द्विगुणं त्रिगुणं वा यथाविधि ।
प्रयोगोऽस्य स्मृतः सम्यग् यथाशास्त्रं तपोधनैः ॥ २२ ॥
इति श्रीमहासामन्तजयदत्तकृतेऽश्वशास्त्रे रसोन-
कल्पे षट्षष्टितमोऽध्यायः ।
अथ सप्तषष्टितमोऽध्यायः ।
गुग्गुलुकल्पः ।
स्निग्धः काञ्चनसङ्काशः पक्वजम्बूफलोपमः² ।
शोभनो गुग्गुलुः प्रोक्तः सुगन्धिर्यश्च पिच्छिलः ॥ १ ॥
शुष्को दुर्गन्धिकश्चैव वर्णान्यत्वसमन्वितः³ ।
पुराणः सतु विज्ञेयो नैव देयस्तु वाजिनः⁴ ॥ २ ॥
विधिरस्य⁵ द्विधा प्रोक्तः पूर्ध्वशास्त्रविशारदैः ।
एकः पाने⁶ प्रयोगेण द्वितीयो भोजनेन तु ॥ ३ ॥
१ । एतद् द्विगुणं प्रदद्याच्च यथाविधिम् । गः ।
२ । निभोपमः । गः ।
३ । वर्णान्यत्वमुपागतः । गः ।
४ । वाजिनाम् । गः ।
५ । विधिश्चास्य । गः ।
६ । एकं पानप्रयोगेण । गः ।
६७ अध्यायः ।] गुग्गुलुकल्पः । ३११
अर्द्धप्रहरगे१ सूर्य्ये गुग्गुलुं दापयेद्भिषक् ।
अष्टभागावशिष्टेऽह्नि२ भोजने संप्रदापयेत् ॥ ४ ॥
दत्वातु गुग्गुलुं पाने अनुपानं ततो बुधः ।
न द्वितीये चतुर्थे वा गोक्षीरञ्च प्रदापयेत् ॥ ५ ॥
गुग्गुलुं पाययित्वातु भोजयेत्तुरगं भिषक् ।
विकाले भोजयेद् भक्त्या भोजनैरक्षमाषकैः ॥ ६ ॥
शाल्यन्नं वातले दद्यान् मांसानां रसकैर्युतम् ।
पित्ते मुद्गं ससर्पिञ्च भोजयेन्मधुना ततः ॥ ७ ॥
पञ्चतिक्तजले स्विन्नान् कटुकैरवचूर्णितान् ।
तथा मुद्गान् कुलत्थांश्च कफे विद्वान् प्रदापयेत् ॥ ८ ॥
पीतगुग्गुलुके वाहे क्षुधार्त्ते दापयेत्ततः ।
प्रहरं प्रहरार्द्धं वा नैव घासं प्रदापयेत् ॥ ६ ॥
शृतं शीतं जलं पाने घासे दूर्व्वा प्रकीर्त्तिता ।
मुनिभिः शालिहोत्राद्यैः शास्त्रमार्गानुसारतः ॥ १० ॥
व्याधितेषु तुरङ्गेषु पाने देयस्तु गुग्गुलुः ।
५ । दत्वेत्यादिश्लोकचतुष्टयं ख-पुस्तके नास्ति ।
६ । प्रहरमितिश्लोको ग-पुस्तके न विद्यते ।
१ । प्रहरार्द्धङ्गते । गः ।
२ । अर्द्धभागवशिष्टेऽह्नि भोजनेन । गः ।
१२२ अश्ववैद्यके [६७ अध्यायः ।
स्वस्थानां वापि पुष्ट्यर्थं भोजने संप्रदापयेत् ॥ ११ ॥
त्रिषु दोषेषु दुष्टेषु रक्ते रिक्ते तथा श्रमे।
खञ्जे च दुर्बले वापि एकस्मिन्नेव वासरे ॥ १२ ॥
प्रथमेऽह्नि पलं दद्यात् प्रतिकर्षं प्रवर्द्धते ।
पलानां पञ्चकं देयमेकस्मिन्नेव वासरे ॥ १३ ॥
उत्तमस्य तुरङ्गस्य मध्यमस्य चतुष्टयम्¹।
पलानि त्रीणि देयानि जघन्यस्य तथा विधिः² ॥ १४ ॥
अस्मात्³ प्रमाणादधिको नैव देयः कदाचन ।
यानादूर्द्धं⁴ न दातव्यो भोजने वापि गुग्गुलुः ॥ १५ ॥
पलान्य⁵शीतिः प्रवरः प्रायोऽश्वस्य⁶ प्रकीर्त्तितः ।
षष्टिर्मध्यः समुद्दिष्टश्चत्वारिंशतिरन्यतः⁷ ॥ १६ ॥
१३। प्रथमेऽह्नीति श्लोकः ख-पुस्तके नास्ति ।
१। चतुष्टये । खः ।
२। बन्धनञ्च यथाविधिम् । गः ।
३। अस्य प्रमाणमधिकं नैव देयम् । गः ।
४। पानादूर्द्धं । खः ।
५। शतानि । खः ।
६। प्रयोगस्खेति कीर्त्तितः । गः ।
७। षष्टिर्मध्यस्य निर्द्दिष्टश्चत्वारिंशत् कनीयसः । गः
६८ अध्यायः ।] रसायनकल्पः । २२३
व्रणे¹ कुष्ठेषु खञ्जेषु त्रिफलाक्वाथसंयुतः ।
मन्दाग्नौ शोथरोगे² च गवां मूत्रेण योजितः ॥ १७ ॥
वातपित्तोल्बणे व्याधौ गोक्षीरघृतसंयुतः ।
देयः कृशानां पुष्ट्यर्थं मांसैर्युक्तश्च भोजने³ ॥ १८ ॥
इति श्रीमहान्तजयदत्तकृतेऽश्वशास्त्रे गुग्गुलुकल्पे
सप्तषष्टितमोऽध्यायः ।
अथाष्टषष्टितमोऽध्यायः ।
रसायनकल्पः ।
प्रकृष्टाय प्रदातव्यं गुडूच्याः पलपञ्चकम् ।
प्रभाते⁴ घृतसंयुक्तं शरद्ग्रीष्मेषु वाजिनम्⁵ ॥ १ ॥
रोगघ्नं पुष्टिदं वापि⁶ बलतेजोविवर्द्धनम् ।
तमेव⁷ मतिमान् दद्यात्⁸ क्षीरयुक्तमथापि वा ॥ २ ॥
१ । व्रणेषु दुष्टप्रमेषु । गः । ७ । तदेव । खः ।
२ । रोगेषु । गः । ८ । दत्वा । गः ।
३ । भोजनैः । गः ।
४ । दातव्यं । गः ।
५ । वाजिनाम् । गः
६ । चापि । गः ।
२२४ | अश्ववैद्यके | [५८ अध्यायः ।
गुडूची१कल्कयोगेन शतावर्याश्वगन्धयोः ।
मूलकल्कः प्रदातव्यः कुक्कुट्याश्च२ विशेषतः ॥ ३ ॥
पलानि पञ्च वाहस्य उत्तमस्य प्रदापयेत् ।
मध्यमं३ पलचत्वारि अधमस्य पलत्रयम् ॥ ४ ॥
चौषधी४ न च दातव्या एषां श्लेष्मान्विते हये ।
वातिके पैत्तिके वापि विहिता शास्त्रवेदिभिः५ ॥ ५ ॥
हरीतक्यामलाकल्कः प्रावृट्काले विधौ६ स्मृतः ।
तेनात्र नो विनिर्दिष्टः पुनरुक्ताभिशङ्कया ॥ ६ ॥
एवं विरिक्तं शुद्धाङ्गं कृत्वा यत्नेन वाजिनम् ।
दद्याद् गोमूत्रसंयुक्तां सतैलाञ्च हरीतकीम् ।
नित्यं त्रिसप्तकं यावत् पलपञ्चप्रमाणतः ॥ ७ ॥
सौवर्चलं तथा हिङ्गु पुष्करं विड्दाडिमम् ।
ग्रन्थिकं मेथिकाञ्चैषां भिषक् पिण्डञ्च कारयेत् ॥ ८ ॥
रक्तपित्तं ज्वरं हन्ति कासं श्वासं तथा घृणिम् ।
विद्रधिं क्षयरोगञ्च नाशयेद्वाजिनां ध्रुवम् ॥ ९ ॥
- । कुकुटी शाल्मलीवृक्षः । सुकर्णी इन्द्रवारुणी ।
१ । गुडूचीकल्कजं नस्यं कुर्य्यादश्वगन्धायाः । खः ।
२ । सुकर्ण्या । गः ।
३ । मध्यमस्याथ चत्वारि जघन्यस्य । गः ।
४ । चौषधञ्च प्रदातव्य एषां श्लेष्मा निघातयेत् । खः ।
५ । हिता शास्त्रार्थशास्त्रिभिः । खः ।
६ । विशेषतः । खः ।
६८ अध्यायः ।] रसायनकल्पः । ३३५
श्रीशालिहोत्रादिमुनिप्रणीतं
दृष्टाश्वशास्त्रं बहुविस्तरञ्च ।
स्वल्पप्रवोधं सफलं यथार्थं
कृतञ्च तद्वै जयदत्तकेन ॥ १० ॥
इति श्रीमहासामन्तजयदत्तकृतेऽश्वशास्त्रे रसायन-
कल्पे अष्टषष्टितमोऽध्यायः ।
इति श्रीमहासामन्तजयदत्तकृताश्ववैद्यकशास्त्रं
समाप्तम् ॥ शुभमस्तु ॥
This page is blank and contains no text, with only the digitization watermark at the bottom:
Digitized by Google
अथाश्ववैद्यकस्य सूचीपत्रम् ।
१ उद्देशाध्याये—
पृ० श्लो० ।
” मङ्गलाचरणम् ... ... १—१
” ग्रन्थकारप्रतिज्ञा ... ... १—२
” ग्रन्थकारपरिचयः ... ... २—४
” अध्यायसंख्यानिर्देशः ... ... २—५
” श्लोकसंख्यानिर्देशः ... ... २—५
” ग्रन्थप्रतिपाद्यकथनम् ... ... ३—६
२ प्रदेशाध्याये—
” जिह्वादिसर्वप्रदेशकथनम् ... ६—३
३ सर्वलक्षणाध्याये—
” यत्र प्रदेशे यल्लक्षणं शुभं तत्कथनम् १०—३
” अशुभलक्षणानि ... ... १९—६
” शुभावर्त्तकथनम् ... ... २२—२६
” अशुभावर्त्तकथनम् ... ... २५—३६
” शुभपुष्पककथनम् ... ... ३२—७१
” अशुभपुष्पककथनम् ... ... ३३—७८
” स्थानविशेषेषु शुभाशुभपुष्पककथनम् ३४—८२
” गतिकथनम् ... ... ३६—६३
” वर्णकथने ... ... ३८—६८
” कोकाहादिलक्षणम् ... ... ३६—१००
[ २ ]
३ सर्व्वलक्षणाध्याये—
पृ० श्लो० ।
” कयाहलक्षणम् ... ... ३६—१०१
” सेराहलक्षणम् ... .. ३६—१०१
” सुरुङ्गकलक्षणम् ... ... ३६—१०१
” नीलकलक्षणम् ... ... ३६—१०२
” पियूहलक्षणम् ... ... ३६—१०२
” खियाहलक्षणम् ... ... ४०—१०२
” इलाहखड्गाहकुष्णाहलक्षणम् ... ४०—१०३
” उराहलक्षणम् ... ... ४१—१०४
” वेराहलक्षणम् ... ... ४१—१०५
” उकनाहलक्षणम् ... ... ४१—१०६
” पुच्छकविशेषेण कोकाहादीनां संज्ञान्तर-
कथनम् ... ... ... ४२—१०७-११०
” वाजिदेहगतवर्णानां शुभाशुभलक्षण-
कथनम् ... ... ... ४३—१११-१२४
” अष्टमङ्गललक्षणम् ... ... ४३—११३
” मक्षिकाद्य ... ... ... ४४—११५
” पञ्चभद्रलक्षणम् ... ... ४५—१२०-१२१
” खरकथनम् ... ... ४६—१२५
” महादोषकथने ... ... ४८—
” काकुदीलक्षणम् ... ... ४९—१४०
” कराबीलक्षणम् ... ... ४९—१४१
” हीनदन्तलक्षणम् ... ... ५०—१४१
” अधिकदन्तलक्षणम् ... ... ५०—१४२-१४५
” एकाण्डलक्षणम् ... ... ५१—१४६