अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)
Ashvavaidyaka of Jayadatta Suri with Commentary
जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा
पृष्ठ 359, कुल 522 में से
संदर्भ में पढ़ें६९ अध्यायः ।] रसोनकल्पः । ३२६
कल्कप्रयोगेऽल्पगुणं तथा चात्ययवर्जितम्१ ।
क्रियावसाने२ दातव्यं शालिषष्टिकपायसम् ॥१६॥
त्रिरात्रं३ पञ्चरात्रं वा शर्करासर्पिषान्वितम् ।
पुराणः स तु विज्ञेयो नैव देयस्तु वाजिनाम् ॥ १७ ॥
विधिरेष समुद्दिष्टः पूर्व्वशास्त्रविशारदैः ।
द्विगुणञ्चापि सप्ताहं तुरङ्गं४ नैव वाहयेत् ॥ १८ ॥
स्वादुशीतोपचारञ्च तत्र यावत्५ प्रकीर्त्तितः ।
रसोने तु यदा खेदी६ श्वासवान् जायते हयः ॥ १९ ॥
व्यापद्युक्तः स विज्ञेयस्तस्य कुर्य्याद्भिषक्७ क्रियाम् ।
पित्तज्वरसमुद्दिष्टां८ क्रियां सर्व्वां प्रयोजयेत् ॥ २० ॥
रसोनव्यापदाघाते तुरङ्गं मतिमान् भिषक् ।
वातभुग्नास्थिगात्रेषु मारुताहतमूर्त्तिषु ॥ २१ ॥
वृद्धेषु च विशेषेण रसोनञ्च९ प्रदापयेत् ।
१७ । पुराण इत्यादिश्लोकः ख-पुस्तके नास्ति ।
१ । क्षयवर्जितः । ख ।
२ । कृतावसाने । ख ।
३ । त्रिरात्रं पञ्चरात्रं वा शर्करा माक्षिकान्विता । ग ।
४ । द्विगुणं । ग ।
५ । यथावत् परिकीर्त्तितः । ग ।
६ । सादी सभावाज्जायते हयः । ग ।
७ । क्रियामिमाम् । ग ।
८ । समुद्दिष्टं विधिं सर्व्वम् । ग । ९ । सरसोनं । ग ।
42