अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)
Ashvavaidyaka of Jayadatta Suri with Commentary
जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा
पृष्ठ 350, कुल 522 में से
संदर्भ में पढ़ें३२०. अश्ववैद्यके [५१ अध्यायः।
एवं कृत्वा भिषक् चूर्णैः शीघ्रमुद्वर्त्तयेत्ततः।
शालिहोत्रादिभिः प्रोक्तैर्विषघ्नैर्वक्ष्यमाणकैः॥ ८॥
कुष्ठजीरक¹दन्तीभिर्नैपाली²भद्रमुस्तकैः।
कट्फले³न्द्रयवागारधूमास्फोटकसैन्धवैः॥ ६॥
विड़ङ्गपिप्पलीक्षारशतपुष्पावचाजलैः⁴।
निशातेजोवतीपाठामरिचागारधूमकैः॥ १०॥
यथाप्राप्तैः समस्तैर्वा एतैश्चूर्णीकृतैर्बुधः।
दष्टस्योद्वर्त्तयेद्देशं प्रस्थितञ्चैव वाजिनः॥ ११॥
प्रलेपो वा प्रदातव्य एतैर्गोमूत्रपेषितैः।
ततः शान्तिं प्रयच्छन्ति तुरङ्गे विषदूषिते॥ १२॥
चन्दनागुरुकुष्ठैश्च लोध्रभार्गीफलीनखैः।
शिरोषदन्तीमूलैश्च दंशलेपो विषापहः॥ १३॥
दंशनात्तंस्य वाहस्य दंशस्थानं विचक्षणः।
छिन्द्यात्तीक्ष्णेन शस्त्रेण मन्त्रैश्चैव विषं हरेत्॥ १४॥
इति श्रीमहासामन्तजयदत्तकृतेऽश्वशास्त्रे विषचि-
कित्सिते एकषष्टितमोऽध्यायः॥
८। उद्वर्त्तयेत् घर्षयेत्।
६। आस्फोटः (हापरमाली)।
१३। फली प्रियङ्गुः।
१। चित्रक। गः। ३। कङ्कोल। गः।
२। पिप्पली। गः। ४। मन्त्रैः। गः।