अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)
Ashvavaidyaka of Jayadatta Suri with Commentary
जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा
पृष्ठ 361, कुल 522 में से
संदर्भ में पढ़ें६७ अध्यायः ।] गुग्गुलुकल्पः । ३११
अर्द्धप्रहरगे१ सूर्य्ये गुग्गुलुं दापयेद्भिषक् ।
अष्टभागावशिष्टेऽह्नि२ भोजने संप्रदापयेत् ॥ ४ ॥
दत्वातु गुग्गुलुं पाने अनुपानं ततो बुधः ।
न द्वितीये चतुर्थे वा गोक्षीरञ्च प्रदापयेत् ॥ ५ ॥
गुग्गुलुं पाययित्वातु भोजयेत्तुरगं भिषक् ।
विकाले भोजयेद् भक्त्या भोजनैरक्षमाषकैः ॥ ६ ॥
शाल्यन्नं वातले दद्यान् मांसानां रसकैर्युतम् ।
पित्ते मुद्गं ससर्पिञ्च भोजयेन्मधुना ततः ॥ ७ ॥
पञ्चतिक्तजले स्विन्नान् कटुकैरवचूर्णितान् ।
तथा मुद्गान् कुलत्थांश्च कफे विद्वान् प्रदापयेत् ॥ ८ ॥
पीतगुग्गुलुके वाहे क्षुधार्त्ते दापयेत्ततः ।
प्रहरं प्रहरार्द्धं वा नैव घासं प्रदापयेत् ॥ ६ ॥
शृतं शीतं जलं पाने घासे दूर्व्वा प्रकीर्त्तिता ।
मुनिभिः शालिहोत्राद्यैः शास्त्रमार्गानुसारतः ॥ १० ॥
व्याधितेषु तुरङ्गेषु पाने देयस्तु गुग्गुलुः ।
५ । दत्वेत्यादिश्लोकचतुष्टयं ख-पुस्तके नास्ति ।
६ । प्रहरमितिश्लोको ग-पुस्तके न विद्यते ।
१ । प्रहरार्द्धङ्गते । गः ।
२ । अर्द्धभागवशिष्टेऽह्नि भोजनेन । गः ।