सामग्री पर जाएँ
सर्वकोश
अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

Ashvavaidyaka of Jayadatta Suri with Commentary

जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा

DevanagariHindipublished522 पृष्ठ

पृष्ठ 363, कुल 522 में से

संदर्भ में पढ़ें
पृष्ठ 363

६८ अध्यायः ।] रसायनकल्पः । २२३
व्रणे¹ कुष्ठेषु खञ्जेषु त्रिफलाक्वाथसंयुतः ।
मन्दाग्नौ शोथरोगे² च गवां मूत्रेण योजितः ॥ १७ ॥
वातपित्तोल्बणे व्याधौ गोक्षीरघृतसंयुतः ।
देयः कृशानां पुष्ट्यर्थं मांसैर्युक्तश्च भोजने³ ॥ १८ ॥
इति श्रीमहान्तजयदत्तकृतेऽश्वशास्त्रे गुग्गुलुकल्पे
सप्तषष्टितमोऽध्यायः ।
अथाष्टषष्टितमोऽध्यायः ।
रसायनकल्पः ।
प्रकृष्टाय प्रदातव्यं गुडूच्याः पलपञ्चकम् ।
प्रभाते⁴ घृतसंयुक्तं शरद्ग्रीष्मेषु वाजिनम्⁵ ॥ १ ॥
रोगघ्नं पुष्टिदं वापि⁶ बलतेजोविवर्द्धनम् ।
तमेव⁷ मतिमान् दद्यात्⁸ क्षीरयुक्तमथापि वा ॥ २ ॥
१ । व्रणेषु दुष्टप्रमेषु । गः । ७ । तदेव । खः ।
२ । रोगेषु । गः । ८ । दत्वा । गः ।
३ । भोजनैः । गः ।
४ । दातव्यं । गः ।
५ । वाजिनाम् । गः
६ । चापि । गः ।