सामग्री पर जाएँ
सर्वकोश
अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

Ashvavaidyaka of Jayadatta Suri with Commentary

जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा

DevanagariHindipublished522 पृष्ठ

पृष्ठ 355, कुल 522 में से

संदर्भ में पढ़ें
पृष्ठ 355

६५ अध्यायः।] प्रकृतिज्ञानविवरणम् । १२५
कायेन धनुते यस्तु लोड़तेऽतिशयं हरिः ।
वडवायां रतश्चैव सोऽपि साध्यः प्रकीर्त्तितः ॥ २० ॥
चक्षुषोः सुदीर्त्तिय॑स्य खेददोषी च यो हयः ।
लांगुच्छिर्हितेत्तु (!) शिरा यस्य च वेधिता ॥ २१ ॥
यस्त्वसाध्यः स्मृतो वाहः स कश्चिन्नैव साध्यते ।
काले नापेक्षिताः साध्या दुश्चिकित्स्याः प्रकीर्त्तिताः ॥२२॥
इति श्रीमहासामन्तजयदत्तकृतेऽश्वशास्त्रे साध्या-
साध्यविवेके चतुःषष्टितमोऽध्यायः ।
अथ पञ्चषष्टितमोऽध्यायः ।
वातादिप्रकृतिलक्षणानि ।
धूमवर्णः कृशो रूक्षः शिरालो वेगवान्' हयः ।
जङ्घौर्वमितजिह्वश्च२ वातप्रकृतिरुच्यते ॥ १ ॥
पित्तप्रकृतिकश्चापि३ कृशतीक्ष्णतनुत्वचः ।
नित्यं शीताभिलाषी च वद्धाशी पीतवर्णकः ॥ २ ॥
२० । धनुते धनुराकारो भवति । लोड़ते मग्नो भवति ।
१ । शिरागण्डाङ्गवान् । गः ।
२ । ऊर्द्ध्वान्तो दिजिह्वश्च । खः ।
३ । निसान्ताशावतिसिद्धः प्रोक्तः । गः ।