सामग्री पर जाएँ
सर्वकोश
अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

Ashvavaidyaka of Jayadatta Suri with Commentary

जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा

DevanagariHindipublished522 पृष्ठ

पृष्ठ 351, कुल 522 में से

संदर्भ में पढ़ें
पृष्ठ 351

[ ३२१ ]
अथ द्विषष्टितमोऽध्यायः।
अपस्मारलक्षणचिकित्सितम् ।
पतत्यकस्माद् यो भूमौ स्तब्धाक्षो गतचेतनः¹।
स्वस्थाशयोऽपि² यः शीघ्रं सोऽपस्मारीति कीर्त्तितः ॥ १ ॥
उन्मादोक्तक्रियां सर्व्वां ततः कुर्य्याद्विचक्षणः ।
घृतस्यातिपुराणस्य तस्य पानञ्च शस्यते³ ॥ २ ॥
इति श्रीमहासामन्तजयदत्तकृतेऽश्वशास्त्रे अपस्मार-
चिकित्सिते द्विषष्टितमोऽध्यायः।
अथ त्रिषष्टितमोऽध्यायः।
षट्पदीभक्षणलक्षणचिकित्सितम् ।
आपाण्डुवर्णा⁴ कपिला हरिता च प्रजायते ।
महोदरा च षट्पादी⁵ सूक्ष्मवक्त्रोत्तमाङ्गिका ॥ १ ॥
षट्पदी नाम विख्याता तथा चाञ्जलिकारिका⁶।
गङ्गापतङ्गसंज्ञा⁷ च भाषिता सा दुरासदा ॥ २ ॥
१। कम्पवाहनः। गः। ५। मन्दोदरी षट्पदीच। गः।
२। पूर्णञ्च योत्थितः। गः। ६। चाञ्जलिकारिका। खः।
३। प्रशस्यते। गः। ७। गाङ्गपाताङ्गसंज्ञा। खः।
४। हुडुर्व्वाच। गः।
41