अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)
Ashvavaidyaka of Jayadatta Suri with Commentary
जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा
पृष्ठ 353, कुल 522 में से
संदर्भ में पढ़ें६० अध्यायः ।] साध्यासाध्यविवरणम् । ३२३
किञ्चित्साध्यं¹ तथासाध्यं लक्षणं च प्रकाश्यते ।
कृच्छ्रसाध्यः स विज्ञेयो याप्यो वाथ हयो भवेत्² ॥ ३ ॥
मुष्यते नष्टगन्धश्च³ सोऽप्यसाध्यः प्रकीर्त्तितः ॥ ४ ॥
सप्ताहात् क्रियमाणेऽपि भेषजे यस्य वाजिनः।
विशेषो न भवेत्तस्य चिकित्सां न प्रयोजयेत् ॥ ५ ॥
दीप्ताग्नेस्तु प्रयोक्तव्या क्रिया हीनाग्नये तु न।
निश्चेष्टोऽनिमिषाक्षश्च बालैर्वा यो न वोद्ध्यते ॥ ६ ॥
लभते ताड़नं दाहं रूपैश्च परिवर्जयेत् ।
तनुः स्तम्भा श्लथा वापि जिह्वा चैव तथाविधा ॥ ७ ॥
स्थूलो वा यो निराहार आहारैर्वा न पुष्यति।
पूर्वाङ्गं श्रूयते वामं दक्षिणं यस्य पश्चिमम् ॥ ८ ॥
सदाहगुरु एकाङ्गं श्रूयते यस्य वा हरेः।
शीतं गुदञ्च नासास्यं शीतोच्छासी च यो हयः ॥ ६ ॥
७ । तनुरित्यादि नैव साध्यः प्रकीर्तित इत्यन्तैः श्लोकैरषाध्य-
लक्षणानि प्रदर्शितानि ।
८ । वाङ्मित्यत्र वाममिति युक्तः पाठः ।
१ । इत्येवासाध्यताया । खः । ३ । नष्टगन्धी च । गः ।
२ । मतः । गः ।