अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)
Ashvavaidyaka of Jayadatta Suri with Commentary
जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा
पृष्ठ 357, कुल 522 में से
संदर्भ में पढ़ें६६ अध्यायः।] रसोनकल्पः । ३२७
मातुलुङ्गरसोपेतं मांसानां रसकेन च१।
रसं दद्याद्रसोनस्य अन्यैर्वाम्लैः२ समायुतम् ॥ ३ ॥
प्रथमे दिवसे देयं३ रसोनस्य पलद्वयम्।
एकैकपलवृद्ध्या तु दद्याद्४ यावच्च विंशति ॥ ४ ॥
उत्तमाञ्चस्य मात्रैषा मध्यमस्य चतुर्दश ।
जघन्यस्य५ पलान्यष्टौ मात्रैषा न विरोधिनी ॥ ५ ॥
हीनन्तु रसमात्रातो६ भागेनैकेन बुद्धिमान् ।
यवकल्केन७ संपुष्टं मांसयुक्तं प्रदापयेत् ॥ ६ ॥
प्रत्यहं दापयेत्तावद् यावन्मात्रा विवर्द्धते ।
मात्रावृद्धिं भिषग्युक्त्या८ दद्यादेकान्तरं ततः ॥ ७ ॥
रसोनस्य प्रयोगश्च हेमन्ते शिशिरे तथा।
प्रावृट्काले वसन्ते च मध्यमः परिकीर्त्तितः ॥ ८ ॥
८ । रसोनस्येत्यादिश्लोकः ख-पुस्तके नास्ति ।
१। माषाणाञ्च रसेन वा। गः।
२। प्रत्यैः। गः।
३। दद्यात्। गः।
४। यावत् पूर्णांच विंशतिः। गः।
५। अधमस्य। गः।
६। रसमात्रायाः। गः।
७। याववाटीयुतं। गः।
८। बुद्ध्या। खः।